SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ 10 माष्यगाथाः १९२८-३३] प्रथम उद्देशः । ५६३ अथ तुलनामेव प्रकारान्तरेणाह नियएहिँ ओसहेहि, कोइ भणेजा करेमऽहं किरियं । तस्सऽप्पणो य थाम, नाउं भावं च अणुमन्ना ॥ १९३१ ॥ तस्य म्लानस्य 'कोऽपि' सज्ञातको वैद्यो भणेत्–निजकैरौषधैरहं ग्लानस्य करोमि क्रियाम् , प्रेषयत मदीये गृहे ग्लानमिति । ततो गुरुभिः पृष्टेन ग्लानेन तस्यात्मनश्च 'स्थाम' वीर्य तोल-5 नीयम्-किमेष वैद्य औषधानि पूरयितुं समर्थो न वा ?, अहमपि किं धृत्या बलवान् ? आहोश्चिदबलवान् ?, भावो नाम-किमेष धर्महेतोश्चिकित्सां चिकीर्षुः खगृहे मामाकारयति ? उताहो उन्निष्क्रामणाभिप्रायेण ? इति । यद्यसौ गृहस्थ औषधपूरणे समर्थो यदि च स्वयं धृत्या बलवान् यदि च धर्महेतोः सज्ञातकस्तमाकारयति तत एवं तस्यात्मनश्च वीर्यं भावं च ज्ञात्वा गुरूणामनुज्ञां गृहीत्वा तत्र गन्तव्यं नान्यथेति ॥ १९३१ ॥ अथासौ वैद्यो ब्रूयात् जारिसयं गेलन्न, जा य अवस्था उ वट्टए तस्स । अद्दट्टण न सका, वोत्तुं तं वच्चिमो तत्थ ॥ १९३२ ॥ यादृशं युष्माभिः 'ग्लान्यं' ग्लानत्वमाख्यातं 'या च' यादृशी तस्यावस्था वर्त्तते तदेतददृष्ट्वा न शक्यते किमध्यौषधादि 'वक्तुम्' उपदेशुम्, ततः 'तत्रैव' ग्लानसमीपे बजाम इति ॥१९३२॥ एवं भणित्वा प्रतिश्रयमागतस्य तस्य यो विधिः कर्त्तव्यस्तमभिधित्सुरगाथामाह अब्भुट्ठाणे आसण, दायण भद्दे भती य आहारो। गिलाणस्स य आहारे, नेयव्यो आणुपुन्वीए ॥ १९३३ ॥ प्रथममभ्युत्थानविषयो विधिर्वक्तव्यः, तत आसनविषयः, ततो ग्लानस्य दर्शना यथा क्रियते, ततः “भद्दे" ति भद्रको वैद्यो यथा चिकित्सामेवमेव करोति, इतरस्य तु 'भृतिः' मज्जनादिकं चिकित्सावेतनम् आहारश्च यथा दातव्यः, ग्लानस्य च यथा आहारे यतना कर्चव्या 20 सथा सर्वोऽपि विधिरानुपूर्व्या प्ररूप्यमाणो ज्ञातव्य इति समुदायार्थः ॥ १९३३ ॥ अक्यवार्थ तु प्रतिद्वारमभिधित्सुराह अब्भुट्टाणे गुरुगा, तत्थ वि आणाइणो भवे दोसा । १ तस्य ग्लानस्य कोऽपि सक्षातिको भणेत्-निजकैरौषधैरहं ग्लानस्य करोमि क्रियाम्, प्रेषयत मदीये गृहे ग्लानमिति । ततः किं कर्तव्यम् ? इत्याह-तस्य' गृहस्थस्य 'स्थाम' वीर्यम्-'किमौषधानि पूरयितुं समर्थो वा? असमर्थः ?' इत्येवं ज्ञात्वा, 'आत्मनो वा' तस्थ ग्लानस्य स्थाम ज्ञात्वा-'किं धृत्या बलवान् ? आहोश्चिदबलवान् ?' इति, भावं ज्ञात्वा-'किमेष धर्महेतोश्चिकित्सां चिकीर्षुः स्वगृहे ग्लानमाकारयति ? उताहो उनिष्कामणाभिप्रायेण ?' इति । यद्यसौ गृहस्थ औषधपूरणे समर्थो यदि च ग्लानो धृत्या बलवान् यदि च धर्महेतोः सज्ञातिकस्तमाकारयति ततोऽनुज्ञा दातव्या अन्यथा तु नेति ॥ १९३१ ॥ इति भा० पुस्तके टीका। ___ "अधवा सण्णातओ से कोइ भणेज्जा-णियगाणिक गाथा॥ तस्स थामं-किं ओसधाणं समत्थो असमत्थो ? अप्पणो थाम-किं ति धितिए बलिओ एस ण वा?, भावं च त्ति-किं हेणं? धम्महेउं वा? अध परिणामेंतओ?, एवं णातुं अणुण्णा ॥” इति चूर्णी ।।
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy