________________
५२२
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
10
पहाणा-ऽणुजाण माइसु, जतंति जह संपयं समोसरिया । सतसो सहसो वा, तह जिणकाले विसोहिंसु ॥। १७६९ ॥
'स्नानं ' इह वर्षान्तः प्रतिनियतदिवसभावी भगवत्प्रतिमायाः स्नात्रपर्वविशेषः, अनुयानं -रथयात्री, आदिशब्दात् कुल-गण- सङ्घकार्यपरिग्रहः, तेषु स्नाना-ऽनुयानादिषु सङ्घमीलकेषु साम्प्रतमपि 5 'शतशः ' शतसङ्ख्याः 'सहस्रशः' सहस्रसङ्ख्याः साधवः समवसृताः सन्तो यथा 'यतन्ते' आधाकर्मादिदोषैशोधनायां प्रयत्नं कुर्वते तथा जिनकालेऽपि ते भगवन्तः 'शोधितवन्तः ' एषणाशुद्धिं कृतवन्त इत्यर्थः ॥ १७६९ ॥ भूयोऽपि परः प्राह-- ननु च 'सर इव सागरः, खद्योत इव प्रद्योतनः, मृग इव मृगेन्द्रः' इत्यादिवदैदयुगीनसमवसरण सत्कमेषणाशुद्ध्युपमानं तीर्थकर - कालभाविनीमेषणाशुद्धिमुपमातुमभिधीयमानं हीनत्वान्न समीचीनम्, अंत आह
पञ्चक्खेण परोक्खं, साहिजइ नेव एस हीणुवमा ।
जं पुरिसजुगे तइए, वोच्छिन्नो सिद्धिमग्गो उ || १७७० ॥
ईं 'प्रत्यक्षेण' उपमानवस्तुना 'परोक्षम् ' उपमेयं वस्तु साक्षादनुपलभ्यमानमपि साध्यते इति शास्त्रे लोके च स्थितिः । तथाहि – खुर - ककुद - लाङ्गूल-सास्नाद्यवयवोपलक्षितमध्यक्षवीक्षितं गवादि वस्तु दृष्टान्ततयोपदर्श्य गवयादिकं परोक्षमपि प्रतीतिपथमारोप्यते । एवमत्रापि प्रत्यक्ष15 वीक्ष्यमाणेन साम्प्रतकालीनसमवसरणसत्केनैषणाशोधनेन परोक्षमपि तीर्थकर कालभाविसमवसरंणसाधूनामेषणाशोधनं साध्यते इति "नेव एस हीणुवम" त्ति न चेयं सर इव सागर इत्यादि - यद् हीनोपमा, तीर्थकरकालेऽपि हि सहस्रसङ्ख्या एव साधव एकत्र क्षेत्रे समवसरन्ति स्म, एतावन्तश्च ते साम्प्रतमपि स्नाना - sनुयानादौ पर्वणि समवसरन्त उपलभ्यन्ते शोधयन्तश्चैषणाम्, ततोऽनुमीयते तीर्थकरकालेऽप्येवमेव दोषान् शोधितवन्त इति । अपि च श्रीमन्महावीर -
१ 'त्रा, तदादिषु कार्येषु साम्प्रत तं० डे० कां० ॥ २ 'त् कल्याणकप्रभृति पर्व परिग्रहः भा० ॥ ३ पपरिहरणे प्रभा० ॥ ४ आह हीनत्वादयुक्तेयमुपमा, तथाहि - यथा 'चन्द्रमुखी दारिकेयम्' इत्यादौ चन्द्रादिकमुपमानं कलङ्कादिदूषिततया हीनत्वादयुज्यमानमवगम्यते, पचमैयु भा० ॥ ५ अत्रोच्यते भा० ॥
I
६. प्रत्यक्षं चक्षुषा वीक्ष्यमाणं यद् वस्तु तेन 'परोक्षं' साक्षादनुपलभ्यमानमपि 'साध्यते' समर्थ्यते प्रतीतिपथमुपनीयते इति यावत् । तथाहि यथा खुर-ककुदलाङ्गूलाद्यवयवोपलक्षितं प्रत्यक्ष गवादि वस्तु दृष्टान्ततयोपदर्श्य गवयादिकं परोक्षमपि साध्यते । एवमत्रापि प्रत्यक्षवीक्ष्यमाणेन साम्प्रतकालीनसमवसरण सत्केनैषणाशोधनेन परोक्षमपि तीर्थकरकालभाविसमवसरणसाधूनामेषणाशोधनं प्रतीतिपथमारोप्यते इति नैवेयं हीनोपमा, सहस्रसङ्ख्यानां साधूनामैदंयुगीनेऽपि समवसरणे सम्भवात् । अपि च श्रीमन्महावीरस्वामी वर्त्तमानतीर्थस्य प्रवर्त्तकः प्रथमं पुरुषयुगमभवत्, ततस्तदन्तेवासी श्रीसुधर्मस्वामी द्वितीयम्, तद्विनेयः श्रीजम्बूस्वामी तृतीयम्, एतानि त्रीणि पुरुष युगानि यावदनगाराणां निर्वाणपदवीगमनमभवत्, तृतीये च पुरुषयुगे निर्वृते सति सिद्धिमागों व्यवच्छिन्नः, तत ऊर्द्ध नानुवृत्त इति भावः । इह च सिद्धिमार्गः - केवलोत्पत्तिप्रभतिकः परिग्रद्यते न पनर्ज्ञान मा० ॥ ७ च व्यवस्थितिः.