________________
5
कलमोदणो य खीरं, ससकरं तूलियाइयं दव्वे । भूमिघरेट्टग खेत्ते, काले अमुगीइ वेलाए ।। १९२८ ॥ इच्छानुलोम भावे, न य तस्सऽहिया जहिं भवे विसया । अहवण दित्तादीसुं, पडिलोमा जा जहिं किरिया ।। १९२९ ।। अनन्तरोक्तं व्याधि-निदानादिकं श्रुत्वा वैद्यः खगृहस्थित एव द्रव्यादिभेदात् चतुर्विधमुपदेशं दद्यात् । तद्यथा— द्रव्यतः कलमशालिरोदनस्तथा क्षीरं च सशर्करमस्य दातव्यम्, तथा तूलि - 10 कायां शाययितव्यः, आदिशब्दाद् गोशीर्षचन्दनादिना विलेपनीय इत्यादि । क्षेत्रतो भूमिगृहे पक्केष्टकागृहे वाऽयं स्थापनीयः । कालतोऽमुकस्यां वेलायां प्रथमप्रहरादौ भोजनमयं कारणीयः । भावतों यदस्य स्वकीयाया इच्छाया अनुलोमम्-अनुकूलं तदेव कर्त्तव्यम्, नास्याज्ञा कोपनीयेति तथा यत्र 'तस्य' ग्लानस्य विषयाः 'अहिताः' अनिष्टाः क्रन्दित-विलपितादिरूपा गीत - वादित्रगोचरा वा शब्दादयो न भवन्ति तत्र स्थापनीय इति शेषः । ' अहवण" त्ति अथवा 15 ' दृप्तादिषु' दृप्तचित्तप्रभृतिषु प्रतिलोमा क्रिया कर्त्तव्या । तत्र दृप्तचित्तस्यापमानना, यथा • अपमानादिनाऽपहृतचित्तस्य दर्पातिरेकज उन्मादः शाम्यति, क्षिप्तचित्तस्यापमानादिनोपहृतचित्तस्य - सम्मानना; यक्षाविष्टस्य तु यथायोगमपमानना सम्मानना वा विधेया; ज्वरादौ या रोगे विशोषणादिका क्रिया या यत्र युज्यते सा तत्र विधेयेति ॥ १९२८ ॥ १९२९ ॥ अथ तुलनाद्वारमाह
भावः,
Do
५६२
सनिर्युक्ति-लघुभाप्य-वृत्तिके वृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
‘आहारम्' अल्पभोजित्वादिलक्षणम् अग्निवलं- जाठरो वह्निरस्य मन्दः प्रबलो वा इत्येवं धृतिबलंसात्त्विकः कातरो वाऽयमित्येवं तथा "समुई" ति प्रकृतिः सा च या यस्य जन्मतः प्रभृति तां व कथयन्ति ॥ १९२७ ॥ अथोपदेशद्वारमाह
20
अपsिहणता सोउं, कयजोगाऽलंभि तस्स किं देमो ।
जहविभवा तेगिच्छा, जा लंभो ताव जूर्हति ॥। १९३० ॥
वैद्येन दीयमानमुपदेशम् 'अप्रतिघ्नन्तः' तद्वचनमविकुट्टयन्तः श्रुत्वाऽऽत्मानं तोलयन्ति --- किमेतत् कलमशाल्यादिकं लप्स्यामहे न वा ? इति । यदि विज्ञायते 'ध्रुवं लप्स्यामहे' ततो न किमपि भणन्ति । अथ न तस्य ध्रुवो लाभः ततो भणन्ति — यथा युष्माभिरुपदेशो दत्तस्तथा 25 वयं योगं करिष्यामः, परं यदि कृतेऽपि योगे न लभामहे ततस्तस्य किं दद्म: ?; अपि च वैद्यकशास्त्रे ‘यथाविभवा’ विभवानुरूपा चिकित्सा भणिता, यस्य यादृशी विभूतिस्तस्य तदनुरूपैरौषधैः पथ्यैश्च चिकित्सा क्रियते इत्यर्थः ; अतो यूयमपि जानीथ, यथा -- अस्माकं सर्वमपि याचितं लभ्यते नायाचितम्, अतो यदा कलमशाल्यादिकं याच्यमानमपि न प्राप्यते तदा किं दातव्यम् ? इति । एवं वैद्योपदेशमपसर्पयन्तस्तावद् “जूहंति " ति देशीशब्दत्वाद् आनयन्ति यावद् 30 यस्य द्रव्यस्य कोद्रव - कूरादेर्ध्रुर्वः प्रतिदिनभावी लाभो भवतीति ॥ १९३० ॥
एतदन्तर्गतः पाठः भा० नास्ति || ३ मो० ले० विनाऽन्यत्र - एतदन्तर्गतः पाठः भा० पुस्तक एव वर्तते ॥ ५ °ति "
१ 'रयितव्यः । भा भा० ॥
'स्य तस्य दर्पा' त० डे० कां० ॥
आन मो० ले० विना ॥ ६ 'वो लाभो भवति मो० ले० विना ॥