Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
शीत-वाता-ऽऽतपैः परिश्रमेण वाऽनागाढपरितापनादीनि जायन्ते ततः प्रायश्चित्तमनन्तरगाथोक्त
नीत्या द्रष्टव्यम् || १९८५ ॥
5
उवेहोभासण ठेवणे, परितावण महय मुच्छ किच्छ कालगए । चचारि छच्च लहु-गुरु, छेदो मूलं तह दुगं च ॥ १९८६ ।। उपेक्षायां ग्लानो भक्त-पानमौषधं वा अवभाषणेनोत्पाद्य स्थापयति न शक्नोम्यहं दिने दिने पर्यटितुं ततश्चत्वारो गुरवः । तेन परिवासितेन शीतलत्वाद् अनागाढपरितापनादीन्युपजायन्ते प्रायश्चित्तयोजना प्राग्वत् ॥ १९८६ ॥
10
15
20
५७८
उवेोभासण करणे, परितावण महय मुच्छ किच्छ कालगए । चत्तारि छ च्च लहु-गुरु, छेदो मूलं तह दुगं च ॥। १९८७ ॥ उपेक्षायां कृतायां यदि ग्लानोऽवभाप्य स्वयमेवौषधादिकं करोति गृहस्थैर्वा कारयति तदा चत्वारो गुरवः । स्वयंकुर्वतश्चिकित्साद्यनभिज्ञैर्गृहस्थैर्वा चिकित्सां कारयतोऽनागाढपरितापादीनि भवन्ति । शेषं प्राग्वत् ॥ १९८७ ॥
1
antra ओहाणे, सलिंगपडिसेवणं निवारिते ।
गुरुगा अनिवारिते, चरिमं मूलं च जं जत्थ ।। १९८८ ॥
अप्रतिजागरितो ग्लानो यदि निर्वेदेन वैहायसं मरणमभ्युपगच्छति ततस्तेषामप्रतिजागरatri 'चरमं' पाराञ्चिकम् । अथ ' अवधावनम्' उत्पत्रजनं करोति ततो मूलम् । खलिङ्गस्थितो यद्यकल्प्यप्रतिसेवनां करोति ततश्चतुर्गुरुकाः । यदि तं तथा प्रतिसेवमानं निवारयति तदापि चतुर्गुरुकाः । अथ न निवारयति ततो यद् यत्र अप्राशुकेऽनेषणीये वा गृह्यमाणे प्रायश्चित्तं तत् तत्र प्राप्नोति ॥ १९८८ ॥ अथ निर्द्धर्मा येषु स्थानेषु ग्लानं त्यजेत् तान्याह - संविग्गा गीयत्था संविग्गा खलु तहेव गीयत्था । संविग्गमसंविग्गा, नवरं पुण ते अगीयत्था ।। १९८९ ।। संविग्ग संजईओ, गीयत्था खलु तहेवऽगीयत्था ।
गीयत्थ अगीयत्था, नवरं पुण ता असंविग्गा || १९९० ॥
संयताश्चतुर्द्धा, तद्यथा— संविग्ना गीतार्थाः १ असंविग्ना गीतार्थाः २ संविद्मा अगीतार्थाः ३ 25 असंविग्ना अगीतार्थाश्व ४ इति । संयत्योऽपि चतुर्विधाः, तद्यथा - संविग्ना गीतार्थाः १ संविग्ना अगीतार्थाः २ असंविमा गीतार्थाः ३ असंविद्मा अगीतार्थाः ४ || १९८९ || १९९० ॥ एतेष्वष्टसु स्थानेषु ग्लानं परित्यजतः प्रायश्चित्तमाह
चउरो लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवटुप्पो य पारंची ॥। १९९१ ॥
30
प्रथमे स्थाने ग्लानं परित्यजति चत्वारो लघुकाः । द्वितीये चत्वारो गुरुकाः । तृतीये षण्मासा लघवः । चतुर्थे षण्मासा गुरवः । पञ्चमे च्छेदः । षष्ठे मूलम् । सप्तमेऽनवस्थाप्यः । अष्टमे पाराविको भवति ॥। १९९१ ॥ यदि वा
१ एतदम्तर्गतः पाठः भा० नास्ति ॥
Loading... Page Navigation 1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400