Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 359
________________ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ पुवाउत्ते अवचुल्लि चुल्लि सुक्ख-घण-मज्झुसिर-मविद्धे ।। पुवकय असइ दाणे, ठवणा लिंगे य कल्लाणे ।। १९५६ ॥ पूर्व-प्रथमं गृहिभिः काष्ठप्रक्षेपणादायुक्तः पूर्वायुक्तस्तसिन् 'पूर्वायुक्ते' पूर्वतप्तेऽवचुल्लके प्रथमं तन्दुलानुपस्करोति । तदभावे पूर्वतप्तायां चुल्याम् । अथ चुल्यपि पूर्वतप्ता न प्राप्यते तत 5 ईदृशानि दारूणि प्रक्षिप्योपस्करोति, तद्यथा-"सुक्खघणमझुसिरमविद्धि" त्ति शुष्काणिनााणि घनानि-वंशवद् न रन्ध्रयुक्तानि अशुषिराणि-अस्फुटितानि वचारहितानि वा अविद्धानि-घुणैरकृतच्छिद्राणि । ईदृशानि दारूणि वक्ष्यमाणप्रमाणोपेतानि पूर्वकृतानि च ग्रहीतव्यानि । अथ पूर्वकृतानि न सन्ति ततः स्वयमपि तेषां प्रमाणोपेतत्वं कर्त्तव्यम् । तथा याचमानस्य वैद्यस्य "दाणे" ति अर्थजातदानं कर्त्तव्यम् । कथम् ? इति अत आह-"ठवण" ति शैक्षण 10 प्रव्रजता यद् निकुञ्जादिषु द्रविणजातं स्थापितं तस्य दानं कर्त्तव्यम् । “लिङ्गि" ति स्खलिङ्गेन परलिङ्गेन गृहिलिङ्गेन वा अर्थजातमुत्पादनीयम् । “कल्लाणे' त्ति प्रगुणीभूतस्य ग्लानस्य तत्प्रतिचरकाणां च पञ्चकल्याणकं दातव्यम् ॥ १९५६ ॥ अथ प्रक्षिप्यमाणदारूणां प्रमाणादिकमाह हत्थद्धमत्त दारुग, निच्छल्लिय अघुणिया अहाकडगा। असईइ सयंकरणं, अघट्टणोवक्खडमहाउं ॥ १९५७ ॥ 15 हस्तार्द्ध-द्वादशाङ्गुलानि तन्मात्राणि-तावत्प्रमाणदैोपेतानि 'निच्छल्लिकानि' छल्लीरहितानि _ 'अधुणितानि' घुणैरविद्धानि दारूणि भवन्ति । ईदृशानि च यथाकृतानि ग्रहीतव्यानि । यथाकृतानाम् 'असति' अभाव 'स्वयंकरणम्' आत्मनैव हस्तार्द्धप्रमाणानि क्रियन्ते छल्लिश्चापनीयते इत्यर्थः । उपस्कृते च भक्ते उल्मुकानां घट्टना न कर्तव्या किन्तु तेऽमिजीवा यथायुष्कमनुपाल्य खयमेव विध्यायन्ति ॥ १९५७ ॥ अथ पानकयतनामाह- . 20 कंजिय-चाउलउदए, उसिणे संसट्ठमेतरे चेव । व्हाण-पियणाइपाणग, पादासइ वार दद्दरए ॥ १९५८ ॥ पानीयं याचतो वैद्यस्य काञ्जिकं दातव्यम् । यदि तद् नेच्छति ततः 'चाउलोदकं' तन्दुलधावनम् । तदप्यनिच्छत्युष्णोदकं वा संसृष्टपानकं वा । "इतरं" ति प्राशुकमनिच्छति अप्रा शुकमपि, यावत् कर्पूरवासितम् । एवं स्नान-पानादिषु कार्येषु पाकं तस्य दातव्यम् । तच्च 25 प्रथमतः पात्रके स्थाप्यते । अथ नास्त्यतिरिक्तं पात्रकं न वाऽसौ तत्र स्थापयितुं ददाति ततो वारके स्थापयित्वा 'दर्दरयति' मुखे घनेन चीवरेण वध्नाति येन कीटिकादयः सत्त्वा नाभिपतन्ति ॥ १९५८ ॥ भावितं भैक्षपदम् । अथ "चड्डादि" (गा० १९५१) त्ति पदं भावयति १°पणेनायु भा० ॥ २ °णि पूर्वकृतान्येव प्र° भा० ॥ ३ °मपि कर्त्तव्यानीति वाक्यशेषः। तथा भा० ॥ ४ तदानीय दातव्यम् भा० ॥ ५°पस्कुर्वता चोल्मकानां परस्परं घट्टना न कर्तव्या, उपस्कृते चाग्निर्यथायुष्कमनुपाल्य स्वयमेव विध्यायति, न पुनः साधुना विध्यापयितव्य इति ॥ १९५७ ॥ कंजिय गाथा० भा० । “असतीय.” पच्छद्धं । उवक्खडिते ण घट्टति, सयमेव अधाउयं पालेति ॥ पाणगं इम-" इति चूर्णौ । “अघट्टण" त्ति जयणाए अवसंतुअति (2), उवक्खडिए ताव ण घट्टेइ, जाव सयमेव विज्झातो ताहे ते अहाउयं पालेति ॥ पाणगं इम-" इति वि

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400