Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 344
________________ भाष्यगाथाः १८९८-१९०४] प्रथम उद्देशः । ५५५ ग्लानस्यार्थाय 'यतनया' पञ्चकपरिहाण्या गृह्णन्ति । अथ ग्लानार्थ व्यापृतानां प्रतिचरकाणामसंस्तरणं ततः “एसणमाइ" त्ति एषणादोषेषु आदिशब्दाद् उद्गमादिदोषेषु च पञ्चकपरिहाण्या यतितव्यम् । अथ प्रतिदिवसं ग्लानप्रायोग्यं न लभ्यते ततः 'छन्नम्' अप्रकटं कृतयोगी गीतार्थों वा तत्प्रायोग्यं द्रव्यं परिवासयति । इह आकर्णितच्छेदश्रुतार्थः प्रत्युच्चारणाऽसमर्थः कृतयोगी। यस्तु च्छेदश्रुतार्थं श्रुत्वा प्रत्युच्चारयितुमीशः स गीतार्थ उच्यते । एष द्वारगाथासमासार्थः । ॥ १९०२ ॥ अथैनामेव विवरीषुराह. पडिलेह पोरुसीओ, वि अकाउं मग्गणा उ सग्गामे । खित्तो तदिवसं, असइ विणासे व तत्थ वसे ॥ १९०३ ॥ अपिशब्दः सम्भावनायाम् । यदि सुलभं द्रव्यं ततः प्रत्युपेक्षणां सूत्रार्थपौरुष्यौ च कृत्वा खग्रामेऽनवभाषितस्य मार्गणा कर्तव्या । अथैवं न लभ्यते ततोऽर्थपौरुषी हापयित्वा, यद्येवमपि 10 न लभ्यते ततः सूत्रपौरुषी परिहाप्योत्पादनीयम् । अथ तथापि न लभ्यते दुर्लभं वा तद द्रव्यं ततः प्रत्युपेक्षणां द्वे अपि च पौरुष्यौ अकृत्वा खग्रामेऽनवभाषितं मार्गयन्ति । अथ स्वग्रामेऽनवभाषितं न लभ्यते ततः 'क्षेत्रान्तः' सक्रोशयोजनक्षेत्राभ्यन्तरे परग्रामे पौरुषीद्वयमपि कृत्वा अनवभाषितमुत्पादयन्ति, अत्राप्यर्थपौरुष्यादिहापना तथैव द्रष्टव्या । अथ तत्राप्यनवभाषितं न लभ्यते ततः खक्षेत्रे खग्राम-परग्रामयोरवभाषितमुत्पाद्य तद्दिवसमानयन्ति । अथ खक्षेत्रे 15 तद्दिवसं न प्राप्यते ततः परक्षेत्रादपि तद्दिवसमानेतव्यम् । अथ क्षेत्रबहिर्वर्तिनो यतो प्रामादेरानीयते तद् न प्रत्यासन्नं किन्तु दूरतरं न तदिवसं गत्वा ततः प्रत्यायातुं शक्यते, विनाशि वा तद् द्रव्यं दुग्धादिकम् ; ततः प्रत्यासन्नग्रामस्यासति विनाशिनि वा द्रव्ये ग्रहीतव्ये अपराहे गत्वा तत्र रात्रौ वसेत् , उषित्वा च सूर्योदयवेलायां गृहीत्वा द्वितीये दिने तत्रानयन्ति । अथ दवीयस्तरं तत् क्षेत्रमविनाशि द्रव्यं च ग्रहीतव्यम् ततोऽपान्तरालग्रामे रजन्यामुषिताः सूर्योदये 20 तत्र गत्वा तद् द्रव्यं गृहीत्वा भूयः समागच्छन्ति ॥ १९०३ ॥ एतदेवाह खित्तपहिया व आणे, विसोहिकोडिं वतिच्छितो काढे । __पइदिवसमलभंते, कम्मं समइच्छिओ ठवए ॥ १९०४ ॥ क्षेत्रबहिर्वा गत्वा प्रथममनवभाषितं ततोऽवभाषितं पूर्वं तदिवसे ततो द्वितीयेऽपि दिवसेऽनन्तरोक्तया नीत्या यथायोगमानयेत् । एष विधिरेषणीयविषयो भणितः । अथैषणीयेन नासौ ग्लानः 25 संस्तरति ततः सक्रोशयोजनक्षेत्रस्यान्तः खग्राम-परग्रामयोः पञ्चकपरिहाण्या तदप्राप्तौ क्षेत्रबहिरपि पञ्चकपरिहाण्या तद्दिवसं ग्लानप्रायोग्यमुत्पादयन्ति । एवं यदा प्रायश्चित्तानुलोम्येन क्रीतकृताऽभ्याहृतादिकां विशोधिकोटी व्यतिक्रान्तो भवति तदा “काढि" ति ग्लानयोग्यमौषधादिकमन्येन स्वयं वा यतनया काथयेत् । एवं प्रतिदिवसमलभ्यमाने यदा आधाकर्मापि समतिक्रान्तो भवति, सदपि प्रतिदिवसं न प्राप्यत इत्यर्थः, ततो विशुद्धमविशुद्धं वा म्लानप्रायोग्यं द्रव्यमुत्पाद्य 30 १ ततःक्षेत्रान्तः क्षेत्रबहिर्वा पञ्चकपरिहाण्या यदा क्रीतकृता-ऽभ्याहृतादिकां भा० का०॥ २°कोटीमति मो० ले० विना ॥ ३°क्रान्तः, तद मो० ले० विना ॥

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400