________________
भाष्यगाथाः १९७०-७५] प्रथम उद्देशः ।
आदेसन्तरेण वा दुण्ह वि पंचकल्लाणं ति ।। ततो व्यूढे प्रायश्चित्ते 'द्वावपि' ग्लान-प्रतिचरकवर्गौ भोजनादिमण्डली प्रविशतः ॥१९७१॥ अथोपसंहरन्नाह
अणुयत्तणा उ एसा, दव्वे विजे य वनिया दुविहा ।
इत्तो चालणदारं, वुच्छं संकामणं चुभओ ॥ १९७२ ॥ ग्लानप्रायोग्यद्रव्यविषया वैद्यविषया चैषा द्विविधाऽनुवर्तना वर्णिता । इत ऊर्दू चालनाद्वारं सङ्क्रामणाद्वारं च 'उभयतः' ग्लानद्वयविषयं वक्ष्ये ॥ १९७२ ॥
विजस्स व दव्यस्स व, अहा इच्छंतें होइ उक्खेवो ।
पंथो य पुव्वदिट्ठो, आरक्खिओं पुव्वभणिओ उ॥ १९७३ ॥ वैद्यस्य वा 'द्रव्यस्य' औषधादिलक्षणस्य वा अर्थाय यदि ग्लान इच्छति ग्रामान्तरं गन्तुं तदा 10 तस्य 'उत्क्षेपः' चालना कर्त्तव्या । यदि रात्रौ गन्तव्यं भवति तदा पन्थाः पूर्वमेव दृष्टः कर्तव्यः । आरक्षिकश्च पूर्वमेव 'वयं रात्रौ ग्लानं गृहीत्वा गमिष्यामः, भवता चौरादिशझ्या न ग्रहीतव्याः' इति भणितः कर्तव्य इति ॥ १९७३ ॥ अथास्या एवं नियुक्तिगाथायाः पूर्वार्द्धं भावयति
चउपाया तेगिच्छा, इह विजा नत्थि न वि य दव्वाइं। 15
अमुगत्थ अस्थि दोन्नि वि, जड़ इच्छसि तत्थ वच्चामो ॥ १९७४ ॥ क्वापि क्षेत्रे वैद्या औषधानि वा नै सन्ति ततो ग्लानं प्रतिचरका ब्रुवीरन्-चिकित्सा चतुप्पादा पूर्वोक्तनीत्या भवति', तत्रेह क्षेत्रे वैद्या न सन्ति नापि च 'द्रव्याणि' औषधादीनि अत्र सन्ति, अमुकत्र ग्रामे नगरे वा द्वे अपि विद्येते, अतो यदि त्वमिच्छसि ततस्तत्र व्रजाम इति ॥ १९७४ ॥ ग्लानः प्रतिभणति
किं काहिइ मे विजो, भत्ताइ अकारयं इहं मज्झं ।
तुम्भे वि किलेसेमि य, अमुगत्थ महं हरह खिप्पं ॥ १९७५ ॥ आर्याः ! यदि नाम अत्र वैद्यो भवति ततः किं ममासौ करिष्यति ? 1 उपलक्षणमिदम् , तेन यद्यौषधान्यपि भवेयुस्तान्यपि मे किं करिप्यन्ति ? » यतो भक्तादिकमकारकं ममेह विद्यते, तस्मिंश्चाकारके युष्मानपि मुधैव परिक्लेशयामि । ( यत उक्तम्-
25 भेषजेन विना व्याधिः, पथ्यादेव निवर्तते ।
न तु पथ्यविहीनस्य, भेषजानां शतैरपि ॥ - ततो माममुकत्र ग्रामे नगरे वा क्षिप्रं 'हरत' नयत, येन मे तत्र भक्तादि कारकं स्यात् । एवंब्रुवाणोऽसौ ग्रामान्तरं प्रति चालयितव्यः ॥ १९७५ ॥ चालनायामेव कारणान्तरमाहसाणुप्पगभिक्खट्टा, खीणे दुद्धाइयाण वा अट्ठा।
30 १ एव पूर्वार्दू भा० कां० ॥ २ न भवेयुः ततो भा० ॥ ३°ति, परमिह क्षेत्रे मो० ले० विना ॥ ४° प्यति? । कुतः? इत्याह-भक्ता भा० ॥ ५॥ एतदन्तर्गतः पाठः मो• ले. पुस्तकयोरेव ॥ ६॥ एतदन्तर्गतः पाठः मो० ले० पुस्तकयोरेव ॥
20