________________
भाप्यगाथाः १९८६-९८] प्रथम उद्देशः ।
मंविग्ग नीयवासी, कुसील ओसन्न तह य पासत्था ।
संसत्ता विंटाया, अहछंदा चेव अट्ठमगा ॥ १९९२ ॥ संविमाः १ नित्यवासिनः २ कुशीलाः ३ अवसन्नाः ४ पार्श्वस्थाः ५ संसक्ताः ६ वेण्ठकाः ७ यथाच्छन्दाश्चैवाष्टमाः ८ ॥ १९९२ ॥ एतेषु परित्यजतो यथासङ्ख्यमिदं प्रायश्चित्तम्
चउरो लहुगा गुरुगा, छम्मासा होति लहुग गुरुगा य। 5
छेदो मूलं च तहा, अणवटुप्पो य पारंची ॥ १९९३ ।। चत्वारो लघुकाः १ चत्वारो गुरुकाः २ षण्मासा लघुकाः ३ षण्मासा गुरुकाः ४ छेदः ५ मूलं च तथा ६ अनवस्थाप्यश्च ७ पाराञ्चिकः ८॥ १९९३ ॥ अथवा
संविग्गा सिजातर, सावग तह दंसणे अहाभद्दे ।
दाणे सड्डी परतित्थिगे य परतित्थिगी चेव ॥ १९९४ ॥ 10 'संविमाः' प्रतीताः १ 'शय्यातरः' प्रतिश्रयदाता २ 'श्रावकः' गृहीताणुव्रतः ३ दर्शनसम्पन्नः-अविरतसम्यग्दृष्टिः ४ 'यथाभद्रकः' शासनबहुमानवान् ५ 'दानश्राद्धिकः' दानरुचिः ६ 'परतीर्थिकः' शाक्यादिपुरुषः ७ 'परतीर्थिकी' शाक्यादिपाषण्डिनी ८ ॥१९९४ ॥ एतेषु परित्यजतो यथाक्रममिदं प्रायश्चित्तम् - चउरो लहुगा गुरुगा, छम्मासा होति लहुग गुरुगा य ।
10 छेदो मूलं च तहा, अणवठ्ठप्पो य पारंची ॥ १९९५ ॥ उक्तार्था ॥ १९९५ ॥ अथ क्षेत्रतः प्रायश्चित्तमाह
उवस्सय निवेसण साही, गाममज्झे य गामदारे य । उजाणे सीमाए, सीममइक्कामइत्ताणं ॥ १९९६ ॥ चउरो लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । 20
छेदो मूलं च तहा, अणवठ्ठप्पो य पारंची ॥ १९९७ ॥ क्षेत्रान्तर सङ्क्रामन्नुपाश्रये ग्लानं परित्यज्य यदि गच्छति तदा चत्वारो लघुकाः । उपाश्रयानिष्काश्य निवेशनं यावदानीय परिहरति चत्वारो गुरुकाः । साहिकायां षण्मासा लघवः । ग्राममध्ये षण्मासा गुरवः । ग्रामद्वारे च्छेदः । उद्याने मूलम् । ग्रामसीमनि परिष्ठापयति अनवस्थाप्यम् । स्वग्रामसीमानमतिकाम्य परित्यजन् पाराञ्चिक इति । यत एवमतो न परित्यजनीयः 25 ॥ १९९६ ॥ १९९७ ॥ कियन्तं पुनः कालमवश्यं प्रतिचरणीयः ? उच्यते
छम्मासे आयरिओ, गिलाण परियट्टई पयत्तेणं ।।
जाहे न संथरेजा, कुलस्स उ निवेदणं कुजा ॥ १९९८ ॥ येन स ग्लानः प्रत्राजितो यस्य वा उपसम्पदं प्रतिपन्नः स आचार्यः सूत्रार्थपौरुषीप्रदानमपि परिहृत्य प्रयत्नेन षण्मासान् ग्लानं 'परिवर्तयति' प्रतिचरति । यदा षट्खपि मासेषु पूर्णेषु स ग्लानः 30 'न संस्तरेत्' न प्रगुणीभवेत् , यद्वा आचार्य एव स्वयमन्याभिर्गणचिन्ताभिर्न संस्तरेत् ततः 'कुलस्य निवेदनं कुर्यात्' कुलसमवायं कृत्वा तस्य समर्पयेदित्यर्थः ॥ १९९८ ॥ ततः
संवच्छराणि तिनि य, कुलं पि परियई पयत्तेणं ।