________________
५६९
भाष्यगाथाः १९५०-५५] प्रथम उद्देशः । पृथक् तदर्थ ग्राह्यम् । अथ शीतलमिति कृत्वाऽसौ तद् नेच्छति तदा “तवण" त्ति तदेव (ग्रन्थाग्रम्-२५०० । सर्वग्रन्थानम्-१४७२०) गृहीत्वा यतनया तापयितव्यम् । एवमप्यनिच्छति अलभ्यमाने वा 'इयं वक्ष्यमाणलक्षणा यतना भवति ॥ १९५३ ॥ तामेवाह
तिगसंवच्छर तिग दुग, एगमणेगे य जोणिघाए अ।
__संसट्ठमसंसढे, फासुयमप्फासुए जयणा ॥ १९५४ ॥ । येषां शालि-व्रीहिप्रभृतीनां धान्यानां संवत्सरत्रयादूर्द्धमागमे विध्वस्तयोनिकत्वमुक्तं तेषां सम्बन्धिनो ये त्रिवार्षिकास्तन्दुलास्ते "तिग दुग एग"न्ति प्रथमतस्त्रिच्छटिता ग्रहीतव्याः, तदभावे द्विच्छटिताः, तेषामलाभे एकच्छटिता अपि । अथ त्रिवार्षिका न प्राप्यन्ते ततो द्विवार्षिकाः, तेषामलाभे एकवार्षिका अपि व्युत्क्रान्तयोनिकाः सन्तस्त्रियेकच्छटिताः क्रमेणं ग्राह्याः । 'अणेगे य" त्ति येषां धान्यानाम् 'अनेकानि' वर्षत्रयाद् बहुतराणि वर्षाणि स्थितिः प्रतिपा- 10 दिता, यथा-तिल-मुद्ग-माषादीनां पञ्च वर्षाणि अतसी-कङ्गु-कोद्रवप्रभृतीनां तु सप्त वर्षाणात्यादि, तेषामपि तन्दुलाः पञ्चवार्षिकाः सप्तवार्षिका वा त्रियेकच्छटिताः क्रमेण ग्राह्याः । अत्रापि वर्षपरिहाणिव्युत्क्रान्तयोनिकत्वं च तथैव द्रष्टव्यम् । इह च येषां यावती स्थितिरुक्ता ते तावती स्थितिं प्राप्ताः सन्तो नियमाद् व्युत्क्रान्तयोनिकाः, ये त्वद्यापि न परिपूर्णां स्थितिं प्राप्नुवन्ति ते व्युत्क्रान्तयोनिका अव्युत्क्रान्तयोनिका वा भवेयुरिति । “जोणिघाए अ" ति व्युत्क्रान्तयोनिका-15 नामभावेऽव्युत्क्रान्तयोनिका अपि ये 'योनिघातेन' जीवोत्पत्तिस्थानविध्वंसनेन गृहिभिः साध्वर्थमचित्तीकृतास्तेऽप्येवमेव वैद्यार्थं ग्रहीतव्याः। तथा पानकं पुनरिदं तस्य दातव्यम् – “संसट्ट' इत्यादि, दध्यादिभाजनधावनं संसृष्टपानकम् , उष्णोदकं तन्दुलधावनादि वा असंसृष्टपानकम् , उभयमपि प्रथमतः प्राशुकं तदभावेऽप्राशुकमपि यतनया यत् त्रसविरहितं तत् तदर्थं ग्रहीतव्यम् ॥१९५४॥ अथैनामेव नियुक्तिगाथां भावयति
वकंतजोणितिच्छडदुएक्कछडणे वि होइ एस गमो।
एमेव जोणिधाए, तिगाइ इतरेण रहिए वा ॥ १९५५ ॥ त्रिवार्षिकादयो ये व्युत्क्रान्तयोनिकास्ते त्रिच्छटिता ग्राह्याः । तेषामभावे येकच्छटितानामपि 'एष एव गमः' यत्तेऽपि व्युत्क्रान्तयोनिका गृह्यन्ते । एवमेव च योनिघातेऽपि साध्वर्थ कृते "तिगाइ" त्ति त्रिद्ध्येकच्छटिताः क्रमेण ग्रहीतव्याः। तेषामभावे त्रिवार्षिकादयो यथाक्रम कण्डाप-25 नीयाः। अथ नास्ति कोऽपि कण्डयिता ततः 'इतरेण' अव्यक्तलिङ्गेन 'रहिते वा' सागारिकवर्जिते प्रदेशे खयमेव कण्डयति । यद्वा “रहिए" ति पश्चात्कृतादिभिर्गृहस्थै रहिते एषा प्रोगुक्ता वक्ष्यमाणा चा» यतना कर्तव्या, < यंत्र तु पश्चात्कृतादयो भावितगृहस्थाः प्राप्यन्ते तत्र सर्वमपि वैद्यस्य समाधानं त एवोत्पादयन्तीति भावः ॥ १९५५ ॥
ते च तन्दुलाः कथमुपस्कर्तव्याः ? इत्याह१°ण ग्रहीतव्याः । “अ° भा० ॥ २°णिस्तथैव द्रष्टव्या । अत्र च येषां भा० ॥ ३°ति कृत्वा द्विवार्षिकादिषु व्युत्क्रान्तयोनिकत्वविशेषणं कृतमिति । "जो भा० ॥ ४ गृह्यन्ते । तथा त० डे० कां०॥ ५-६ एतदन्तर्गतः पाटः मो, ले० विना न ॥