SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ शीत-वाता-ऽऽतपैः परिश्रमेण वाऽनागाढपरितापनादीनि जायन्ते ततः प्रायश्चित्तमनन्तरगाथोक्त नीत्या द्रष्टव्यम् || १९८५ ॥ 5 उवेहोभासण ठेवणे, परितावण महय मुच्छ किच्छ कालगए । चचारि छच्च लहु-गुरु, छेदो मूलं तह दुगं च ॥ १९८६ ।। उपेक्षायां ग्लानो भक्त-पानमौषधं वा अवभाषणेनोत्पाद्य स्थापयति न शक्नोम्यहं दिने दिने पर्यटितुं ततश्चत्वारो गुरवः । तेन परिवासितेन शीतलत्वाद् अनागाढपरितापनादीन्युपजायन्ते प्रायश्चित्तयोजना प्राग्वत् ॥ १९८६ ॥ 10 15 20 ५७८ उवेोभासण करणे, परितावण महय मुच्छ किच्छ कालगए । चत्तारि छ च्च लहु-गुरु, छेदो मूलं तह दुगं च ॥। १९८७ ॥ उपेक्षायां कृतायां यदि ग्लानोऽवभाप्य स्वयमेवौषधादिकं करोति गृहस्थैर्वा कारयति तदा चत्वारो गुरवः । स्वयंकुर्वतश्चिकित्साद्यनभिज्ञैर्गृहस्थैर्वा चिकित्सां कारयतोऽनागाढपरितापादीनि भवन्ति । शेषं प्राग्वत् ॥ १९८७ ॥ 1 antra ओहाणे, सलिंगपडिसेवणं निवारिते । गुरुगा अनिवारिते, चरिमं मूलं च जं जत्थ ।। १९८८ ॥ अप्रतिजागरितो ग्लानो यदि निर्वेदेन वैहायसं मरणमभ्युपगच्छति ततस्तेषामप्रतिजागरatri 'चरमं' पाराञ्चिकम् । अथ ' अवधावनम्' उत्पत्रजनं करोति ततो मूलम् । खलिङ्गस्थितो यद्यकल्प्यप्रतिसेवनां करोति ततश्चतुर्गुरुकाः । यदि तं तथा प्रतिसेवमानं निवारयति तदापि चतुर्गुरुकाः । अथ न निवारयति ततो यद् यत्र अप्राशुकेऽनेषणीये वा गृह्यमाणे प्रायश्चित्तं तत् तत्र प्राप्नोति ॥ १९८८ ॥ अथ निर्द्धर्मा येषु स्थानेषु ग्लानं त्यजेत् तान्याह - संविग्गा गीयत्था संविग्गा खलु तहेव गीयत्था । संविग्गमसंविग्गा, नवरं पुण ते अगीयत्था ।। १९८९ ।। संविग्ग संजईओ, गीयत्था खलु तहेवऽगीयत्था । गीयत्थ अगीयत्था, नवरं पुण ता असंविग्गा || १९९० ॥ संयताश्चतुर्द्धा, तद्यथा— संविग्ना गीतार्थाः १ असंविग्ना गीतार्थाः २ संविद्मा अगीतार्थाः ३ 25 असंविग्ना अगीतार्थाश्व ४ इति । संयत्योऽपि चतुर्विधाः, तद्यथा - संविग्ना गीतार्थाः १ संविग्ना अगीतार्थाः २ असंविमा गीतार्थाः ३ असंविद्मा अगीतार्थाः ४ || १९८९ || १९९० ॥ एतेष्वष्टसु स्थानेषु ग्लानं परित्यजतः प्रायश्चित्तमाह चउरो लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवटुप्पो य पारंची ॥। १९९१ ॥ 30 प्रथमे स्थाने ग्लानं परित्यजति चत्वारो लघुकाः । द्वितीये चत्वारो गुरुकाः । तृतीये षण्मासा लघवः । चतुर्थे षण्मासा गुरवः । पञ्चमे च्छेदः । षष्ठे मूलम् । सप्तमेऽनवस्थाप्यः । अष्टमे पाराविको भवति ॥। १९९१ ॥ यदि वा १ एतदम्तर्गतः पाठः भा० नास्ति ॥
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy