Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 357
________________ ५६८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ बहिया उ अण्हायंते, करिति खुड्डा इमं अंतो ॥ १९५० ॥ आक्षेपणीप्रभृतिभिर्धर्मकथाभिस्तस्य तथा धर्म कथयन्ति यथाऽसौ संयतो भवति 'संज्ञी वा' गृहीताणुव्रतोऽविरतसम्यग्दृष्टि; 'दानश्राद्धो वा' मुधैव साधूनामारोग्यदानशीलो भवति । अथ धर्मकथालब्धिर्नास्ति ततो विद्या-मन्त्रादयः प्रयुज्यन्ते । तेषामभावे तस्य आमलकादीनि दीयन्ते, 5 भण्यते चासौ-वहिर्गत्वा तडागादिषु स्नानं कुरुत । अथ बहिः स्नातुं नेच्छति ततो बहिरनाति तस्मिन् क्षुल्लकाः 'इदं' वक्ष्यमाणम् 'अन्तः' प्रतिश्रयस्याभ्यन्तरे कुर्वन्ति ॥ १९५० ॥ किं तत् ? इत्याह उसिणे संसद्वे वा, भूमी-फलगाइ भिक्ख चड्डाई । अणुसट्ठी धम्मकहा, विज-निमित्ते य अंतों वहिं ॥ १९५१॥ 10 'उष्णोदकेन प्रतीतेन 'संसृष्टेन' गोरसरसभावितेन अपरेण वा प्राशुकेन पानकेन क्षुल्लकास्तं सपयन्ति । शयनमाश्रित्य भूमौ फलके आदिशब्दात् पल्यङ्कादिषु वा स शाय्यते । भोजनं प्रतीत्य 'भैक्षं भिक्षापर्यटनेन लब्धमानीय तस्य दातव्यम् । "चड्डाइ" त्ति 'चड्डु' कमढकमयं भाजनम् आदिग्रहणात् कांस्यपाच्यादिपरिग्रहः, एतेषु भोजनमसौ कारयितव्यः । हिरण्यादिकं द्रविणजातं याचमानस्य 'अन्तः' इति वास्तव्यवैद्यस्य 'बहिः' इत्यागन्तुकवैद्यस्योभयस्याप्यनुशिष्टि16 धर्मकथा-विद्या-निमित्तानि प्रयोक्तव्यानीति' नियुक्तिगाथासमासार्थः ॥ १९५१ ॥ अथैनामेव भावयन्नाह तेल्लुबट्टण व्हावण, खुड्डाऽसति वसभ अन्नलिंगेणं । पट्टदुगादी भूमी, अणिच्छि जा तूलि-पल्लंके ॥ १९५२ ॥ क्षुल्लकास्तं वैद्यं तैलेनाभ्यङ्गय कल्केनोद्वयोष्णोदकादिना प्राशुकेनैकान्ते स्नपयन्ति । अथ 20 क्षुल्लका न सन्ति सपयितुं वा न जानते ततो ये 'वृषभाः' गच्छस्य शुभा-ऽशुभकारणेषु भारोद्वहनसमर्थास्ते 'अन्यलिङ्गेन' गृहस्थादिसम्बन्धिना सानादिकं वैद्यस्य कुर्वन्ति । “पट्टदुगाई" इत्यादि, स वैद्यः शयितुकामः प्रथमतो भूमौ संस्तारपट्टमुत्तरपट्टकं च प्रस्तीर्य शाय्यते । अथ नासौ पट्टद्वये खप्तुमिच्छति तत और्णिक-सौत्रिको कल्पौ प्रस्तीर्येते । तथापि यदि नेच्छति ततः काष्ठफलके संस्तारोत्तरपट्टकावास्तीर्य शयनं कार्यते । तथाप्यनिच्छति उत्तरोत्तरं तावन्नेतव्यं यावत् 25 तूली-पल्यङ्कावप्यानीय शाययितव्य इति ॥ १९५२ ॥ अथ भैक्षपदं भावयति समुदाणिओदणो मत्तओ वणिच्छंति वीसु तवणा वा । एवं पणिच्छमाणे, होइ अलंभे इमा जयणा ॥ १९५३ ॥ समुदानं नाम-उच्चावचकुलेषु भिक्षाग्रहणम् तत्र लब्धः सामुदानिकः, "अध्यात्मादिभ्य इकण्" (सिद्ध० ६-३-७८) इति इकणप्रत्ययः, स चासाबोदनश्च सामुदानिकौदनः, स 30प्रथमतो वैद्यस्य दातव्यः । अथासौ तं भोक्तुं नेच्छति ततो मात्रकं वीपनीयम् , तत्र प्रायोग्य तदर्थ ग्रहीतव्यमिति भावः । अथ तथापि नेच्छति ततः "वीसु" ति पृश्वग ओदनं व्यञ्जनमपि १ 'चड्डुकम्' अष्टकमयं मो० ले० विना ॥ २ °ति सङ्ग्रहगा मो० ले. विना ॥ ३ मापनां तस्य कुर्वन्ति । अथ मो० ले० ॥

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400