________________
भाष्यगाथाः १९४२-४९]
प्रथम उद्देशः ।
५६७
पच्छाकडाइ जयणा, दावणकजेण जा भणिय पुचि ।
सद्धा-विभवविहूणा, ति चिय इच्छंतगा सक्खी ॥ १९४५ ॥ पश्चात्कृतादिविषया मज्जनकादिदापनकार्येण या पूर्वं यतना भणिता सैव इह मन्तव्या । नवरं ये पश्चात्कृतादयः श्रद्धया विभवेन च विहीनास्त एव इच्छन्तः सन्त इह साक्षिणः स्थाप्यन्ते, यथा-वयं भिक्षाटनं कृत्वा यथालब्धमेतस्य दास्याम इति ॥ १९४५॥ अथ ते साक्षीभवितुं नेच्छन्ति ततो य ऋद्धिमत्प्रव्रजितः स इदं ब्रूयात्
पंचसयदाण-गहणे, पलाल-खेलाण छड्डणं व जहा । सहसं व सयसहस्सं, कोडी रजं व अमुगं वा ॥ १९४६ ॥ एवं ता गिहवासे, आसी य इयाणि किं भणीहामो।
जं तुब्भऽम्ह य जुत्तं, तं उग्गादम्मि काहामो ॥ १९४७॥ 10 यथा पलाल-खेलयोश्छर्दनं विधीयते तथा दीना-ऽनाथादिभ्यो वयं रूपकाणां पञ्च शतानि हेलयैव दानं दत्तवन्तः, उपार्जनामपि कुर्वाणाः पञ्चशतानां ग्रहणमेवमेव कृतवन्तः, एवं सहस्र शतसहस्रं कोर्टि राज्यम् 'अमुकं वा' अनिर्दिष्टं सङ्ख्यास्थानं लीलयैव वयं दत्तवन्तः खीकृतवन्तो वा, एवं तावदस्माकं गृहवासे विभूतिरासीत्, इदानीं पुनरकिञ्चनाः श्रमणाः सन्तः किं भणिष्यामः ? किं करिष्यामः ? इति भावः, परं तथापि ग्लाने 'उद्गाढे' प्रगुणीभूते सति यत् ।। तवास्माकं च 'युक्तम्' अनुरूपं तत् करिप्याम इति ॥ १९४६ ॥ १९४७ ॥ ___ एवं तावत् खग्रामे वैद्यविषया यतना भणिता । अथ खग्रामे वैद्यो न प्राप्यते ततः परग्रामादप्यानेतव्यः तत्र विधिमाहपाहिजे नाणत्तं, बाहिं तु भईऍ एस चेव गमो ।
परप्रामाद्
वैद्यस्यापच्छाकडाइएसुं, अरहिय रहिए उ जो भणिओ ॥१९४८॥ नयने पाथेयं नाम-कण्टकमर्दनवेतनं यत् तस्य भक्तादि दीयते तत्र 'नानात्वं' विशेषः, वास्तव्यवैद्यस्य विधिः तन्न सम्भवति अस्य तु भवतीति भावः । तत्र च बहिर्गामादागतस्य 'भृतौ' मजनादौ वेतने एष एव गमो द्रष्टव्यः, पश्चात्कृतादिभिररहिते रहिते वा योऽनन्तरमेव भणितः ॥ १९४८ ॥ अथात्रैव यतनाविशेषमाहमजणगादिच्छंते, बाहिं अभितरे व अणुसट्ठी ।
25 धम्मकह-विज-मंते, निमित्त तस्सष्ट अन्नो वा ॥ १९४९ ॥ मज्जनं स्नानम् आदिशब्दाद् अभ्यङ्गनोद्वर्तनादिकं 'बहिः' मार्गे आगच्छन् 'अभ्यन्तरे वा' ग्लानसकाशे प्राप्तो यदीच्छति ततः सर्वं तस्य पश्चात्कृतादयः कुर्वते । तेषामभावेऽनुशिष्टिः क्रियते, यथा-यतीनां न कल्पते गृहिणः स्नपनादि कर्तुम् , भवतश्च मुधा कुर्वतो बहु फलं भवति । अथ तथापि नोपरमते ततो धर्मकथा कर्तव्या । तथाप्यप्रतिपद्यमाने विद्या-मन्त्र-निमिचानि 'तस्य' 30 वैद्यस्यावर्जनार्थ प्रयुज्यन्ते, अन्यो वा तानि प्रयुज्य वशीक्रियते, ततस्तस्य वैद्यस्यासौ मज्जनादिकं काराप्यते ॥ १९४९ ॥ अथ धर्मकथापदं भावयति
तह से कहिंति जह होइ संजओ सनि दाणसट्टो वा ।