SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ अभितरेतरा पुण, गोरससिंभुदय - पित्तट्ठा ।। १९७६ ॥ नागरं ग्लानं सानुप्रगे - प्रत्यूषवेलायां लभ्यते या भिक्षा सा सानुप्रगभिक्षा तदर्थं ग्रामं नयन्ति । नगरे हि प्राय उत्सूरे भिक्षा लभ्यते, तावतीं च वेलां प्रतीक्षमाणस्य ग्लानस्य कालातिक्रान्तभोजित्वेन जाठराग्निमान्द्यमुपजायते, अतः सानुप्रेगे - सवारमेव भिक्षा यद्रामे लभ्यते तदर्थं ग्लानो B ग्रामं नीयते । नगरे वा दुग्धादीनि दुर्लभद्रव्याणि क्षीणानि अतस्तेषामर्थाय आभ्यन्तराः— नगरवास्तव्यसाधवो ग्लानमन्यत्र नयन्ति । 'इतरे पुनः' ग्रामीणग्लानप्रति चरका ग्लानस्य गोरसेन - उपलक्षणत्वादन्येन तादृशेन श्लेष्मजनकद्रव्येण सिम्भः - श्लेष्मा तस्योदयो जातः पित्तं वा क्षुभितमिति परिभाव्य तदुपशामकद्रव्याणामुत्पादनार्थं ग्लानं नगरं नयन्ति || १९७६ ॥ Do ५७६ 10 परिहीणं तं दव्वं, चमढिजंतं तु अन्नमनेहिं । कालाइकंतेण य, वाही परिवडिओ तस्स ।। १९७७ ॥ अन्यान्यग्लानसङ्घाटकैः स्थापनाकुलेषु चमढ्यमानं सत् परिक्षीणं 'तद् द्रव्यं' ग्लानप्रायोग्यम्, अथवा वैद्येन ग्लानस्योपदिष्टम् — सवारमेव भवता भोक्तव्यम्; तदानीं च नगरे न लभ्यते ततस्तेन कालातिक्रान्तेन तस्य व्याधिः सुष्ठुतरं परिवर्द्धितः ॥ १९७७ ॥ एवमादीनि कारणानि विज्ञाय ते परस्परं भणन्ति - 15 अथवा नागरग्लानचालनायामिदं कारणम् उक्खिप्पऊ गिलाणो, अन्नं गामं वयं तु नेहामो । नेऊण अन्नगामं, सव्वपयत्तेण कायव्वं ।। १९७८ ।। उत्क्षिप्यतां ग्लानः, यतस्तमन्यं ग्रामं वयं नेष्याम इत्येकवाक्यतया निश्चित्य सवारमेव तैर्नि - र्गन्तव्यम् । यतः प्रत्युषसि शीतलायां वेलायां नीयमानो ग्लानो न परिताप्यते । किञ्चप्रत्युषसि हता मार्गाः, परिहासहताः स्त्रियः । मन्दबीजं हतं क्षेत्रं, हतं सैन्यमनायकम् ॥ ततो नीत्वा ग्लानमन्यं ग्रामं सर्वप्रयत्नेन प्रतिचरणं कर्त्तव्यमिति ॥ १९७८ ॥ गतं चालनाद्वारम् । अथ सङ्क्रामणाद्वारमाह सो निजई गिलाण, अंतर सम्मेलणा य संछोभो । नेऊण अन्नगामं, सव्वपयत्तेण कायव्वं ।। १९७९ ॥ एवमुत्क्षिप्य यं ग्रामं 'सः' नागरग्लानो नीयते ततो ग्रामादन्यो ग्लानो नगरमानीयमानोऽस्ति तेषामुभयेषामपि साधूनाम् 'अन्तरा' अपान्तराले सम्मिलना भवति ततः परस्परं वन्दनं कृत्वा निराबाधं पृष्ट्वा ग्लानयोः 'संछोमं' सङ्क्रामणं कुर्वन्ति, नागरा ग्रामीणग्लानं गृह्णन्ति ग्रामीणास्तु नागरग्लानमित्युक्तं भवति । नीत्वा चान्यं ग्रामं सर्वप्रयत्नेन प्रतिचरणमुभयैरपि कर्त्तव्यम् 30 ॥ १९७९ ॥ किं पुनरभिधाय ते ग्लानसङ्क्रामणां कुर्वन्ति ? इति उच्यते--- जारिस दव्वे इच्छह, अम्हे मुत्तूण ते न लब्भहिह । 20 25 १ प्रगभिक्षार्थ ग्रामं नीयते भा० ॥ २एतदन्तर्गतः पाठः मो० ले० पुस्तकयोरेव ॥ ३ यां सुखेनैव मार्गो भूयानतिलङ्घयते । उक्तं च- प्रत्यु भा० ॥ ४ °यते ततस्तेषा भा० ॥
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy