SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २०४५-५२] प्रथम उद्देशः । गाथाद्वयसमुदायार्थः ॥ २०४८ ॥ २०४९ ॥ अथावयवार्थ प्रतिद्वारमाह पियधम्मे दढधम्मे, संविग्गेऽवज ओय-तेयस्सी। संगहुवग्गेहकुसले, सुत्तत्थविऊ गणाहिवई ॥ २०५०॥ प्रियः-इष्टो धर्मः-श्रुत-चारित्ररूपो यस्य स प्रियधर्मा । यस्तु तस्मिन्नेव धर्मे दृढो द्रव्य-5 क्षेत्राद्यापदुदयेऽपि निश्चलः स दृढधर्मा, राजदन्तादित्वाद् दृढशब्दस्य पूर्वनिपातः । संविमो द्विधा-द्रव्यतो भावतश्च । तत्र द्रव्यतो मृगः, सदैव त्रस्तमानसत्वात् । भावतो यः संसारभयोद्विग्नः सन् नित्यं पूर्वरात्रा-ऽपररात्रकाले सम्प्रेक्षते-किं मया कृतम् ? किंवा मे कर्तव्यशेपम् ? किं वा शक्यमपि तपःकर्मादिकमहं न करोमि ? इत्यादि । ___ ता............... उद्विग्नवासा न शयं लभन्ते । एवं वुधा ज्ञानविशेषबुद्धाः, संसारभीता न. रतिं लभन्ते ॥ "वज्ज" ति अकारप्रश्लेषाद् अवयं-पापं "सूचनात् सूत्रम्" इति कृत्वा तद्भीरु:-अवद्यभीरुः। ओजः तेजश्च उभयमपि वक्ष्यमाणलक्षणं तद् विद्यते यस्य स ओजखी तेजखी चेति । सङ्ग्रहःद्रव्यतो वस्त्रादिभिर्भावतः सूत्रार्थाभ्याम् , उपग्रहः-द्रव्यत औषधादिभिर्भावतो ज्ञानादिभिः, एतयोः संयतीविषययोः सङ्ग्रहोपग्रहयोः कुशल:-दक्षः । तथा 'सूत्रार्थविद्' गीतार्थः । एवं-15 विधः ‘गणाधिपतिः' आर्यिकाणां गणधरः स्थापनीयः ॥२०५० ॥ अथौजस्तेजसी व्याचष्टे आरोह-परीणाहा, चियमंसो इंदिया य पडिपुण्णा । अह ओओ तेओ पुण, होइ अणोतप्पया देहे ॥ २०५१ ॥ आरोहो नाम-शरीरेण नातिदैर्घ्य नातिहखता, परिणाहो नाम-नातिस्थौल्यं नातिदुर्बलता; अथवा आरोहः-शरीरोच्छायः, परिणाहः-बाह्वोर्विष्कम्भः, एतौ द्वावपि तुल्यौ न हीनाधिक- 20 प्रमाणौ । “चियमंसो" त्ति भावप्रधानत्वाद् निर्देशस्य 'चितमांसत्वं नाम' वपुषि पांसुलिका नावलोक्यन्ते । तथा इन्द्रियाणि च प्रतिपूर्णानि, न चक्षुः-श्रोत्राद्यवयवविकलतेति भावः । 'अथ' एतद् आरोहादिकमोज उच्यते, तद् यस्यास्ति स ओजखी । तेजः पुनः 'देहे' शरीरे 'अनपत्रप्यता' अलजनीयता दीप्तियुक्तत्वेनापरिभूतत्वम् , तद् विद्यते यस्य स तेजखी ॥ २०५१ ॥ गतं गणधरप्ररूपणाद्वारम् । अथ क्षेत्रमार्गणाद्वारमाह खित्तस्स उ पडिलेहा, कायव्वा होइ आणुपुव्वीए। किं वच्चई गणहरो, जो चरई सो तर्ण वहइ ॥ २०५२ ॥ 'क्षेत्रस्य' संयतीप्रायोग्यस्य 'आनुपूर्व्या' "थुइमंगलमामंतण" (गा० १४६१) इत्यादिना पूर्वोक्तक्रमेण प्रत्युपेक्षणा गणधरेण कर्तव्या । आह 'किं' केन हेतुना गणधरः खयमेव क्षेत्रप्रत्यु १ अत्र भा० प्रतौ १५३०० ग्रन्थाग्रं विद्यते, प्रथमखण्डश्चास्या अत्र समाप्यते ॥ २ गहसुत्तत्थतदुभयविदू ता० ॥ ३ - एतदन्तर्गतः पाठः मो० ले० पुस्खकयोरेव ॥ ४त्ति वय॑म् अकारप्रश्लेषाद् अवधं वा-पापं भा० ॥ ५ "अधवा 'आरोहो' उच्चत्तं 'परिणाहो' बाहणं बिक्खंभो, समचउरंससंठाणमित्यर्थः।" 25
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy