________________
साधर्मिक
चैत्यम्
मङ्गल
चैत्यम्
शाश्वत
चैत्यं
भक्तिचै
संच
५२४
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
लिङ्गतः प्रवचनतश्च । तत्रेह लिङ्गतो गृह्यते, स च यथा कुटुम्बी, कुटुम्बी नाम - प्रभूतपरिचारकलोकपरिवृतो रजोहरण-मुखपोतिकादिलिङ्गधारी वारत्तकप्रतिच्छन्दः । तथा मथुरापुर्यां गृहेषु कृतेषु मङ्गलनिमित्तं यद् निवेश्यते तद् मङ्गलचैत्यम् । सुरलोकादो नित्यस्थायि शाश्वतचैत्यम् । यत्तु भक्त्या मनुष्यैः पूजा-वन्दनाद्यर्थं कृतं कारितमित्यर्थः तद् भक्तिचैत्यम् । 'तेन च' भक्तिऽ चैत्येन ‘आदेशः' अधिकारः, अनुयानादिमहोत्सवस्य तत्रैव सम्भवादिति । ऐषा निर्युक्तिगाथा ॥ १७७४ ॥ अथैनामेव विभावयिषुः साधर्मिकचैत्यं तावदाह
वारत्तगस्स पुत्तो, पडिमं कासी य चेश्यहरम्मि |
तत्थ य थली अहेसी, साहम्मियचेइयं तं तु ॥ १७७५ ॥ seisserus योगसङ्ग्रहेषु "वारत्तपुरे अभयसेण वारते” (नि० गा० १३०३ पत्र ७०९) 10 इत्यत्र प्रदेशे प्रतिपादितचरितो यो वारतक इति नाम्ना महर्षिः, तस्य पुत्रः खपितरि भक्ति - भरापूरिततया चैत्यगृहं कारयित्वा तत्र रजोहरण - मुखवस्त्रिका प्रतिग्रहारिणीं पितुः प्रतिमामस्थापयत्, तत्र च ' स्थली' सत्रशाला तेन प्रवर्त्तिता आसीत्, तदेतत् साधर्मिकचैत्यम् । अस्य चं साधर्मिकचैत्यस्यार्थाय कृतमस्माकं कल्पते ॥ १७७५ || अथ मङ्गलचैत्यमाह - अरहंतपट्ठाए, महुरानयरीऍ मंगलाई तु ।
गेहेसु चचरेसु य, छन्नउईगामअद्वे ।। १७७६ |
15
मथुरानगर्यां गृहे कृते मङ्गलनिमित्तमुत्तरङ्गेषु प्रथममर्हत्प्रतिमाः प्रतिष्ठाप्यन्ते, अन्यथा तद् गृहं पतति, तानि मङ्गलचैत्यानि । तानि च तस्यां नगर्यां गेहेषु चत्वरेषु च भवन्ति । न केवलं तस्यामेव किन्तु तत्पुरीप्रतिबद्धा ये षण्णवतिसङ्ख्याका ग्रामार्द्धास्तेष्वपि भवन्ति । इहोत्तरापथानां ग्रामस्य ग्रामार्द्ध इति संज्ञा । आह च चूर्णिकृत
20
गामद्धेसु त्ति देसभणिती, छन्नउईगामेसु त्ति भणियं होइ, उत्तरावहाणं एसा भणिइ ति ॥ १७७६ ॥ शाश्वतचैत्य-भक्तिचैत्यानि दर्शयति
नियाई सुरलोए, भत्तिकयाहं तु भरहमाईहिं ।
निस्सा-निस्सकयाई, जहिँ आएसो चयसु निस्सं । १७७७ ।।
'नित्यानि' शाश्वतचैत्यानि 'सुरलोके' भवनपति - व्यन्तर - ज्योतिष्क-वैमानिकदेवानां भवन25 नगर-विमानेषु, उपलक्षणत्वाद् मेरुशिखर- वैताढ्यादिकूट- नन्दीश्वर - रुचकवरादिष्वपि भवन्तीति । तथा भक्त्या भरतादिभिर्यानि कारितानि अन्तर्भूतण्यर्थत्वाद् भक्तिकृतानि । अत्र च “जहिँ आएसो" त्ति येन भक्तिचैत्येन 'आदेश' प्रकृतम् तद् द्विधा - निश्राकृतमनिश्राकृतं च । निश्राकृतं नाम - गच्छप्रतिबद्धम्, अनिश्राकृतं तद्विपरीतम् सङ्घसाधारणमित्यर्थः । " चयसु निस्सं” ति यद् निश्राकृतं तत् 'त्यज' परिहर । अनिश्राकृतं तु कल्पते ॥ १७७७ ॥
गतं चैत्यद्वारम् । अथाधाकर्मद्वारमाह
30
१ °न्दः, तत् साधर्मिक चैत्यम् । तथा भा० ॥ २ एव पुरातना गाथा भा० कां० ॥ ३ मो० ले० विनाऽन्यत्र - चार्थाय त० डे० कां० । च वारतकतुल्यस्य लिङ्गसाधर्मिकस्यार्थाय भा० ॥