________________
५७४
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकरूपप्रकृते सूत्रम् १ सुवर्ण तन्मयं वा नाणकं भवति, यथा-पूर्वदेशे दीनारः । केवडिको नाम' यथा तत्रैव पूर्वदेशे केतराभिधानो नाणकविशेषः । एतेषामप्युत्पादनं कुर्वता सङ्घाटकेन वृन्देन वा हिण्डनं तथैव कर्तव्यम् । अलब्धेऽनुशिष्ट्यादीनि प्रयोक्तव्यानि । लिङ्गमिति पदं व्याख्यायते-पूजितम्-अर्चितं यल्लिङ्गं तत्र त्रिविधो भेदः कर्त्तव्यः । किमुक्तं भवति ? तस्मिन् देशे यत् त्रयाणां खलिङ्ग-गृहिलिङ्ग-कुलिङ्गानां मध्यात् पूजितं तेन लिङ्गेन द्रविणजातमुत्पादयन्ति वैद्य वा प्रज्ञापयन्ति ॥ १९६९ ॥ द्वितीयपदे द्रविणजातमपि न दद्यात् , कथम् ? इत्याह
बिइयपदे कालगए, देसुट्ठाणे व बोहियादीसु ।
असिवादी असईइ व, ववहार हिरण्णगा समणा ॥ १९७० ॥ द्वितीयपदे वैये ग्लाने वा कालगते सति, देशस्य वा बोधिकादिभयेनोत्थाने उद्वसने, अशि10 वादौ वा सञ्जाते, 'असत्तायां वा' सर्वथैवालाभेऽर्थजातं वैद्यस्य न दद्यात् । व्यवहारे च समुपस्थिते ब्रुवते--अहिरण्यकाः श्रमणा भवन्तीति तावत् सर्वत्रापि सुप्रतीतम् , परं तथाप्येतेनारब्धैरस्माभिस्तदपि द्रविणजातं गवेषयितुमारब्धम् , ततो लोको ब्रवीति-न वर्त्तते शिष्टानां यतिभ्यो हिरण्यादि दातुम् । यत उक्तम्
___ गृहस्थस्यान्नदानेन, वानप्रस्थस्य गोरसात् । 15
यतीनां च हिरण्येन, दाता खर्ग न गच्छति ॥ इति । एवं व्यवहारो लभ्यते ॥ १९७० ॥ अथ कल्याणकपदं व्याख्यानयति
पउणम्मि य पच्छित्तं, दिजइ कल्लाणगं दुवेण्हं पि ।
बूढे पायच्छित्ते, पविसंती मंडलिं दो वि ।। १९७१ ॥ ग्लाने प्रगुणीभूते सति 'द्वयोरपि' ग्लान-प्रतिचरकवर्गयोः 'कल्याणकं' प्रायश्चित्तं दीयते । 20 इहैवमविशेषेणोक्तेऽपि ग्लानस्य पञ्चकल्याणकं प्रतिचरकाणां त्वेककल्याणकं दातव्यम् , आदेशान्तरेण वा द्वयोरपि पञ्चकल्याणकं मन्तव्यम् । स आह च निशीथचूर्णिकृत्
१ यथा पश्चिमदेशे दी मो० ले० ॥ २ °टिप्रभृतीनि प्र° भा० ॥ ३ °यन्ति द्वितीयपदे द्रविणजातमुत्पादयन्ति वैद्यं वा मो० ले० ॥ ४ द्वितीयपदे वैद्यो ग्लानो वा कालगतः, देशो वा उद्वसितः, वोधिकादीनां वा भयमुदपादि, अशिवादिकं वा समजनि, 'असता वा' सर्वथैव न लब्धं ततो न दद्याद् । व्यवहारे भा० ॥ ५ ते । तत्रैवम भा० ॥ ६ एतदन्तर्गतः पाठः त० डे. कां. नास्ति ॥ .
७ मो० ले० विनाऽन्यत्र-कृत्-जाहेगे गिलाणो पन्नत्तो ताहे से पंचकल्लाणगं दिजद, पडियरगाणं एक्ककल्लाणगं, आदेसंतरेण वा दुण्ह वि पंचकल्लाणं ति । ततो व्यूढे प्रायश्चित्ते 'द्वावपि' ग्लान-प्रतिचरकवर्गों मण्डलीभोजनादिषु प्रविशतो नान्यथा ॥ १९७१ ॥ गतमनुवतनेति मूलद्वारम् । अथ चालनाद्वारमाह-विजस्स व० गाथा भा०॥ ___ "पउणस्स य० गाथा कंठा । जेहिं वेतावचं कतं तेसिं पाएसु पडितुं 'इच्छामो वेतावच्चं' भणति । अणुय. तण त्ति दारं गतं । इदाणी चालण ति दारं-वेजस्स व० गाधा॥” इति चौँ । ____ "पउणम्मि य पच्छित्तं० गाहा कण्ठ्या । गिलाणस्स पडियरयस्स य पंचकोणगं दिज्जइ । बूढे पंचकल्ला. णए मंडलिं पविसंति । जेहिं वेयावचं कयं तसिं पादे मु पडि 'इच्छामो वेयावच्चं' भणइ ॥ अणुयत्तण ति दारं गयं । इदाणी चालण त्ति दारं, तत्थ गाहा-वेजस्व ० गाहा ॥” इति विशेषचौँ । ___ भा० पुस्तके टीका चूर्णी-विशेषचूर्ण्यनुसारिणीति चूर्णि-विशेषचूर्णीवत् तस्मिन् “अणुयत्तणा उ एसा.” इति १९७२ गाथा नास्ति ॥