SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ 10 ५८० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् ? जाहे न संथरिजा, गणस्स उ निवेदणं कुजा ॥ १९९९ ॥ त्रीन् संवत्सरान् कुलमपि प्रायोग्यभक्त-पानौषधादिभिः प्रयत्नेन परिवर्त्तयति । ततस्त्रिषु वर्षेषु पूर्णेषु यदा न संस्तरेत् तदा गणस्य निवेदनं कुर्यात् ॥ १९९९ ॥ ततः संवच्छरं गणो वी, गिलाण परियट्टई पयत्तेणं । जाहे न संथरिज़ा, संघस्स निवेयणं कुजा ॥ २००० ॥ एकं संवत्सरं यावद् गणोऽपि ग्लानं महता प्रयत्नेन परिवर्तयति । ततो यदा न संस्तरेत् ततः सङ्घस्य निवेदनं कुर्यात् । ततः सङ्घो यावज्जीवं तं सर्वप्रयत्नेन परिवर्तयति ॥ २००० ।। गाथात्रयोक्तमर्थमेकगाथया संगृह्य प्रतिपादयति छम्मासे आयरिओ, कुलं तु संवच्छराइँ तिन्नि भवे । संवच्छरं गणो वी, जावजीवाय संघो उ ॥ २००१॥ व्याख्यातार्था ॥ २००१॥ एतच्च यो भक्तविवेकं कर्तुं न शक्नोति तमुद्दिश्य द्रष्टव्यम् । यस्तु भक्तविवेकं कर्तुं शक्नोति तेनाष्टादश मासान् यावत् प्रथमतश्चिकित्सा कारयितव्या, विरतिसहितस्य जीवितस्य पुनः संसारे दुरापत्वात् । ततः परं यदि न प्रगुणीभवति ततो भक्तविवेकः कर्त्तव्य इति । आगाढे कारण15 जाते सञ्जाते सति ग्लानस्य वैयावृत्त्यं न कुर्यादपि परित्यजेद् वा ग्लानम् । किं पुनस्तत् कारणजातम् ? इति उच्यते असिवे ओमोयरिए, रायडुढे भये व गेलन्ने । [द.नि.७३] एएहि कारणेहिं, अहवा वि कुले गणे संघे ॥ २००२॥ अशिवे समुत्पन्ने सति ग्लानं परित्यजेद् न च प्रायश्चित्तमाप्नुयात् । एवम् । अवमौदर्ये 20 राजद्विष्टे 'भये वा' शरीरस्तेनसमुत्थे "गेलने" त्ति सर्वो वा गच्छो ग्लानीभूत इत्यतः कस्य कः प्रतिचरणं करोतु ? एतैः कारणैः, अथवा कुलस्य गणस्य सङ्घस्य वा समर्पिते ग्लाने खयमकुर्वन्नपि शुद्धः । परित्यजने त्वियं यतना-अशिवे समुत्पन्ने देशान्तरं सङ्क्रामन् ग्लानमन्येषां प्रतिबन्धस्थितानां साधूनामर्पयति, तेषामभावे शय्यातरादीनां समीपे साधर्मिकस्थलीषु वा देव कुलिकेषु वा निक्षिपन्ति । एवमवमौदर्ये भये च द्रष्टव्यम् । राजद्विष्टे योकस्य गच्छस्य 25 प्रद्वेषमापन्नो राजा ततोऽन्येषां साधूनां समर्पयन्ति, अथ सर्वेषामपि प्रद्विष्टस्ततः श्रावकादिषु निक्षिप्य व्रजन्ति । उत्सर्गतः पुनरेतैरपि कारणैर्न निक्षिपन्ति किन्तु स्कन्धे न्यस्य वहन्तीति ॥२००२ ॥ आह च एएहिं कारणेहि, तह वि वहंती न चेव छड्डिंति । असहू वा उवगरणं, छडिंति न चेव उ गिलाणं ॥ २००३ ॥ 30 एतैः कारणैर्यद्यपि ग्लानो निक्षेप्तुं कल्पते तथापि वहन्ति नैव परित्यज्यन्ति । अथ 'असहिष्णवः' वोढुमसमर्थाः तत उपकरणं परित्यजन्ति नैव ग्लानम् ॥ २००३ ॥ अहवा वि सो भणेजा, छड्डेउ ममं तु गच्छहा तुन्भे। १ एतदन्तर्गतः पाठः मो० ले० पुस्तकयोरेव ॥ २ °नरेतेष्वपि कारणेषु न नि° भा० ॥
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy