________________
भाष्यगाथाः १८९८-१९०४] प्रथम उद्देशः ।
५५५ ग्लानस्यार्थाय 'यतनया' पञ्चकपरिहाण्या गृह्णन्ति । अथ ग्लानार्थ व्यापृतानां प्रतिचरकाणामसंस्तरणं ततः “एसणमाइ" त्ति एषणादोषेषु आदिशब्दाद् उद्गमादिदोषेषु च पञ्चकपरिहाण्या यतितव्यम् । अथ प्रतिदिवसं ग्लानप्रायोग्यं न लभ्यते ततः 'छन्नम्' अप्रकटं कृतयोगी गीतार्थों वा तत्प्रायोग्यं द्रव्यं परिवासयति । इह आकर्णितच्छेदश्रुतार्थः प्रत्युच्चारणाऽसमर्थः कृतयोगी। यस्तु च्छेदश्रुतार्थं श्रुत्वा प्रत्युच्चारयितुमीशः स गीतार्थ उच्यते । एष द्वारगाथासमासार्थः । ॥ १९०२ ॥ अथैनामेव विवरीषुराह. पडिलेह पोरुसीओ, वि अकाउं मग्गणा उ सग्गामे ।
खित्तो तदिवसं, असइ विणासे व तत्थ वसे ॥ १९०३ ॥ अपिशब्दः सम्भावनायाम् । यदि सुलभं द्रव्यं ततः प्रत्युपेक्षणां सूत्रार्थपौरुष्यौ च कृत्वा खग्रामेऽनवभाषितस्य मार्गणा कर्तव्या । अथैवं न लभ्यते ततोऽर्थपौरुषी हापयित्वा, यद्येवमपि 10 न लभ्यते ततः सूत्रपौरुषी परिहाप्योत्पादनीयम् । अथ तथापि न लभ्यते दुर्लभं वा तद द्रव्यं ततः प्रत्युपेक्षणां द्वे अपि च पौरुष्यौ अकृत्वा खग्रामेऽनवभाषितं मार्गयन्ति । अथ स्वग्रामेऽनवभाषितं न लभ्यते ततः 'क्षेत्रान्तः' सक्रोशयोजनक्षेत्राभ्यन्तरे परग्रामे पौरुषीद्वयमपि कृत्वा अनवभाषितमुत्पादयन्ति, अत्राप्यर्थपौरुष्यादिहापना तथैव द्रष्टव्या । अथ तत्राप्यनवभाषितं न लभ्यते ततः खक्षेत्रे खग्राम-परग्रामयोरवभाषितमुत्पाद्य तद्दिवसमानयन्ति । अथ खक्षेत्रे 15 तद्दिवसं न प्राप्यते ततः परक्षेत्रादपि तद्दिवसमानेतव्यम् । अथ क्षेत्रबहिर्वर्तिनो यतो प्रामादेरानीयते तद् न प्रत्यासन्नं किन्तु दूरतरं न तदिवसं गत्वा ततः प्रत्यायातुं शक्यते, विनाशि वा तद् द्रव्यं दुग्धादिकम् ; ततः प्रत्यासन्नग्रामस्यासति विनाशिनि वा द्रव्ये ग्रहीतव्ये अपराहे गत्वा तत्र रात्रौ वसेत् , उषित्वा च सूर्योदयवेलायां गृहीत्वा द्वितीये दिने तत्रानयन्ति । अथ दवीयस्तरं तत् क्षेत्रमविनाशि द्रव्यं च ग्रहीतव्यम् ततोऽपान्तरालग्रामे रजन्यामुषिताः सूर्योदये 20 तत्र गत्वा तद् द्रव्यं गृहीत्वा भूयः समागच्छन्ति ॥ १९०३ ॥ एतदेवाह
खित्तपहिया व आणे, विसोहिकोडिं वतिच्छितो काढे । __पइदिवसमलभंते, कम्मं समइच्छिओ ठवए ॥ १९०४ ॥ क्षेत्रबहिर्वा गत्वा प्रथममनवभाषितं ततोऽवभाषितं पूर्वं तदिवसे ततो द्वितीयेऽपि दिवसेऽनन्तरोक्तया नीत्या यथायोगमानयेत् । एष विधिरेषणीयविषयो भणितः । अथैषणीयेन नासौ ग्लानः 25 संस्तरति ततः सक्रोशयोजनक्षेत्रस्यान्तः खग्राम-परग्रामयोः पञ्चकपरिहाण्या तदप्राप्तौ क्षेत्रबहिरपि पञ्चकपरिहाण्या तद्दिवसं ग्लानप्रायोग्यमुत्पादयन्ति । एवं यदा प्रायश्चित्तानुलोम्येन क्रीतकृताऽभ्याहृतादिकां विशोधिकोटी व्यतिक्रान्तो भवति तदा “काढि" ति ग्लानयोग्यमौषधादिकमन्येन स्वयं वा यतनया काथयेत् । एवं प्रतिदिवसमलभ्यमाने यदा आधाकर्मापि समतिक्रान्तो भवति, सदपि प्रतिदिवसं न प्राप्यत इत्यर्थः, ततो विशुद्धमविशुद्धं वा म्लानप्रायोग्यं द्रव्यमुत्पाद्य 30
१ ततःक्षेत्रान्तः क्षेत्रबहिर्वा पञ्चकपरिहाण्या यदा क्रीतकृता-ऽभ्याहृतादिकां भा० का०॥ २°कोटीमति मो० ले० विना ॥ ३°क्रान्तः, तद मो० ले० विना ॥