________________
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ प्रतिसेवमानोऽपि न दोषवान् । इयमत्र भावना-यो हि रागादिमान् पूजामुपजीवन् स्वात्मन्युस्कर्ष मन्यते स दोपभाग् भवति, भगवतस्तु क्षीणकषायस्य पूजामुपजीवतोऽपि नास्ति खात्मन्युकर्षगन्धोऽपि, अतो दूरापास्तप्रसरा तस्य सदोषतेति । तथा कृतानि-समापितानि कृत्यानि येन सः » ‘कृतकृत्यः' केवलज्ञानलाभान्निष्ठितार्थः । ततः कृतकृत्यत्वादेवासौ पूजामासेवते न च 6 दोषमापद्यते । अपि च जीतम्-'उपजीवनीया सुरा-ऽसुरविरचिता पूजा' इत्येवंलक्षणं कल्पमनुवर्तयितुं शीलमस्यासौ जीतानुवर्ती, गाथायां मकारोऽलाक्षणिकः ॥ १७८१ ॥ आह भवत्वेवं परं तीर्थकरस्य तत्प्रतिमाया वा निमित्तं यत् कृतं तत् केन कारणेन यतीनां कल्पते ? उच्यते
साहम्मिओ न सत्था, तस्स कयं तेण कप्पड़ जईणं ।
जं पुण पडिमाण कयं, तस्स कहा का अजीवत्ता ॥ १७८२ ॥ 10 'शास्ता' तीर्थकरः स साधर्मिको लिङ्गतः प्रवचनतोऽपि न भवति । तथाहि-लिङ्गतः
साधर्मिकः स उच्यते यो रजोहरणादिलिङ्गधारी भवति, तच्च लिङ्गमस्य भगवतो नास्ति तथाकल्पत्वात् , अतो न लिङ्गतः साधर्मिकः । प्रवचनतोऽपि साधर्मिकः सोऽभिधीयते यश्चतुर्वर्णसाभ्यन्तरवर्ती भवति, "पैवयणसंधेगयरे" इति वचनात् ;» भगवाँश्च तत्प्रवर्तकतया न
तदभ्यन्तरवर्ती किन्तु चतुर्वर्णस्यापि सङ्घस्याधिपतिः, ततो न प्रवचनतोऽपि साधर्मिक इति । 15 अतः 'तस्य' तीर्थकरस्यार्थाय कृतं यतीनां कल्पते । यत् पुनः प्रतिमानामर्थाय कृतं तस्य 'का कथा ?' का वार्ता ? सुतरां तत् कल्पते । कुतः ? इत्याह-अजीवत्वात् , जीवमुद्दिश्य हि यत् कृतं तदाधाकर्म भवति, “जीवं उद्दिस्स कडं" (गा० १७७८) इति प्रागेवोक्तत्वात् , तच्च जीवत्वमेव प्रतिमानां नास्तीति ॥ १७८२ ॥ अथ वसतिविषयमाधाकर्म दर्शयति
ठाइमठाई ओसरण मंडवा संजयट्ठ देसे वा।
पेढी भृमीकम्मे, निसेवतो अणुमई दोसा ॥ १७८३ ॥ "ओसरणे" समवसरणे बहवः संयताः समागमिष्यन्तीति बुद्ध्या श्रावका धर्मश्रद्धया बहून् मण्डपान् कुर्युः । ते च द्विधा- स्थायिनोऽस्थायिनश्च । ये समवसरणपर्वणि व्यतीते सति नोत्कील्यन्ते ते स्थायिनः, ये पुनरुत्कील्यन्ते तेऽस्थायिनः । पुनरेकैके द्विविधाः-संयतार्थकृता
देशकृता वा । ये आधाकर्मिकास्ते संयतार्थकृताः, ये तु साधूनामात्मनश्वार्थाय कृतास्ते देश25 कृताः । एतेषु तिष्ठतां तन्निप्पन्नं प्रायश्चित्तम् । तथा 'पीठिका नाम' उपवेशनादिस्थानविशेषाः,
"भूमिकम्मे" ति 'भूमिकर्म' विषमाया भूमेः समीकरणम् , उपलक्षणं चेदम् , तेन सम्मार्जनोपलेपनादिपरिग्रहः । एतान्यपि पीठिकादीनि संयतार्थकृतानि देशकृतानि वा भवेयुः । एतानि मण्डपादीनि सदोषानि निषेवमाणस्यानुमतिदोषा भवन्ति, एतेपु क्रियमाणेषु या षण्णां जीवनि
कायानां विराधना सा अनुमोदिता भवतीति भावः ॥ १७८३ ॥ 30 गतमाधाकर्मद्वारम् । अथोद्गमदोष-शैक्षद्वारद्वयमाह
ठवियग-संछोभादी, दुसोहया होति उग्गमे दोसा । १ वति स स्वात्मन्युत्कर्ष मन्यमानस्तत्प्रत्ययं कर्मबन्धमासादयन् दोष° भा० ॥ २१ एतदन्तर्गतः पाठः त० डे० कां० नास्ति ॥ ३॥ एतदन्तर्गतः पाठः त. डे० विना न ॥