________________
५८१
भाष्यगाथाः १९९९-२००९] प्रथम उद्देशः ।
होउ त्ति भणिय गुरुगा, इणमन्ना आवई बिइया ॥२००४॥ अथवा स ग्लानो भणेत्-मां 'छर्दयित्वा' परित्यज्य यूयं गच्छत । एवमुक्त यदि कोऽपि साधु: 'भवत्वेवम्' इति भणति तदा तस्य चत्वारो गुरुकाः । 'इयं' वक्ष्यमाणलक्षणा प्रकारान्तरेण 'अन्या' द्वितीया आपदुच्यते ॥ २००४ ॥ तामेवाह
पच्चंतमिलक्खेसुं, बोहियतेणेसु वा वि पडिएसु। जणवय-देसविणासे, नगरविणासे य घोरम्मि ॥ २००५ ॥ बंधुजणविप्पओगे, अमायपुत्ते वि वट्टमाणम्मि ।
तह वि गिलाण सुविहिया, वचंति वहंतगा साहू ॥ २००६॥ प्रत्यन्ताः-प्रत्यन्तदेशवासिनो ये म्लेच्छास्तेषु तथा बोधिकस्तेना नाम-ये मानुषाणि हरन्ति तेषु वा पतितेषु सत्सु यो जनपैदस्य-मगधादेः देशस्य वा-तदेकदेशभूतस्य विनाशः-विध्वंसस्त-10 स्मिन् , तथा नगरविनाशे च 'घोरे' रौद्रे उपस्थिते, बन्धुजनानां-खज्ञातिलोकानां मरणभयातिरेकात् पलायमानानां यः परस्परं विप्रयोगस्तस्मिन् , कथम्भूते ? 'अमातापुत्रे' स्वखजीवितरक्षणाक्षणिकतया यत्र माता पुत्रं न स्मरति पुत्रोऽपि मातरं न स्मरति तदमातापुत्रम् "मयूरव्यंसकेत्यादयः” [ सिद्ध० ३-१-११६ ] इति समासः तस्मिन्नपि वर्तमाने ये 'सुविहिताः' शोभनविहितानुष्ठानास्ते तथापि ग्लानं वहन्तो व्रजन्ति न पुनः परित्यजन्ति ॥ २००५॥२००६॥ 15 ततोऽसौ ग्लानः प्राह
तारेह ताव भंते !, अप्पाणं किं मएल्लयं वहह ।
एगालंबणदोसेण मा हु सव्वे विणस्सिहिह । २००७॥ तारयत ताव भ॑दन्त ! यूयमात्मानमस्मादपारादापत्पारावारात् , किं मां मृतमिव मृतम्-अद्यश्वीनमृत्युसम्भवतया शबप्रायं वहत ? । अपि च 'एकालम्बनदोषेण मदीयमेव यदेकमालम्बनं तदेव 20 बहूनां विनाशकारणतया दोषस्तेन मा यूयं सर्वे विनङ्ख्यथ ॥ २००७ ॥
एवं च भणियमेत्ते, आयरिया नाण-चरणसंपन्ना ।
अचवलमणलिय हितयं, संताणकार वइमुदासी ॥ २००८ ॥ एवं च ग्लानेन भणितमात्रे सति आचार्याः 'ज्ञान-चरणसम्पन्नाः' संविग्नगीतार्थ इति भावः 'अचपलाम्' अत्वरितां त्वराकारणस्य मरणभयस्याभावात् 'अनलीकां' सत्यां सद्भावसारत्वात् 25 'हिताम्' अनुकूलां परिणामसुन्दरत्वात् 'सन्त्राणकरीं' आर्त्तजनपरित्राणकारिणीं वाचमुदाहृतवन्तः ॥२००८ ॥ कथम् ? इत्याह
सव्वजगजीवहियं, साहुं न जहामों एस धम्मो थे ।
जति य जहामो साहुं, जीवियमित्तेण किं अम्हं ॥ २००९ ॥ सर्वस्मिन् जगति ये जीवाः-त्रस-स्थावरभेदभिन्नास्तेषामभयदायकतया हितं सर्वजगज्जीव-30 १°माणा 'अन्या' भा० ॥ २°पदः-मगधादिः देशः-तद्वयवस्तयोः विना भा० ॥ ३ भगवन्तः! आत्मानमस्सादापदर्णवात् , किं भा० ॥ ४ सत्राणं-परित्राणं रक्षणमित्येको. ऽर्थः तत्करी-तत्कारिणी वाच° भा० ॥