________________
५८३
भाप्यगाथाः २०१०-१६] प्रथम उद्देशः । तथा 'मिथ्यात्वं' तत्परित्यागसमुत्थमन्येषी गृहस्थानां ग्लानस्य वा मिथ्यादर्शनगमनं तत् परिहृतं भवति । विराधना च ग्लानस्य सहायविरहितस्य संयमा-ऽऽत्मविषया सा च परिहृता । साधर्मिकवात्सल्यं चानुपालितं भवति । यदा च तदत्यागाढं भयमुपशान्तं भवति तदा 'त' ग्लानं 'विमार्गयन्ति' शोधयन्तीत्यर्थः ॥ २०१३ ॥ गतं ग्लानद्वारम् । अथ गच्छप्रतिबद्धयथालन्दिकद्वारमाह
पडिबद्धे को दोसो, आगमणेगाणियस्स वासासु । __ मुय-संघयणादीओ, मो चेव गमो निरवसेसो ॥ २०१४ ॥ प्रतिवन्धनं प्रतिबद्धं गच्छप्रतिवद्ध इत्यर्थः तत्र कारणं यथालन्दिकानां वक्तव्यम् । “को दोसो" त्ति को नाम दोषो भवति यत् ते यथालन्दिका आचार्याधिष्ठिते क्षेत्रे न तिष्ठन्ति ? । "आगमणेगाणियम्स" ति यद्याचार्याः वयं क्षेत्रबहिर्गन्तुं न शक्नुवन्ति तत एकाकिनो यथाल-10 न्दिकस्यागमनं - गुरूणां समीपे । भवति । “वासासु" ति वर्षासु उपयोगं दत्त्वा यदि जानाति वर्ष न पतिष्यति तत आगच्छति र यथालन्दिको गुरुसमीपे, » अन्यथा तु नेति । श्रुत-संहननादिकस्तु गमः स एव निरवशेषो वक्तव्यः यो जिनकल्पिकानाम् , यस्तु विशेषः स प्रागेवोक्तः ।। २०१४ ॥ अथ प्रतिबद्धपदं व्याख्याति
सुत्तत्थ सावसेसे, पडिबंधो तेसिमो भवे कप्पो।
आयरिए किकम्मं, अंतर बहिया व वसहीए ॥ २०१५॥ सूत्रस्यार्थस्तैर्गृहीतः परमद्यापि 'सावशेषः' न सम्पूर्णः एष तेषां गच्छविषयः प्रतिवन्धो द्रष्टव्यः । तेषां च 'अयं' वक्ष्यमाणः कल्पः, यथा-आचार्यस्यैव 'कृतिकर्म' वन्दनकं तैर्दातव्यं नान्येषां साधूनाम् । तथा यद्याचार्यों न शक्नोति गन्तुं ततोऽन्तरा वा ग्रामस्य बहिर्वा वसतौ यथालन्दिकस्य वाचनां ददाति । एतदुत्तरत्र भावयिष्यते ॥ २०१५॥ अथ को दोष इति 20 द्वारम् । शिष्यः पृच्छति—यद्याचार्याधिष्ठिते क्षेत्रे ते तिष्ठेयुस्ततः को दोषः स्यात् ! उच्यते
नमणं पुव्वब्भासा, अणमणे दुस्सील थप्पगासंका ।
आयट्ट कुक्कुड ति य, वातो लोगे ठिई चेव ॥ २०१६ ॥ __यथालन्दिकानां न वर्तते आचार्य मुक्त्वा अन्यस्य साघोः प्रणामं कर्तुम् , तथाकल्पत्वात् । ततस्ते क्षेत्रान्तस्तिष्ठन्तः पूर्वाभ्यासाद् 'नमनं' प्रणाम साधूनां कुर्युः । गच्छवासिनश्च यथाल-25 न्दिकान् वन्दन्ते, ते पुनर्यथालन्दिकास्तान् भूयो न प्रतिवन्दन्ते, ततस्तेषामनमने लोको ब्रूया. त्-'दुःशीलाः' शैलस्तम्भकल्पा अमी, येनान्येषामित्यं वन्दमानानामपि न प्रतिवन्दनं प्रयच्छन्ति, न वा कमप्यालापं कुर्वन्ति । गच्छवासिषु वा लोकस्य स्थाप्यकाशका भवति, अवश्यं स्थाप्याः-दुःशीलत्वादवन्दनीयाः कृता अमी, अन्यथा कथं न प्रतिवन्यन्ते , आत्मार्थिका वा अमी येनाप्रतिवन्दमानानपि वन्दन्ते, 'कौत्कुटिका वा' मातृस्थानकारिणोऽमी लोकपक्तिनिमि- 30 चमित्थं वन्दन्ते । एवं लोके वाद उपजायते । एतैः कारणैः क्षेत्रबहिस्ते यथालन्दिकाखिष्ठन्ति । अपि च 'स्थितिरेव' कल्प एवायममीषाम् , यत् क्षेत्राभ्यन्तरे न तिष्ठन्ति ॥२०१६ ॥ . १°षां तस्य वा मिथ्या मो• ले• विना ॥२-३ - एतदन्तर्गतः पाठः मो• • पुखम्योरेन ।
-