________________
५६८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
बहिया उ अण्हायंते, करिति खुड्डा इमं अंतो ॥ १९५० ॥ आक्षेपणीप्रभृतिभिर्धर्मकथाभिस्तस्य तथा धर्म कथयन्ति यथाऽसौ संयतो भवति 'संज्ञी वा' गृहीताणुव्रतोऽविरतसम्यग्दृष्टि; 'दानश्राद्धो वा' मुधैव साधूनामारोग्यदानशीलो भवति । अथ धर्मकथालब्धिर्नास्ति ततो विद्या-मन्त्रादयः प्रयुज्यन्ते । तेषामभावे तस्य आमलकादीनि दीयन्ते, 5 भण्यते चासौ-वहिर्गत्वा तडागादिषु स्नानं कुरुत । अथ बहिः स्नातुं नेच्छति ततो बहिरनाति तस्मिन् क्षुल्लकाः 'इदं' वक्ष्यमाणम् 'अन्तः' प्रतिश्रयस्याभ्यन्तरे कुर्वन्ति ॥ १९५० ॥ किं तत् ? इत्याह
उसिणे संसद्वे वा, भूमी-फलगाइ भिक्ख चड्डाई ।
अणुसट्ठी धम्मकहा, विज-निमित्ते य अंतों वहिं ॥ १९५१॥ 10 'उष्णोदकेन प्रतीतेन 'संसृष्टेन' गोरसरसभावितेन अपरेण वा प्राशुकेन पानकेन क्षुल्लकास्तं
सपयन्ति । शयनमाश्रित्य भूमौ फलके आदिशब्दात् पल्यङ्कादिषु वा स शाय्यते । भोजनं प्रतीत्य 'भैक्षं भिक्षापर्यटनेन लब्धमानीय तस्य दातव्यम् । "चड्डाइ" त्ति 'चड्डु' कमढकमयं भाजनम् आदिग्रहणात् कांस्यपाच्यादिपरिग्रहः, एतेषु भोजनमसौ कारयितव्यः । हिरण्यादिकं
द्रविणजातं याचमानस्य 'अन्तः' इति वास्तव्यवैद्यस्य 'बहिः' इत्यागन्तुकवैद्यस्योभयस्याप्यनुशिष्टि16 धर्मकथा-विद्या-निमित्तानि प्रयोक्तव्यानीति' नियुक्तिगाथासमासार्थः ॥ १९५१ ॥ अथैनामेव भावयन्नाह
तेल्लुबट्टण व्हावण, खुड्डाऽसति वसभ अन्नलिंगेणं ।
पट्टदुगादी भूमी, अणिच्छि जा तूलि-पल्लंके ॥ १९५२ ॥ क्षुल्लकास्तं वैद्यं तैलेनाभ्यङ्गय कल्केनोद्वयोष्णोदकादिना प्राशुकेनैकान्ते स्नपयन्ति । अथ 20 क्षुल्लका न सन्ति सपयितुं वा न जानते ततो ये 'वृषभाः' गच्छस्य शुभा-ऽशुभकारणेषु भारोद्वहनसमर्थास्ते 'अन्यलिङ्गेन' गृहस्थादिसम्बन्धिना सानादिकं वैद्यस्य कुर्वन्ति । “पट्टदुगाई" इत्यादि, स वैद्यः शयितुकामः प्रथमतो भूमौ संस्तारपट्टमुत्तरपट्टकं च प्रस्तीर्य शाय्यते । अथ नासौ पट्टद्वये खप्तुमिच्छति तत और्णिक-सौत्रिको कल्पौ प्रस्तीर्येते । तथापि यदि नेच्छति ततः काष्ठफलके संस्तारोत्तरपट्टकावास्तीर्य शयनं कार्यते । तथाप्यनिच्छति उत्तरोत्तरं तावन्नेतव्यं यावत् 25 तूली-पल्यङ्कावप्यानीय शाययितव्य इति ॥ १९५२ ॥ अथ भैक्षपदं भावयति
समुदाणिओदणो मत्तओ वणिच्छंति वीसु तवणा वा ।
एवं पणिच्छमाणे, होइ अलंभे इमा जयणा ॥ १९५३ ॥ समुदानं नाम-उच्चावचकुलेषु भिक्षाग्रहणम् तत्र लब्धः सामुदानिकः, "अध्यात्मादिभ्य इकण्" (सिद्ध० ६-३-७८) इति इकणप्रत्ययः, स चासाबोदनश्च सामुदानिकौदनः, स 30प्रथमतो वैद्यस्य दातव्यः । अथासौ तं भोक्तुं नेच्छति ततो मात्रकं वीपनीयम् , तत्र प्रायोग्य तदर्थ ग्रहीतव्यमिति भावः । अथ तथापि नेच्छति ततः "वीसु" ति पृश्वग ओदनं व्यञ्जनमपि
१ 'चड्डुकम्' अष्टकमयं मो० ले० विना ॥ २ °ति सङ्ग्रहगा मो० ले. विना ॥ ३ मापनां तस्य कुर्वन्ति । अथ मो० ले० ॥