Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
10
५८०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् ?
जाहे न संथरिजा, गणस्स उ निवेदणं कुजा ॥ १९९९ ॥ त्रीन् संवत्सरान् कुलमपि प्रायोग्यभक्त-पानौषधादिभिः प्रयत्नेन परिवर्त्तयति । ततस्त्रिषु वर्षेषु पूर्णेषु यदा न संस्तरेत् तदा गणस्य निवेदनं कुर्यात् ॥ १९९९ ॥ ततः
संवच्छरं गणो वी, गिलाण परियट्टई पयत्तेणं ।
जाहे न संथरिज़ा, संघस्स निवेयणं कुजा ॥ २००० ॥ एकं संवत्सरं यावद् गणोऽपि ग्लानं महता प्रयत्नेन परिवर्तयति । ततो यदा न संस्तरेत् ततः सङ्घस्य निवेदनं कुर्यात् । ततः सङ्घो यावज्जीवं तं सर्वप्रयत्नेन परिवर्तयति ॥ २००० ।। गाथात्रयोक्तमर्थमेकगाथया संगृह्य प्रतिपादयति
छम्मासे आयरिओ, कुलं तु संवच्छराइँ तिन्नि भवे ।
संवच्छरं गणो वी, जावजीवाय संघो उ ॥ २००१॥ व्याख्यातार्था ॥ २००१॥
एतच्च यो भक्तविवेकं कर्तुं न शक्नोति तमुद्दिश्य द्रष्टव्यम् । यस्तु भक्तविवेकं कर्तुं शक्नोति तेनाष्टादश मासान् यावत् प्रथमतश्चिकित्सा कारयितव्या, विरतिसहितस्य जीवितस्य पुनः संसारे
दुरापत्वात् । ततः परं यदि न प्रगुणीभवति ततो भक्तविवेकः कर्त्तव्य इति । आगाढे कारण15 जाते सञ्जाते सति ग्लानस्य वैयावृत्त्यं न कुर्यादपि परित्यजेद् वा ग्लानम् । किं पुनस्तत् कारणजातम् ? इति उच्यते
असिवे ओमोयरिए, रायडुढे भये व गेलन्ने । [द.नि.७३]
एएहि कारणेहिं, अहवा वि कुले गणे संघे ॥ २००२॥ अशिवे समुत्पन्ने सति ग्लानं परित्यजेद् न च प्रायश्चित्तमाप्नुयात् । एवम् । अवमौदर्ये 20 राजद्विष्टे 'भये वा' शरीरस्तेनसमुत्थे "गेलने" त्ति सर्वो वा गच्छो ग्लानीभूत इत्यतः कस्य
कः प्रतिचरणं करोतु ? एतैः कारणैः, अथवा कुलस्य गणस्य सङ्घस्य वा समर्पिते ग्लाने खयमकुर्वन्नपि शुद्धः । परित्यजने त्वियं यतना-अशिवे समुत्पन्ने देशान्तरं सङ्क्रामन् ग्लानमन्येषां प्रतिबन्धस्थितानां साधूनामर्पयति, तेषामभावे शय्यातरादीनां समीपे साधर्मिकस्थलीषु वा देव
कुलिकेषु वा निक्षिपन्ति । एवमवमौदर्ये भये च द्रष्टव्यम् । राजद्विष्टे योकस्य गच्छस्य 25 प्रद्वेषमापन्नो राजा ततोऽन्येषां साधूनां समर्पयन्ति, अथ सर्वेषामपि प्रद्विष्टस्ततः श्रावकादिषु निक्षिप्य व्रजन्ति । उत्सर्गतः पुनरेतैरपि कारणैर्न निक्षिपन्ति किन्तु स्कन्धे न्यस्य वहन्तीति ॥२००२ ॥ आह च
एएहिं कारणेहि, तह वि वहंती न चेव छड्डिंति ।
असहू वा उवगरणं, छडिंति न चेव उ गिलाणं ॥ २००३ ॥ 30 एतैः कारणैर्यद्यपि ग्लानो निक्षेप्तुं कल्पते तथापि वहन्ति नैव परित्यज्यन्ति । अथ 'असहिष्णवः' वोढुमसमर्थाः तत उपकरणं परित्यजन्ति नैव ग्लानम् ॥ २००३ ॥
अहवा वि सो भणेजा, छड्डेउ ममं तु गच्छहा तुन्भे। १ एतदन्तर्गतः पाठः मो० ले० पुस्तकयोरेव ॥ २ °नरेतेष्वपि कारणेषु न नि° भा० ॥
Loading... Page Navigation 1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400