Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 351
________________ 5 कलमोदणो य खीरं, ससकरं तूलियाइयं दव्वे । भूमिघरेट्टग खेत्ते, काले अमुगीइ वेलाए ।। १९२८ ॥ इच्छानुलोम भावे, न य तस्सऽहिया जहिं भवे विसया । अहवण दित्तादीसुं, पडिलोमा जा जहिं किरिया ।। १९२९ ।। अनन्तरोक्तं व्याधि-निदानादिकं श्रुत्वा वैद्यः खगृहस्थित एव द्रव्यादिभेदात् चतुर्विधमुपदेशं दद्यात् । तद्यथा— द्रव्यतः कलमशालिरोदनस्तथा क्षीरं च सशर्करमस्य दातव्यम्, तथा तूलि - 10 कायां शाययितव्यः, आदिशब्दाद् गोशीर्षचन्दनादिना विलेपनीय इत्यादि । क्षेत्रतो भूमिगृहे पक्केष्टकागृहे वाऽयं स्थापनीयः । कालतोऽमुकस्यां वेलायां प्रथमप्रहरादौ भोजनमयं कारणीयः । भावतों यदस्य स्वकीयाया इच्छाया अनुलोमम्-अनुकूलं तदेव कर्त्तव्यम्, नास्याज्ञा कोपनीयेति तथा यत्र 'तस्य' ग्लानस्य विषयाः 'अहिताः' अनिष्टाः क्रन्दित-विलपितादिरूपा गीत - वादित्रगोचरा वा शब्दादयो न भवन्ति तत्र स्थापनीय इति शेषः । ' अहवण" त्ति अथवा 15 ' दृप्तादिषु' दृप्तचित्तप्रभृतिषु प्रतिलोमा क्रिया कर्त्तव्या । तत्र दृप्तचित्तस्यापमानना, यथा • अपमानादिनाऽपहृतचित्तस्य दर्पातिरेकज उन्मादः शाम्यति, क्षिप्तचित्तस्यापमानादिनोपहृतचित्तस्य - सम्मानना; यक्षाविष्टस्य तु यथायोगमपमानना सम्मानना वा विधेया; ज्वरादौ या रोगे विशोषणादिका क्रिया या यत्र युज्यते सा तत्र विधेयेति ॥ १९२८ ॥ १९२९ ॥ अथ तुलनाद्वारमाह भावः, Do ५६२ सनिर्युक्ति-लघुभाप्य-वृत्तिके वृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ ‘आहारम्' अल्पभोजित्वादिलक्षणम् अग्निवलं- जाठरो वह्निरस्य मन्दः प्रबलो वा इत्येवं धृतिबलंसात्त्विकः कातरो वाऽयमित्येवं तथा "समुई" ति प्रकृतिः सा च या यस्य जन्मतः प्रभृति तां व कथयन्ति ॥ १९२७ ॥ अथोपदेशद्वारमाह 20 अपsिहणता सोउं, कयजोगाऽलंभि तस्स किं देमो । जहविभवा तेगिच्छा, जा लंभो ताव जूर्हति ॥। १९३० ॥ वैद्येन दीयमानमुपदेशम् 'अप्रतिघ्नन्तः' तद्वचनमविकुट्टयन्तः श्रुत्वाऽऽत्मानं तोलयन्ति --- किमेतत् कलमशाल्यादिकं लप्स्यामहे न वा ? इति । यदि विज्ञायते 'ध्रुवं लप्स्यामहे' ततो न किमपि भणन्ति । अथ न तस्य ध्रुवो लाभः ततो भणन्ति — यथा युष्माभिरुपदेशो दत्तस्तथा 25 वयं योगं करिष्यामः, परं यदि कृतेऽपि योगे न लभामहे ततस्तस्य किं दद्म: ?; अपि च वैद्यकशास्त्रे ‘यथाविभवा’ विभवानुरूपा चिकित्सा भणिता, यस्य यादृशी विभूतिस्तस्य तदनुरूपैरौषधैः पथ्यैश्च चिकित्सा क्रियते इत्यर्थः ; अतो यूयमपि जानीथ, यथा -- अस्माकं सर्वमपि याचितं लभ्यते नायाचितम्, अतो यदा कलमशाल्यादिकं याच्यमानमपि न प्राप्यते तदा किं दातव्यम् ? इति । एवं वैद्योपदेशमपसर्पयन्तस्तावद् “जूहंति " ति देशीशब्दत्वाद् आनयन्ति यावद् 30 यस्य द्रव्यस्य कोद्रव - कूरादेर्ध्रुर्वः प्रतिदिनभावी लाभो भवतीति ॥ १९३० ॥ एतदन्तर्गतः पाठः भा० नास्ति || ३ मो० ले० विनाऽन्यत्र - एतदन्तर्गतः पाठः भा० पुस्तक एव वर्तते ॥ ५ °ति " १ 'रयितव्यः । भा भा० ॥ 'स्य तस्य दर्पा' त० डे० कां० ॥ आन मो० ले० विना ॥ ६ 'वो लाभो भवति मो० ले० विना ॥

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400