Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
10
५८४
अथामीषामेव कल्पमाह
दोनिवि दाउं गमणं, धारणकुसलस्स खेत्तबहि देह | किइकम्म चोलपट्टे, ओवग्गहिया निसिजा य || २०१७ ॥ आचार्यः सूत्रार्थ पौरुष्यौ द्वे अपि गच्छ्वासिनां दत्त्वा यथालन्दिकानां समीपे गमनं करोति । 5 गत्वा च तत्र तेषामर्थं कथयति । अथाचार्यो न शक्नोति तत्र गन्तुं ततो यस्तेषां यथालन्दिकानां मध्ये धारणाकुशल:- अवधारणाशक्तिमान् स क्षेत्रवहिरन्तरा पल्लिकायाः प्रत्यासन्ने भूभागे समायाति, तत्र च गत्वा आचार्यस्तस्यार्थं ददाति । स च श्रुतभक्तिहेतोराचार्याणां 'कृतिकर्म' वन्दनकं दत्त्वा चोलपट्टकद्वितीय औपग्रहिक्यां निषद्यायामुपविष्टश्चार्थं शृणोति ॥ २०१७ ॥ अथ "दोन वि दारं गमणं" इत्यपवदन्नाह -
अत्थं दो व अदाएं, वच्चइ वायावर व अनेणं ।
एवं ता उडुबद्धे, वासासु य काउमुवओगं || २०१८ ॥ यद्याचार्यो द्वे अपि पौरुष्यौ दत्त्वा गन्तुं न शक्नोति ततोऽर्थमदत्त्वा, तथाप्यशक्तौ 'द्वावपि ' सूत्रार्थावदत्त्वा व्रजति, अन्येन वा शिष्येण स्वशिष्यान् 'वाचयति' वाचनां दापयति । अथाचार्यस्तत्र गन्तुमशक्तस्ततो यथालन्दिक एकः सूरिसमीपमायाति । एवं तावद् ऋतुबद्धे द्रष्ट16 व्यम् । वर्षासु चशब्दः पुनरर्थे वर्षासु पुनरयं विशेषः -- ' उपयोगं कृत्वा ' 'किं वर्षं पतिष्यति न वा ?' इति विमृश्य यदि जानाति पतिष्यति ततो नाचार्याणां समीपमायाति, 1 अंथ जानाति न पतिष्यति ततः समायाति || २०१८ || अथ गुरवस्तत्र गताः कथं समुद्दिशन्ति : इत्याहसंघाडो मग्गेणं, भत्तं पाणं च नेइ उ गुरूणं ।
रावा, तो अंतरपल्लिए एइ ॥। २०१९ ॥
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
25
20
'गुरूणां ' यथालन्दिकसमीपमुपगतानां योग्यं भक्तं पानं च गृहीत्वा सङ्घाटक : 'मार्गेण ' पृष्ठतो गत्वा तत्र नयति । अथ यावता कालेन यथालन्दिकानामुपाश्रयं गुरवो व्रजन्ति तावता ' अत्युष्णम्' अतीवातपश्चटति 'स्थविरा वा' वार्द्धकवयः प्राप्तास्ते आचार्यास्ततोऽन्तर पल्लिकायामेको यथालन्दिको धारणासम्पन्नः समायाति । तत्र गुरवोऽपि गत्वा तस्य वाचनां दत्त्वा सङ्घाटकेनानीतं भक्त - पानं समुद्दिश्य सन्ध्यासमये मूलक्षेत्रमायान्ति ॥ २०१९ ॥ अथान्तरपल्लिमपि गन्तुमसमर्था गुरवस्ततः किम् ? इत्याह
अंतर पडिवसभे वा, बिइयंतर बाहि वसभगामस्स । अन्नवसहीऍ तीए, अपरीभोगम्मि वाएइ || २०२० ॥
अन्तरपल्लिका-प्रतिवृषभग्रामयोः 'अन्तरा' अपान्तराले गत्वा यथालन्दिकं वाचयति । तत्र गन्तुमशक्तौ प्रतिवृषभश्रामे । अथ तत्रापि गन्तुं न शक्नोति ततः " बिइयंतर " चि द्वितीयं30 प्रतिवृषभ-मूलक्षेत्रयोरपान्तराललक्षणं यदन्तरं तत्र गत्वा वाचनां प्रयच्छति । तत्रापि गमनाशक्तौ 'वृषभग्रामस्य' मूलक्षेत्रस्य बहिर्विजने प्रदेशे गत्वा वाचयति । यदि तत्रापि गन्तुं न प्रभविष्णुस्ततो मूलक्षेत्र एवान्यस्यां वसतौ । तत्रापि गन्तुमशक्तौ तस्यामेव मूलवसतावपरिभो -
१ एतदन्तर्गतः पाठः भा० पुस्तक एव वर्तते ॥
Loading... Page Navigation 1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400