Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 313
________________ साधर्मिक चैत्यम् मङ्गल चैत्यम् शाश्वत चैत्यं भक्तिचै संच ५२४ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ लिङ्गतः प्रवचनतश्च । तत्रेह लिङ्गतो गृह्यते, स च यथा कुटुम्बी, कुटुम्बी नाम - प्रभूतपरिचारकलोकपरिवृतो रजोहरण-मुखपोतिकादिलिङ्गधारी वारत्तकप्रतिच्छन्दः । तथा मथुरापुर्यां गृहेषु कृतेषु मङ्गलनिमित्तं यद् निवेश्यते तद् मङ्गलचैत्यम् । सुरलोकादो नित्यस्थायि शाश्वतचैत्यम् । यत्तु भक्त्या मनुष्यैः पूजा-वन्दनाद्यर्थं कृतं कारितमित्यर्थः तद् भक्तिचैत्यम् । 'तेन च' भक्तिऽ चैत्येन ‘आदेशः' अधिकारः, अनुयानादिमहोत्सवस्य तत्रैव सम्भवादिति । ऐषा निर्युक्तिगाथा ॥ १७७४ ॥ अथैनामेव विभावयिषुः साधर्मिकचैत्यं तावदाह वारत्तगस्स पुत्तो, पडिमं कासी य चेश्यहरम्मि | तत्थ य थली अहेसी, साहम्मियचेइयं तं तु ॥ १७७५ ॥ seisserus योगसङ्ग्रहेषु "वारत्तपुरे अभयसेण वारते” (नि० गा० १३०३ पत्र ७०९) 10 इत्यत्र प्रदेशे प्रतिपादितचरितो यो वारतक इति नाम्ना महर्षिः, तस्य पुत्रः खपितरि भक्ति - भरापूरिततया चैत्यगृहं कारयित्वा तत्र रजोहरण - मुखवस्त्रिका प्रतिग्रहारिणीं पितुः प्रतिमामस्थापयत्, तत्र च ' स्थली' सत्रशाला तेन प्रवर्त्तिता आसीत्, तदेतत् साधर्मिकचैत्यम् । अस्य चं साधर्मिकचैत्यस्यार्थाय कृतमस्माकं कल्पते ॥ १७७५ || अथ मङ्गलचैत्यमाह - अरहंतपट्ठाए, महुरानयरीऍ मंगलाई तु । गेहेसु चचरेसु य, छन्नउईगामअद्वे ।। १७७६ | 15 मथुरानगर्यां गृहे कृते मङ्गलनिमित्तमुत्तरङ्गेषु प्रथममर्हत्प्रतिमाः प्रतिष्ठाप्यन्ते, अन्यथा तद् गृहं पतति, तानि मङ्गलचैत्यानि । तानि च तस्यां नगर्यां गेहेषु चत्वरेषु च भवन्ति । न केवलं तस्यामेव किन्तु तत्पुरीप्रतिबद्धा ये षण्णवतिसङ्ख्याका ग्रामार्द्धास्तेष्वपि भवन्ति । इहोत्तरापथानां ग्रामस्य ग्रामार्द्ध इति संज्ञा । आह च चूर्णिकृत 20 गामद्धेसु त्ति देसभणिती, छन्नउईगामेसु त्ति भणियं होइ, उत्तरावहाणं एसा भणिइ ति ॥ १७७६ ॥ शाश्वतचैत्य-भक्तिचैत्यानि दर्शयति नियाई सुरलोए, भत्तिकयाहं तु भरहमाईहिं । निस्सा-निस्सकयाई, जहिँ आएसो चयसु निस्सं । १७७७ ।। 'नित्यानि' शाश्वतचैत्यानि 'सुरलोके' भवनपति - व्यन्तर - ज्योतिष्क-वैमानिकदेवानां भवन25 नगर-विमानेषु, उपलक्षणत्वाद् मेरुशिखर- वैताढ्यादिकूट- नन्दीश्वर - रुचकवरादिष्वपि भवन्तीति । तथा भक्त्या भरतादिभिर्यानि कारितानि अन्तर्भूतण्यर्थत्वाद् भक्तिकृतानि । अत्र च “जहिँ आएसो" त्ति येन भक्तिचैत्येन 'आदेश' प्रकृतम् तद् द्विधा - निश्राकृतमनिश्राकृतं च । निश्राकृतं नाम - गच्छप्रतिबद्धम्, अनिश्राकृतं तद्विपरीतम् सङ्घसाधारणमित्यर्थः । " चयसु निस्सं” ति यद् निश्राकृतं तत् 'त्यज' परिहर । अनिश्राकृतं तु कल्पते ॥ १७७७ ॥ गतं चैत्यद्वारम् । अथाधाकर्मद्वारमाह 30 १ °न्दः, तत् साधर्मिक चैत्यम् । तथा भा० ॥ २ एव पुरातना गाथा भा० कां० ॥ ३ मो० ले० विनाऽन्यत्र - चार्थाय त० डे० कां० । च वारतकतुल्यस्य लिङ्गसाधर्मिकस्यार्थाय भा० ॥

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400