________________
भाष्यगाथाः १७७५-८१] प्रथम उद्देशः। .
५२५ जीवं उदिस्स कडं, कम्मं सो वि य जया उ साहम्मी।
सो वि य तइए भंगे, लिंगादीणं न सेसेसु ॥ १७७८ ॥ जीवमुद्दिश्य यत् षट्कायविराधनया कृतं सोऽपि च यदि जीवः 'साधर्मिकः' समानधर्मा भवति सोऽपि च' साधर्मिकः 'लिङ्गादीनां' 'लिङ्गतः साधर्मिको न प्रवचनतः' इत्यादीनां चतुर्णा भङ्गानां 'तृतीये भने 'लिङ्गतः प्रवचनतोऽपि' इत्येवंलक्षणे यदि वर्तते न शेषेषु तदेतदाधाकर्म मन्तव्यम् ॥ १७७८ ॥ अथ तीर्थकरप्रतिमार्थ यनिर्वर्तितं तत् किं साधूनां कल्पते न वा ? इत्याशङ्कानिरासार्थमाह
संवट्टमेह-पुप्फा, सत्थनिमित्तं कया जइ जईणं ।
न हु लब्भा पडिसिद्धं, किं पुण पडिमट्ठमारद्धं ॥ १७७९ ॥ शास्ता-तीर्थकरस्तस्य निमित्तं यानि देवैः संवर्तकमेघ-पुष्पाणि समवसरणभूमौ कृतानि 10 तानि यतीनां यदि प्रतिषेद्धं न लभ्यानि, तेषां तत्रावस्थातुं यदि कल्पते इति भावः, तर्हि किं पुनः 'प्रतिमार्थम्' अजीवानां प्रतिमानां हेतोरारब्धम् ?. तत् सुतरां न प्रतिषेधमर्हतीत्यभिप्रायः ॥ १७७९॥ आह यदि तीर्थकरार्थं संवर्तकमेघ-पुष्पाणि कृतानि तर्हि तस्य भगवतस्तानि प्रतिसेवमानस्य कथं न दोषो भवति ? इति उच्यते
तित्थयरनाम-गोयस्स खयहा अवि य दाणि साभव्या। 15
धम्मं कहेइ सत्था, पूयं वा सेवई तं तु ॥ १७८० ॥ तीर्थकरनाम-गोत्रस्य कर्मणः क्षयार्थ 'शास्ता' भगवान् धर्म कथयति, 'पूजां च' महिमां तामनन्तरोक्तां संवर्तकवातप्रभृतिकामासेवते । भगवता हि तीर्थकरनाम-गोत्रं कर्मावश्यवेदनीयम् , विपाकोदयावलिकायामवतीर्णत्वात् । तस्य च वेदनेऽयमेवोपायः-~-यदग्लान्या धर्मदेशनाकरणं सदेव-मनुजा-ऽसुरलोकविरचितायाश्च पूजाया उपजीवनम् ।
तं च कहं वेइज्जइ, अगिलाए धम्मदेसणाईहिँ । ( आव० नि० गा० १८३-७४३) तथा
उदए जस्स सुरा-ऽसुर-नरवइनिवहेहिँ पूइओ लोए।।
तं तित्थयरं नामं, तस्स विवागो उ केवलिणो ॥ (बृहत्कर्मवि० गा० १४९) इति वचनप्रामाण्यात् । 'अपि च' इत्यभ्युच्चये । “दाणि" ति निपातो वाक्यालङ्कारे । साभव" 25 त्ति खो भावः स्वभावः, यथा--"आपो द्रवाश्चलो वायुः” इत्यादि, तस्य भावः खाभाव्यं तस्मात् । तस्य हि भगवतः स्वभावोऽयं यत् तथाधर्मकथाविधानं पूजायाश्चासेवनम् ॥१७८०॥ इदमेव स्पष्टतरमाह-.
खीणकसाओ अरिहा, कयकिच्चो अवि य जीयमणुयत्ती ।
पडिसेवंतो वि अओ, अदोसवं होइ तं पूर्य ॥ १७८१ ॥ 30 क्षीणाः-प्रलयमुपगताः कषायाः-क्रोधादयो यस्य स क्षीणकषायः, एवंविधोऽर्हन् तां पूजां १ वतिष्ठमानानां न प्रतिषेधः कर्तुं शक्यते इति भावः, भा० ॥ २ इति । तथा अपि भा०॥
20