SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ ... 10 भाष्यगाथाः १७६९-७४] प्रथम उद्देशः । . ५२३ स्वामी १ श्रीसुधर्मस्वामी २ जम्बूस्वामी ३ चेति त्रीणि पुरुषयुगानि यावदनगाराणां निर्वाणपदवीगमनमभवत् । तृतीये च पुरुषयुगे निवृते सति 'सिद्धिमार्गः' क्षपकश्रेणि-केवलोत्पत्त्यादिरूपो' व्यवच्छिन्नः, न पुनर्ज्ञान-दर्शन-चारित्ररूपः शास्त्रपरिभाषितः, तस्येदानीमप्यनुवर्तमानत्वात् । ततश्च यदि तेषां साधूनामुद्द्वमादिदोषशोधनं नाभविष्यत् ततस्ते सिद्धिमार्गमपि नासादयिष्यन् । अतो निश्चीयते-तेऽपि भगवन्त इत्थमेवैषणाशुद्धिं कृतवन्त इति ॥१७७०॥5 अथानुयानविषयो विधिरुच्यतेआणाइणो य दोसा, विराहणा होइ संजमा-ऽऽयाए। अनुयान गमने एवं ता वच्चंते, दोसा पत्ते अणेगविहा ॥ १७७१ ॥ [पि.नि.१८३] विधिः निष्कारणे अनुयानं गच्छत आज्ञादयश्च दोषाः, विराधना च संयमा-ऽऽत्मनोभवति । एवं तावद् व्रजतो मार्गे दोषाः । तत्र प्राप्तानां पुनरनेकविधा दोषाः ॥ १७७१ ॥ तत्र संयमा-ऽऽत्मविराधनां भावयति महिमाउस्सुयभूए, रीयादी न विसोहए। तत्थ आया य काया य, न सुत्तं नेव पेहणा ॥ १७७२ ।। . . महिमा नाम-भगवत्प्रतिमायाः पुप्पारोपणादिपूजात्मकः सातिशय उत्सवस्तस्या दर्शनार्थमुसुकभूत ईर्यादिसमितीन विशोधयति, आदिशब्दादेषणादिपरिग्रहः । 'तत्र च' ईर्यादीनामशोधने 15 आत्मा च कायाश्च विराध्यन्ते । आत्मविराधना कण्टक-स्थाण्वाद्युपघातेन, संयमविराधना षण्णां कायानामुपमर्दादिना । तथा त्वरमाणत्वादेव न सूत्रं गुणयति, उपलक्षणत्वादर्थं च नानुप्रेक्षते; नैव प्रतिलेखनां वस्त्र-पात्रादेः करोति, अकालेऽविधिना वा करोति ॥ १७७२ ॥ एवमेते मार्गे गच्छतां दोषा अभिहिताः । अथ तत्र प्राप्तानां ये दोषास्तानभिधित्सुारगाथामाह चेइय आहाकम्म, उग्गमदोसा य सेह इत्थीओ। ... 20 नाडग संफासण तंतु खुड्ड निद्धम्मकजा य॥ १७७३ ॥ चैत्यानां स्वरूपं प्रथमतो वक्तव्यम् , तत आधाकर्म, तत उद्गमदोषाः, ततः शैक्षाणां पार्श्वस्थेषु गमनम् , ततः स्त्रीदर्शनसमुत्था दोषाः, ततो नाटकावलोकनप्रभवाः, ततः संस्पर्शनसमुत्थाः, तदनन्तरं तन्तवः-कोलिकजालं तद्विषयाः, तदनु "खुड्ड" ति पार्श्वस्थादिक्षुल्लकदर्शनसमुत्थाः, ततो निर्धर्मणां-लिङ्गिनां यानि कार्याणि तदुत्थिताश्च दोषा वक्तव्या इति द्वारगाथा-25 समासार्थः ॥ १७७३ ॥ अथैनामेव विवरीषुः प्रथमतश्चैत्यखरूपं व्याख्यातिसाहम्मियाण अट्ठा, चउन्विहे लिंगओ जह कुटुंबी। चैत्यद्वारम् मंगल-सासय-भत्तीइ जं कयं तत्थ आदेसो ॥ १७७४ ॥ चैत्यानि चतुर्विधानि, तद्यथा--साधर्मिकचैत्यानि मङ्गलचैत्यानि शाश्वतचैत्यानि भक्तिचैत्यानि चेति । तत्र साधर्मिकाणामर्थाय यत् कृतं तत् साधर्मिकचैत्यम् । साधर्मिकश्चात्र द्विधा- 30 १ पो गृह्यते, न पुन मो० ले० ॥ २ तदनन्तरं निर्धर्मकार्यप्रभवाश्च दोषा भा० ॥ ३°ख्यानयति का० ॥ ४ चैत्यं चतुर्विधम् , तद्यथा-साधर्मिकचैत्यं मङ्गलचैत्यं शाश्वतचैत्यं भक्तिचैत्यं चेति भा० कां ॥
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy