Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 350
________________ भाष्यगाथाः १९१९-२७] प्रथम उद्देशः । ५६१ आवडणमाइएसुं, चउरो मासा हवंतऽणुग्घाया । एवं ता वचंते, पत्ते य इमे भवे दोसा ॥ १९२४॥ 'आपतनं' द्वारादौ शिरसो घट्टनम् , आदिशब्दात् प्रपतनं प्रस्खलनं वा सञ्जातम् , अपरेण वा वस्त्रादौ गृहीत्वा पश्चान्मुख आकृष्टः, 'कुत्र वा व्रजसि ?' इत्यादि भणितः, गच्छतामेव वा केनापि क्षुतम् , एवमादिप्वपशकुनेषु जातेषु यदि गच्छति तदा चत्वारो मासा अनुद्धाता 5 भवन्ति । एवं तावद् व्रजतो मन्तव्यम् । अथ वैद्यगृहं प्राप्तस्तत इमे दोषाः परिहर्त्तव्या भवन्ति ॥ १९२४ ॥ तानेव प्रतिपादयन् व्यापारद्वारमाह साड-ऽन्भंगण-उचलण-लोय-छारु-कुरुडे य छिंद-भिंदंतो। सुहआसण रोगविहिं, उवएसो वा वि आगमणं ॥ १९२५॥ एकशाटकपरिधानो यदा वैद्यो भवति तदा न प्रष्टव्यः । एवं तैलादिना अभ्यङ्गनं कल्क-10 लोधादिना वा उद्वर्त्तनं लोचकर्म वा-कूर्चमुण्डनादिलक्षणं कारयन् , क्षारस्य-भस्मन उत्कुरुटकस्यकचवरपुञ्जकस्य उपलक्षणत्वाद् बुसादीनां वा समीपे स्थितः, कोष्ठादिकं वा रप्फकादिना वा दूषितं कस्याप्यङ्गं छिन्दानः, घटम् अलावुकं वा भिन्दानः, शिराया वा भेदं कुर्वाणो न प्रच्छनीयः, अथ ग्लानस्यापि किञ्चित् छेत्तव्यं भेत्तव्यं ततश्छेदन-भेदनयोरपि प्रष्टव्यः । अथासौ शुभासने उपविष्टः 'रोगविधि' वैद्यशास्त्रपुस्तकं प्रसन्नमुखः प्रलोकयति, अथवा रोगविधिः-चिकित्सा 15 तां कस्यापि प्रयुञ्जान आस्ते ततो धर्मलाभयित्वा प्रष्टव्यः । स च वैद्यः पृष्टः सन्नुपदेशं वा दद्याद् ग्लानसमीपे वा आगमनं कुर्यात् ॥ १९२५॥ अथ सङ्गारश्च गृहिणामिति द्वारं व्याख्यानयति पच्छाकडे य सन्नी, देसणहाभद्द दाणसड्डे य । मिच्छद्दिट्टि संबंधिए अ परतित्थिए चेव ॥ १९२६ ॥ 'पश्चात्कृतः' चारित्रं परित्यज्य गृहवासं प्रतिपन्नः, 'संज्ञी' गृहीताणुव्रतः, "दंसण" ति 20 दर्शनसम्पन्नोऽविरतसम्यग्दृष्टिः, 'यथाभद्रकः' सम्यक्त्वरहितः परं सर्वज्ञशासने साधुषु च बहुमानवान् , 'दानश्राद्धः' दानरुचिः, 'मिथ्यादृष्टिः' शाक्यादिशासनस्थः, 'सम्बन्धी' ग्लानस्यैव खजनः, 'परतीर्थिकः' सरजस्क-परिव्राजकादिः परं भद्रकः । एतेषां सङ्केतः क्रियते, यथावैद्यस्य पार्श्वे वयं गच्छामः, भवद्भिस्तत्र सन्निहितैर्भवितव्यम् , यदसौ ब्रूयात् तद् युष्मामिः सर्वमपि प्रतिपत्तव्यम् ॥ १९२६ ॥ ये वैद्यसमीपे प्रस्थापितास्ते वैद्यस्येदं कथयन्ति वाहि नियाण विकारं, देसं कालं वयं च धातुं च । आहार अग्गि-धिइबल, समुइं च कहिंति जा जस्स ॥ १९२७॥ 'व्याधि' ज्वरादिकं रोगं 'निदानं' रोगोत्थानकारणं 'विकारं' प्रवर्द्धमानरोगविशेषं 'देशं' ग्लानत्वोत्पत्तिनिबन्धनप्रवात-निवातादिप्रदेशरूपं 'कालं' रोगोत्थानसमयं पूर्वाहादिकं 'वयश्च' शैशव-तारुण्यादिकं 'धातुं च' वातादीनां धातूनामन्यतमो यस्तस्योत्कटो वर्त्तते तं 'चः' समुच्चये 30 १ वा उपरि अवष्टभ्य वा स्थि° भा० ॥ २ स्त्रं वाचयति ततः प्रष्टव्यः । स च भा० ॥ ३°गोत्पत्तिकारणभूतं वसन्तादिकं रोगोत्थानसमयं वा पूर्वा भा० । ४ मो० ले० विनाऽन्यत्र'तमो य उत्कटस्तम् 'आहा त० डे० कां० । तमो धातुरस्योत्कटो वर्तते इत्येवं 'आहा भा०॥

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400