________________
भाष्यगाथाः १९३४-४१] प्रथम उद्देशः ।
५६५ प्पादा, तद्यथा-आतुरः प्रतिचरका वैद्यो भेषजानि । न एतैश्चतुर्भिवैद्यशास्त्रोक्तगुणोपेतैश्चिकित्सा निष्पद्यते, » अतः को नाम ग्लानस्य योग्यानि भेषजानि युष्माकं प्रदास्यति ? । ततस्तत्र दत्तसकेततया पूर्वप्राप्ताः पश्चात्कृतादयो भणन्ति-वयं दास्याम इति । एवं तावद् भद्रको वैद्यः क्रियां करोति न चान्यत् किमपि स्पृहयति ॥ १९३७ ॥ यस्तु प्रान्तस्तमुद्दिश्य भृतिद्वारमाहारद्वारं चाह
कोई मजणगविहिं, सयणं आहार उवहि केवडिए । [नि.गा. ३०३७]
गीयत्थेहि य जयणा, अजयण गुरुगा य आणाई ॥ १९३८ ॥ कश्चिद् वैद्यो ब्रूयात्-मज्जनं-स्नानं तस्य विधिः-प्रकारः 'मजनविधिः तैलाभ्यङ्गनादिप्रक्रियापुरस्सरं स्नानमित्यर्थः, 'शयनं' पल्यकादि, ‘आहारः' भोजनम् , 'उपैधिः' वस्त्रादिरूपः, "केवडिय" त्ति रूपकाः, एतत् सर्वं मम को नाम दास्यति ? इति । ततः पश्चात्कृतादिभिर-10 भ्युपगन्तव्यम्-वयं दास्यामः । तेषामभावे गीतार्थैर्यतनया सर्वमप्यभ्युपगन्तव्यम् । यद्ययतनया अभ्युपगच्छन्ति प्रतिषेधयन्ति वा ततश्चत्वारो गुरुकाः आज्ञादयश्च दोषाः । एषा नियुक्तिगाथा ॥ १९३८ ॥ अथैनामेव बिभावयिषुराह
एयस्स नाम दाहिह, को मजणगाइ दाहिई मज्झं। [नि.गा. ३०३८]
ते चेव णं भणंती, जं इच्छसि अम्हें तं सव्यं ॥ १९३९ ॥ 15 'एतस्य' ग्लानस्य 'नाम' इति सम्भावनायां यद् यत् प्रायोग्यं भेषजादि तत् तत् सर्व दास्यथ, मम पुनर्मज्जनकादिकं को दास्यति ? इत्युक्ते 'त एव' पश्चात्कृतादयः “ण” इति तं वैद्यं भणन्ति—यद् इच्छसि तत् सर्वं वयं दास्याम इति ॥ १९३९ ॥
जं एत्थ अम्हें सव्वं, पडिसेहे गुरुग दोस आणादी । एएसिं असईए, पडिसेहे गुरुग आणादी ॥ १९४०॥
20 ये ते पूर्व पश्चात्कृतादयः प्रज्ञापितास्तैः 'यदत्र ग्लानस्य युष्माकं चोपयुज्यते तत् सर्व वयं दास्यामः' इत्युक्ते सति यः साधुस्तानधिकरणभयात् प्रतिषेधयति तस्य चत्वारो गुरुका आज्ञादयश्च दोषाः । अथ न सन्ति पश्चात्कृतादयस्तत एतेषाम् 'असति' अभावे यो वैद्यं 'प्रतिषेधयति' 'न वयं भवतो मज्जनादि दास्यामः' इति तस्यापि चतुर्गुरुका आज्ञादयश्च दोषाः ॥ १९४०॥ पश्चात्कृतादिषु प्रतिषिध्यमानेषु यद वैद्यश्चिन्तयति तदाह
25 जुत्तं सयं न दाउं, अन्ने दिते वि ऊ निवारिति ।
न करिज तस्स किरियं, अवप्पओगं वे से दिजा ॥ १९४१॥ युक्तममीषां खयमदातुम् अपरिग्रहत्वात् , यत् पुनरन्यान् ददतो निवारयन्ति तन्न युज्यते । एवं प्रद्विष्टः सन् 'तस्य' ग्लानस्य क्रियां न कुर्यात् , 'अपप्रयोगं वा' विरुद्धौषधयोग "से" तस्य 'दद्यात्' प्रयुञ्जीत, तस्मादन्यान् न निवारयेदिति ॥ १९४१ ॥
___ 30 १ एतदन्तर्गतः पाठः त० डे० कां० नास्ति ॥ २°तुर्भिर्मिलितैश्चि भा० ॥ ३°पधिः' तूलीप्रभृतिकं “के भा० ॥ ४°षा पुरातना गाथा मो० ले० विना । “कोई मजणगविहि. गाहा पुरातना" इति विशेषचूर्णौ ॥ ५ त० डे० विनाऽन्यत्र-व से देज मो० ले० । व देसिजा भा० कां०॥