________________
५७७
भाष्यगाथाः १९७६-८५] प्रथम उद्देशः ।
इयरे वि भणंतेवं, नियत्तिमो नेह अतरते ॥ १९८० ॥ नागरा ग्रामेयकान् ब्रुवते—'यादृशानि' तिक्त-कटुकादीनि द्रव्याणि ग्लानार्थमिच्छत 'तानि' तादृशानि अस्मान् 'मुक्त्वा' विना न लप्स्यध्वे । 'इतरेऽपि' ग्रामेयका नागरान् एवं भणन्तियूयमस्माभिर्विना दुग्धादीनि न लप्स्यध्वे । ततस्ते द्वयेऽपि परस्परमभिदधति-यद्येवं ततो निवर्तामहे, यूयममुम् 'अतरन्तं' ग्लानं नयत, वयं युष्मदीयं नयाम इति ॥ १९८० ॥ 5
एवं सङ्क्रामणां कृत्वा तत्र च ग्रामे नगरे वा नीत्वा सर्वप्रयत्नेन प्रतिचरणा विधेया । न पुनर्निर्धर्मतयेत्थं चिन्तनीयं भणनीयं वा
देवा हुणे पसन्ना, जं मुक्का तस्स णे कयंतस्स ।। सो हु अइतिक्खरोसो, अहिगं वावारणासीलो ॥ १९८१ ॥ तेणेव साइया मो, एयस्स वि जीवियम्मि संदेहो ।
10 पउणो वि न एसऽम्हं, ते वि करिजा न व करिजा ॥ १९८२ ॥ _ 'हुः' अवधारणे, नूनं “णे” अस्माकं देवाः प्रसन्नाः यद् मुक्ता वयं तस्मात् कृतान्तात् , गाथायां पञ्चम्यर्थे षष्ठी । इह कृतान्तशब्देन कृतं-निष्पादितं बह्वपि कार्यमन्तं नयतीति व्युत्पत्त्या कृतघ्न उच्यते, यद्वा कृतान्तः-यमस्तत्तुल्यत्वादसावपि कृतान्तः । अत एवाह-स हि 'अतितीक्ष्णरोषः' पुनः पुना रोषणशीलो दीर्घरोषी वेत्यर्थः । 'अधिकम्' अत्यर्थ 'व्यापारणाशील:' 15 कृताकृतेषु कार्येषु भूयो भूयो नियुङ्क्ते । यद्वा तेनैव ग्लानेन 'सादिताः' खेदं प्रापिता वयमतोऽस्य कर्तुं न शक्नुमः । अथवा एतस्यापि जीविते सन्देहस्ततः किं निरर्थकमात्मानं परिक्लेशयामः ?, प्रगुणीभूतोऽपि चैष नास्माकं भविष्यति, तेऽप्यस्मदीयस्य कुर्युर्वा न वा, अतो वयमपि न कुर्महे । एवमादीनि ब्रुवाणानां तेषां निर्धर्माणामाचार्येण शिक्षा दातव्या न तूपेक्षा विधेया ॥१९८१॥ १९८२ ॥ यत आह
20 जो उ उवेहं कुजा, आयरिओ केणई पमादेणं ।
आरोवणा उ तस्सा, कायव्वा पुत्वनिद्दिट्ठा ॥ १९८३ ॥ 'यस्तु' यः पुनराचार्यः केनापि प्रमादेन प्रमत्तः सन्नुपेक्षां कुर्यात् तस्यारोपणा पूर्वनिर्दिष्टा कर्तव्या, चत्वारो गुरव इत्यर्थः ॥ १९८३ ॥ अथवेयमारोपणा
उवेहऽप्पत्तिय परितावण महय मुच्छ किच्छ कालगए।
चत्तारि छ च लहु-गुरु, छैओ मूलं तह दुगं च ॥ १९८४ ॥ यो ग्लानस्योपेक्षां करोति तस्य चत्वारो गुरुकाः । उपेक्षायां कृतायां यद्यप्रीतिकं ग्लानस्य जायते ततोऽपि चत्वारो गुरवः । अनागाढपरितापे चतुर्लघु । आगाढपरितापे चतुर्गुरु । महादुःखे षड्लघु । मूर्छायां षड्गुरु । कृच्छ्प्राणे च्छेदः । कृच्छोच्छ्वासे मूलम् । समवहतेऽनवस्थाप्यम् । कालगते पाराञ्चिकम् ॥ १९८४ ॥
उवेहोभासण परितावण महय मुच्छ किच्छ कालगए ।
चत्तारि छ च लहु-गुरु, छेओ मूलं तह दुगं च ॥ १९८५ ॥ उपेक्षायां स ग्लानः स्वयमेव गत्वा गृहस्थानवभाषते चत्वारो लघवः । तस्य तत्र गच्छतः
30