Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 354
________________ भाष्यगाथाः १९३४-४१] प्रथम उद्देशः । ५६५ प्पादा, तद्यथा-आतुरः प्रतिचरका वैद्यो भेषजानि । न एतैश्चतुर्भिवैद्यशास्त्रोक्तगुणोपेतैश्चिकित्सा निष्पद्यते, » अतः को नाम ग्लानस्य योग्यानि भेषजानि युष्माकं प्रदास्यति ? । ततस्तत्र दत्तसकेततया पूर्वप्राप्ताः पश्चात्कृतादयो भणन्ति-वयं दास्याम इति । एवं तावद् भद्रको वैद्यः क्रियां करोति न चान्यत् किमपि स्पृहयति ॥ १९३७ ॥ यस्तु प्रान्तस्तमुद्दिश्य भृतिद्वारमाहारद्वारं चाह कोई मजणगविहिं, सयणं आहार उवहि केवडिए । [नि.गा. ३०३७] गीयत्थेहि य जयणा, अजयण गुरुगा य आणाई ॥ १९३८ ॥ कश्चिद् वैद्यो ब्रूयात्-मज्जनं-स्नानं तस्य विधिः-प्रकारः 'मजनविधिः तैलाभ्यङ्गनादिप्रक्रियापुरस्सरं स्नानमित्यर्थः, 'शयनं' पल्यकादि, ‘आहारः' भोजनम् , 'उपैधिः' वस्त्रादिरूपः, "केवडिय" त्ति रूपकाः, एतत् सर्वं मम को नाम दास्यति ? इति । ततः पश्चात्कृतादिभिर-10 भ्युपगन्तव्यम्-वयं दास्यामः । तेषामभावे गीतार्थैर्यतनया सर्वमप्यभ्युपगन्तव्यम् । यद्ययतनया अभ्युपगच्छन्ति प्रतिषेधयन्ति वा ततश्चत्वारो गुरुकाः आज्ञादयश्च दोषाः । एषा नियुक्तिगाथा ॥ १९३८ ॥ अथैनामेव बिभावयिषुराह एयस्स नाम दाहिह, को मजणगाइ दाहिई मज्झं। [नि.गा. ३०३८] ते चेव णं भणंती, जं इच्छसि अम्हें तं सव्यं ॥ १९३९ ॥ 15 'एतस्य' ग्लानस्य 'नाम' इति सम्भावनायां यद् यत् प्रायोग्यं भेषजादि तत् तत् सर्व दास्यथ, मम पुनर्मज्जनकादिकं को दास्यति ? इत्युक्ते 'त एव' पश्चात्कृतादयः “ण” इति तं वैद्यं भणन्ति—यद् इच्छसि तत् सर्वं वयं दास्याम इति ॥ १९३९ ॥ जं एत्थ अम्हें सव्वं, पडिसेहे गुरुग दोस आणादी । एएसिं असईए, पडिसेहे गुरुग आणादी ॥ १९४०॥ 20 ये ते पूर्व पश्चात्कृतादयः प्रज्ञापितास्तैः 'यदत्र ग्लानस्य युष्माकं चोपयुज्यते तत् सर्व वयं दास्यामः' इत्युक्ते सति यः साधुस्तानधिकरणभयात् प्रतिषेधयति तस्य चत्वारो गुरुका आज्ञादयश्च दोषाः । अथ न सन्ति पश्चात्कृतादयस्तत एतेषाम् 'असति' अभावे यो वैद्यं 'प्रतिषेधयति' 'न वयं भवतो मज्जनादि दास्यामः' इति तस्यापि चतुर्गुरुका आज्ञादयश्च दोषाः ॥ १९४०॥ पश्चात्कृतादिषु प्रतिषिध्यमानेषु यद वैद्यश्चिन्तयति तदाह 25 जुत्तं सयं न दाउं, अन्ने दिते वि ऊ निवारिति । न करिज तस्स किरियं, अवप्पओगं वे से दिजा ॥ १९४१॥ युक्तममीषां खयमदातुम् अपरिग्रहत्वात् , यत् पुनरन्यान् ददतो निवारयन्ति तन्न युज्यते । एवं प्रद्विष्टः सन् 'तस्य' ग्लानस्य क्रियां न कुर्यात् , 'अपप्रयोगं वा' विरुद्धौषधयोग "से" तस्य 'दद्यात्' प्रयुञ्जीत, तस्मादन्यान् न निवारयेदिति ॥ १९४१ ॥ ___ 30 १ एतदन्तर्गतः पाठः त० डे० कां० नास्ति ॥ २°तुर्भिर्मिलितैश्चि भा० ॥ ३°पधिः' तूलीप्रभृतिकं “के भा० ॥ ४°षा पुरातना गाथा मो० ले० विना । “कोई मजणगविहि. गाहा पुरातना" इति विशेषचूर्णौ ॥ ५ त० डे० विनाऽन्यत्र-व से देज मो० ले० । व देसिजा भा० कां०॥

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400