Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 376
________________ भाष्यगाथाः २०२६-३०] प्रथम उद्देशः । गतमुपरि दोषा इति द्वारम् । अथ द्वितीयपदं भावयति बहुदोसे वऽतिरित्तं, जइ लब्भे वेज-ओसहाणि बहिं । । । चउभाग तिभागद्धे, जयंतऽणिच्छे अलंभे वा ॥ २०२८ ॥ ग्लाननिमित्तमतिरिक्तमपि कालं वसेत् । अथोद्गमादिभिर्दोषैर्बहुदोषं तत् क्षेत्रं तत उत्पाट्य ग्लानं बहिर्गन्तव्यं यदि वैद्योषधानि तत्र लभ्यन्ते । अथ ग्लानो बहिर्गन्तुं नेच्छति वैद्यौषधानि । वा बहिर्न लभ्यन्ते ततोऽनिच्छति अलाभे वा तत्रैव ग्रामे चतुर्भागीकृते त्रिभागीकृतेऽर्कीकृते वा यथायोगं वसतौ भिक्षायां च यतन्ते । इह च यद्यप्युत्सर्गतस्तं ग्राममष्टौ भागान् कृत्वा यतन्ते, तथा चेन्न संस्तरति ततः सप्त भागान् , एवं यावदेकभागमपि कृत्वा यतन्ते इति पुरस्ताद (गा० २०३१) वक्ष्यते, तथापि चतुर्भाग-त्रिभागा-ऽर्द्धग्रहणं "तुलादण्डमध्यग्रहण". न्यायेनाष्टभागादीनामपि ग्रहणार्थम् ॥ २०२८ ॥ प्रकारान्तरेण द्वितीयपदमाह- 10 ओमा-ऽसिव-दुढेसुं, चउभागादि न करिति अच्छंता। पोरुसिमाईवुड्डी, करिति तवसो असंथरणे ॥ २०२९॥ अवमा-ऽशिव-राजद्विष्टेषु बहिः सञ्जातेषु तत्रैव क्षेत्रेऽतिरिक्तमपि कालं तिष्ठन्ति यावद् बहिः सुभिक्षादीनि जायन्ते । तच्च क्षेत्रं यदि लघुतरं ततस्तत्र तिष्ठन्तोऽसंस्खरणे सति चतुर्भागादिरचनां न कुर्वन्ति, किन्तु तत्र पौरुष्यादितपसो वक्ष्यमाणनीत्या वृद्धिं कुर्वन्ति । 1 अथ बृह-15 त्तरं तत् क्षेत्र पूर्यते चतुर्भागादिरचनयाऽपि क्रियमाणं परं तत्राप्यवमादीनि समुत्पन्नानि, तत्रावमं तादृशमुत्पन्नं यादृशे चतुर्भागादिपरिपाट्या पर्यटन्तो न संस्तरन्ति, अशिवे भागाद् भागान्तरेषु सङ्कामतामशिवं सञ्चरति, राजद्विष्टेऽपरापरभागेषु सञ्चरन्तः प्रकटीभवन्ति, अतस्त्रिष्वप्यवमा-ऽशिव-राजद्विष्टेषु चतुर्भागादिरचनामकुर्वन्तः पौरुष्यादितपसो वृद्धिं कुर्वन्ति । तद्यथाये पौरुषीप्रत्याख्यानिनस्ते पूर्वार्द्ध प्रत्याचक्षते, ये पूर्वार्द्ध प्रत्याख्यातारस्ते एकाशनं प्रत्याख्या-20 न्तीत्यादि ॥ २०२९ ॥ अथ यतनामेव स्पष्टयति मासे मासे वसही, तण-डगलादी य अन्न गिण्डंति। भिक्खायरिय-वियारा, जहिं ठिया तत्थ नऽन्नासु ॥ २०३० ॥ मासे मासे वसतिरन्या तृण-डगलादीनि च पूर्वपरिभुक्तानि परित्यज्य अन्यानि गृह्णन्ति । यसिंश्च भागे मासकल्पं स्थितास्तत्रैव भागे तस्मिन् मासे भिक्षाचर्या विचारभूमिं च गच्छन्ति 25 'नान्यासु' भिक्षा-विचारभूमिषु ॥ २०३० ॥ अथ भागकरणस्यैव विधिमाह १ 'अवमं' दुर्भिक्षम् अशिवं वा राजद्विष्टं वा बहिः सञ्जातं ततस्तत्रैवातिरिक्तमपि कालं तिष्ठन्ति यावद् बहिः सुभिक्षादीनि जायन्ते । तच्च क्षेत्रं यदि लघुतरं ततस्तत्र तिष्ठन्तश्च. तुर्भागादिकल्पनां न कुर्वन्ति । यदि वा तत्रैव क्षेत्रे अवममशिवं राजद्विष्टं वा समुत्पन्नम्, तत्र च ग्लानादिप्रतिबन्धेन स्थितास्ततोऽअवमोदरिके चतुर्भागादिपरिपाट्या पर्यटन्तो न संस्तरन्ति, अशिवे भागाद् भागान्तरं सामतामशिवं सञ्चरति, राजद्विष्टे अपरापरेषु भागेषु सञ्चरन्तः प्रकटीभवन्ति ततलिष्वपि चतुर्भागादिरचनां न कुर्वन्ति । यत्र चाशिवं भवति तत्र यदि चतुर्थ-षष्ठादिकं तपः कर्तुं संस्तरणं-सामर्थ्य नास्ति ततः पौरुष्यादिप्रस्याख्यानस्य वृद्धिं कुर्वन्ति । तद्यथा-भा० ॥ २ एतदन्तर्गतः पाठः त• • कां• नास्ति ॥ ३ मिक्षां वि भा०॥

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400