________________
५८२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ हितं साधु 'न प्रजहिमः' न परित्यजामः, एषोऽस्माकं 'धर्मः' समाचारः । यदि च साधु प्रजहीमस्ततः किमस्माकं 'जीवितमात्रेण' सदाचारजीवितविकलेन बहिःप्राणधारणमात्रेण प्रयोजनम् ? न किञ्चिदित्यर्थः ॥ २००९ ॥
तं वयणं हिय मधुरं, आसासंकुरसमुब्भवं सयणो।
समणवरगंधहत्थी, वेइ गिलाणं परिवहंतो ॥ २०१० ॥ 'तद् एवंविधं वचनं 'हितं' परिणामपथ्यं मधुरं' श्रोत्र-मनसां प्रल्हादकं तथाऽऽश्वास एवाङ्करः-प्ररोहस्तस्य समुद्भवः-उत्पत्तिर्यस्मात् तद् आश्वासाङ्करसमुद्भवम् , ग्लानस्याश्वासप्ररोहबीजमिति भावः, स्वजन इव स्वजनः स आचार्य: 'श्रमणवरगन्धहस्ती' यथा हि गन्धहस्ती गज
कलभानां यूथाधिपत्यपदमुद्रहमानो गिरिकन्दरादिविषमदुर्गेप्वपि पतितो न तत्परित्यागं करोति, 10 एवमयमपि गणधरपदमनुपालयन् विषमदशायामपि श्रमणवरान्न परित्यजतीति श्रमणवरगन्धहस्तीत्युच्यते, स ग्लानं 'परिवहन्' परिवर्तयन्नेवमनन्तरोक्तं ब्रवीति ।। २०१०॥ तत इत्थं तदीयवचनं श्रुत्वा समीपवर्तिनामगारिणामित्थं स्थिरीकरणमुपजायते
जइ संजमो जइ तवो, दढमित्तित्तं जहुत्तकारित्तं ।
जइ बंभं जइ सोयं, एएसु परं न अन्नेसुं । २०११ ॥ 15 यदि 'संयमः' पञ्चाश्रवविरमणादिरूपो यदि 'तपः' अनशनादिरूपं 'दृढमैत्रीकत्वं' निश्चल
सौहृदं 'यथोक्तकारित्वं' भगवदाज्ञाराधकत्वं यदि 'ब्रह्म' अष्टादशभेदभिन्नं ब्रह्मचर्य यदि 'शौचं' निरुपलेपता सद्भावसारता वा, एतानि यदि परमेतेष्वेव साधुपु प्राप्यन्ते 'नान्येषु' शाक्यादिपरतीर्थिकेषु, तेषामेवंविधस्य ग्लानप्रतिचरणविधेरभावात् ॥ २०११ ॥
इत्थं तावद् विषमायामपि दशायां ग्लानो न परित्यक्तव्य इत्युक्तम् । अथात्यन्तिके भये 20 तमपरित्यजतां यदि सर्वेषामपि विनाश उपढौकते ततः को विधिः ? इत्याह
अचागाढे व सिया, निक्खित्तो जइ वि होज जयणाए।
तह विउ दोण्ह वि धम्मो, रिजुभावविचारिणो जेणं ॥ २०१२॥ 'अत्यागाढे' प्रत्यन्तम्लेच्छादिभये, वाशब्दः पातनायाम् , सा च प्रागेव कृता, 'स्यात्' कदाचिद् यतनया निष्प्रत्यपाये प्रदेशे यद्यप्यसौ ग्लानो निक्षिप्तो भवेत् तथापि 'द्वयोरपि' 25 ग्लान-प्रतिचरकवर्गयोः 'धर्मः' "सर्व वाक्यं सावधारणं भवति" इति न्यायाद् धर्म एव मन्तव्यः।
कुतः ? इत्याह—'येन' कारणेन द्वावपि तौ ऋजुः-अकुटिलो मोक्षं प्रति प्रगुणो यो भावःपरिणामस्तत्र विचरितुं शीलमनयोरिति ऋजुभावविचारिणौ, २ अंशठपरिणामयुक्ताविति भावः ॥ २०१२ ॥ ततश्च
पत्तो जसो य विउलो, मिच्छत्त विराहणा य परिहरिया । 30
साहम्मियवच्छल्लं, उवसंते तं विमग्गंति ॥ २०१३ ॥ तैराचार्यः साधुभिश्च तादृशेऽपि भये सहसैव ग्लानमपरित्यजद्भिः 'विपुलं' दिग्विदिक्प्रचारि यशः प्राप्तम् । गाथायां पुंस्त्वनिर्देशः प्राकृतत्वात् , एवमन्यत्रापि यथायोगं लिङ्गव्यत्ययो मन्तव्यः । १-२२एतदन्तर्गतः पाठः मो० ले० पुस्तकयोरेव ॥