Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 371
________________ ५८२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ हितं साधु 'न प्रजहिमः' न परित्यजामः, एषोऽस्माकं 'धर्मः' समाचारः । यदि च साधु प्रजहीमस्ततः किमस्माकं 'जीवितमात्रेण' सदाचारजीवितविकलेन बहिःप्राणधारणमात्रेण प्रयोजनम् ? न किञ्चिदित्यर्थः ॥ २००९ ॥ तं वयणं हिय मधुरं, आसासंकुरसमुब्भवं सयणो। समणवरगंधहत्थी, वेइ गिलाणं परिवहंतो ॥ २०१० ॥ 'तद् एवंविधं वचनं 'हितं' परिणामपथ्यं मधुरं' श्रोत्र-मनसां प्रल्हादकं तथाऽऽश्वास एवाङ्करः-प्ररोहस्तस्य समुद्भवः-उत्पत्तिर्यस्मात् तद् आश्वासाङ्करसमुद्भवम् , ग्लानस्याश्वासप्ररोहबीजमिति भावः, स्वजन इव स्वजनः स आचार्य: 'श्रमणवरगन्धहस्ती' यथा हि गन्धहस्ती गज कलभानां यूथाधिपत्यपदमुद्रहमानो गिरिकन्दरादिविषमदुर्गेप्वपि पतितो न तत्परित्यागं करोति, 10 एवमयमपि गणधरपदमनुपालयन् विषमदशायामपि श्रमणवरान्न परित्यजतीति श्रमणवरगन्धहस्तीत्युच्यते, स ग्लानं 'परिवहन्' परिवर्तयन्नेवमनन्तरोक्तं ब्रवीति ।। २०१०॥ तत इत्थं तदीयवचनं श्रुत्वा समीपवर्तिनामगारिणामित्थं स्थिरीकरणमुपजायते जइ संजमो जइ तवो, दढमित्तित्तं जहुत्तकारित्तं । जइ बंभं जइ सोयं, एएसु परं न अन्नेसुं । २०११ ॥ 15 यदि 'संयमः' पञ्चाश्रवविरमणादिरूपो यदि 'तपः' अनशनादिरूपं 'दृढमैत्रीकत्वं' निश्चल सौहृदं 'यथोक्तकारित्वं' भगवदाज्ञाराधकत्वं यदि 'ब्रह्म' अष्टादशभेदभिन्नं ब्रह्मचर्य यदि 'शौचं' निरुपलेपता सद्भावसारता वा, एतानि यदि परमेतेष्वेव साधुपु प्राप्यन्ते 'नान्येषु' शाक्यादिपरतीर्थिकेषु, तेषामेवंविधस्य ग्लानप्रतिचरणविधेरभावात् ॥ २०११ ॥ इत्थं तावद् विषमायामपि दशायां ग्लानो न परित्यक्तव्य इत्युक्तम् । अथात्यन्तिके भये 20 तमपरित्यजतां यदि सर्वेषामपि विनाश उपढौकते ततः को विधिः ? इत्याह अचागाढे व सिया, निक्खित्तो जइ वि होज जयणाए। तह विउ दोण्ह वि धम्मो, रिजुभावविचारिणो जेणं ॥ २०१२॥ 'अत्यागाढे' प्रत्यन्तम्लेच्छादिभये, वाशब्दः पातनायाम् , सा च प्रागेव कृता, 'स्यात्' कदाचिद् यतनया निष्प्रत्यपाये प्रदेशे यद्यप्यसौ ग्लानो निक्षिप्तो भवेत् तथापि 'द्वयोरपि' 25 ग्लान-प्रतिचरकवर्गयोः 'धर्मः' "सर्व वाक्यं सावधारणं भवति" इति न्यायाद् धर्म एव मन्तव्यः। कुतः ? इत्याह—'येन' कारणेन द्वावपि तौ ऋजुः-अकुटिलो मोक्षं प्रति प्रगुणो यो भावःपरिणामस्तत्र विचरितुं शीलमनयोरिति ऋजुभावविचारिणौ, २ अंशठपरिणामयुक्ताविति भावः ॥ २०१२ ॥ ततश्च पत्तो जसो य विउलो, मिच्छत्त विराहणा य परिहरिया । 30 साहम्मियवच्छल्लं, उवसंते तं विमग्गंति ॥ २०१३ ॥ तैराचार्यः साधुभिश्च तादृशेऽपि भये सहसैव ग्लानमपरित्यजद्भिः 'विपुलं' दिग्विदिक्प्रचारि यशः प्राप्तम् । गाथायां पुंस्त्वनिर्देशः प्राकृतत्वात् , एवमन्यत्रापि यथायोगं लिङ्गव्यत्ययो मन्तव्यः । १-२२एतदन्तर्गतः पाठः मो० ले० पुस्तकयोरेव ॥

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400