Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 346
________________ भाष्यगाथाः १९०५-११] प्रथम उद्देशः । 'कथं ?' केन हेतुना ग्लान उत्पन्नः ? इति । सूरिराह---भूयांसः खलु रोगातका यशाद् ग्लानत्वमुपजायते । तत्र १ "शुष्यंतस्त्रीणि शुष्यन्ति, चक्षूरोगो ज्वरो व्रणः ।" इति वच, नाद - यदि ज्वरादिको विशोषणसाध्यो रोगः ततो जघन्येनाप्यष्टमं कारयितव्यः । यच यस्य रोगस्य पथ्यं तत् तस्य कार्यम् , यथा-वातरोगिणो घृतादिपानं पित्तरोगिणः शर्कराधुपयोजनं श्लेष्मरोगिणो नागरादिग्रहणमिति । "उण्होदगाइया वुड्डि" त्ति उपवासं कर्तुमसहिष्णुर्यदि रोगेणामुक्तः पारयति तत एष क्रमः-उष्णोदके प्रक्षिप्य कूरसिक्थानि अमलितानि ईषन्मलितानि वा सप्त दिनानि एक वा दिनं दीयन्ते । ततः "किंचि" ति उष्णोदके मधुरोल्लणं स्वोकं प्रक्षिप्य तेन सह ओदनं द्वितीये सप्तके दिने वा दीयते । एवं तृतीये "बहु" ति बहुतरं मधुरोलणं उष्णोदके प्रक्षिप्य दीयते । “भागि" त्ति चतुर्थे सप्तके दिने वा त्रिभागो मधुरोल्लणस्य द्वौ भागावुष्णोदकस्य, “अद्धे" त्ति पञ्चमे सप्तके दिने वा अर्द्ध मधुरोल्लणस्यार्द्धमुष्णोदकस्य, षष्ठे 10 "ओमि" ति त्रिभाग उष्णोदकस्य द्वौ भागौ मधुरोल्लणस्य, सप्तमे सप्तके दिने वा "जुत्तं" ति 'युक्तं' किञ्चिन्मात्रमुप्णोदकं शेषं तु सर्वमपि मधुरोल्लणमित्येवं दीयते । तदनन्तरं द्वितीयाङ्गरपि सहापथ्यान्यवगाहिमादीनि परिहरन् समुद्दिशति यावत् पुरातनमाहारं परिणमयितुं समर्थः सम्पन्न इति । स एषा उष्णोदकादिका वृद्धिद्रष्टव्या । इह च सर्वत्राप्येकं दिनं विशेषचूर्णि- बृहद्भाष्याभिप्रायेण दिनसप्तकं तु चूर्ण्यभिप्रायेणेति मन्तव्यम् ~ ॥ १९०८ ॥ 15 अथ "अट्ठम" ति पदं व्याख्यानयन्नाह जाव न मुक्को ता अणसणं तु मुक्के वि ऊ अभत्तट्ठो। असहुस्स अट्ठ छटुं, नाऊण रुयं व जं जोग ॥ १९०९॥ __यावदसौ ज्वर-चक्षुरोगादिना रोगेण न मुक्तस्तावद् ‘अनशनम्' अभक्तार्थलक्षणं कर्त्तव्यम् । मुक्तेनापि चैकं दिवसमभक्तार्थो विधेयः । अथासावसहिष्णुस्ततोऽष्टमं वा षष्ठं वा करोति । 20 ज्ञात्वा वा 'रुजं' रोगविशेषं यद् यत्र योग्यं शोषणमशोषणं वा तत् तत्र कार्यम् ॥ १९०९ ॥ ___यद्येवंकुर्वाणानामसौ रोग उपशाम्यति ततः सुन्दरम् , अथ नोपशाम्यति ततः को विधिः ? इत्याह-. एवं पि कीरमाणे. विजं पुच्छे अठायमाणम्मि। विजाण अट्टगं दो, अणिड्डि इड्डी अणिड्डियरे ॥ १९१०॥ एवमपि क्रियमाणे यदि रोगो न तिष्ठति-नोपशाम्यति ततस्तस्मिन्नतिष्ठति वैद्यं पृच्छति ।" अथ कियन्तो वैद्या भवन्ति ? इत्याहं—वैद्यानां खल्वष्टकं मन्तव्यम् । तत्र द्वौ वैद्यौ नियमाद 'अनृद्धिकौ' ऋद्धिरहितो, 'इतरे' षड् वैद्या ऋद्धिमन्तो अनृद्धिमन्तो वा ॥ १९१० ॥ तदेव वैद्याष्टकं दर्शयति संविग्गमसंविग्गे, दिद्वत्थे लिंगि सावए सण्णी। अस्सण्णि इड्ढि गइरागई य कुसलेण तेगिच्छं ॥ १९११ ॥ 'संविमः' उद्यतविहारी १ 'असंविमः' तद्विपरीतः २ 'लिङ्गी' लिङ्गावशेषमात्रः ३ 'श्रावकः' १ एतदन्तर्गतः पाठः भा० नास्ति ॥ २॥ एतदन्तर्गतः पाठः भा० कां नास्ति ॥

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400