________________
५६४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सुत्रम् १
मिच्छत्त रायमादी, विराहणा कुल गणे संघे ॥ १९३४ ॥ ___ आचार्यों यदि वैद्यस्यागतस्याभ्युत्थानं करोति तदा चत्वारो गुरुकाः । तत्राप्याज्ञादयो दोषा भवेयुः । तथा मिथ्यात्वं राजादयो ब्रजेयुः, आदिग्रहणेन राजामात्यादिपरिग्रहः । ते हि चारपुरुषादिमुखादाचार्य वैद्यस्याभ्युत्थितं श्रुत्वा स्वयं वा दृष्ट्वा चिन्तयेयुः-अमी श्रमणा अस्माकमभ्यु5 स्थानं न कुर्वन्ति, अस्मद्धृत्यस्य तु नीचतरस्येत्थमभ्युत्तिष्ठन्ते, अहो ! दुर्दृष्टधर्माणोऽमी इति । प्रद्विष्टा वा यत् तस्यैवाचार्यस्य यदि वा कुलस्य गणस्य सङ्घस्य वा विराधनां कुर्युः तन्निष्पन्नं प्रायश्चित्तम् ॥ १९३४ ॥
अणब्भुट्ठाणे गुरुगा, तत्थ वि आणाइणो भवे दोसा।
मिच्छत्त सो व अन्नो, गिलाणमादीविराहणया ॥ १९३५ ॥ 10 अथैतद्दोषभयादाचार्यों नोत्तिष्ठति तत्रापि चतुर्गुरुकाः । तत्राप्याज्ञादयो दोषा भवन्ति । 'स
वा' वैद्योऽन्यो वा तं दृष्ट्वा मिथ्यात्वं गच्छेत् , यथा-अहो ! तपस्विनोऽप्यमी गर्वमुद्वहन्ति । प्रद्विष्टो वा वैद्यो ग्लानस्य क्रियां न कुर्याद् अपप्रयोगं वा कुर्यात् , एवं ग्लानविराधना। आदिशब्दादाचार्यादेर्वा राजवल्लभतया विराधनां कुर्यात् , यद्वा 'युष्माकं देहेऽमुको व्याधिर्वर्तते तच्चिकित्सार्थममुकमौषधं भवतां दास्यते' इति भणित्वा विरुद्धौषधप्रदानेनाचार्य विराधयेत् 16॥ १९३५ ॥ यत एते दोषा अतोऽयं विधिः कर्त्तव्यः
गीयत्थे आणयणं, पुचि उद्वित्तु होइ अभिलावो ।
गिलाणस्स दावणं धोवणं च चुनाइगंधे य ॥ १९३६ ॥ गीताथैद्यस्य प्रतिश्रये आनयनं कर्तव्यम् । यदि ते पञ्च जनास्ततः सङ्घाटकः प्रथमत एवागच्छति । अथ त्रयस्तत एकस्तन्मध्यात् प्रथममागच्छति, आगत्य च गुरूणां कथयति–वैद्य 20 आगच्छतीति । ततो गुरवो द्वे आसने तत्र साधुभिः स्थापयन्ति । स्वयं तु चक्रमणलक्ष्येण 'पूर्व' वैद्यागमनात् प्रागेवोत्थायो’ स्थिता आसते । गीतार्थेश्च निवेदयितव्यम् 'एष वैद्यः' इति । आचार्यैश्च पूर्वमनालपतोऽपि वैद्यस्याभिलापः कर्त्तव्यः, पूर्वन्यस्तेन चासनेनोपनिमन्त्रणीयः । तत आचार्यो वैद्यश्च द्वावप्यासने उपविशतः । ततो ग्लानस्य दर्शना कार्या । कथम् ! इत्याहग्लानस्य यद् उपकरणे शरीरे वा अशुचिनोपलिप्तं तस्य 'धावनं' प्रक्षालनं कर्त्तव्यम् , चशब्दात् 25 खेल-कायिकी-संज्ञामात्रकाण्येकान्ते स्थापनीयानि, भूमिकाया उपलेपनं सम्मार्जनं च विधेयम् ,
तथापि यदि दुर्गन्धो भवति ततः पटवासादिचूर्णानि तत्र विकीर्यन्ते, आदिशब्दात् कर्पूरादिभिः सुगन्धिद्रव्यैरशुभो गन्धोऽपनीयते, ततः प्रावृतशुक्लवासाः शुचीभूतो ग्लानो वैद्यस्य दर्श्यते । यदि तस्य किञ्चिद् व्रणादिकं पाटयितव्यं तदा तस्मिन् पाटिते सति उष्णोदकादि प्राशुकं हस्तधावनं दातव्यम् । अथोप्णोदकमसौ नेच्छति ततः पश्चात्कृतादयो मृत्तिकामुदकं वा प्रयच्छन्ति 30॥ १९३६ ॥ गतमभ्युत्थाना-ऽऽसन-दर्शनाद्वारत्रयम् । अथ भद्रकद्वारमाह
चउपादा तेगिच्छा, को भेसज्जाइँ दाहिई तुभं ।।
तहियं च पुव्वपत्ता, भणंति पच्छाकडादऽम्हे ॥ १९३७॥ वैद्यो ब्रुयात्-चिकित्सा चतुप्पादा भवति, चत्वारः पादाः-चतुर्थांशरूपा यस्यां सा चतु