________________
५२१
भाष्यगाथाः १७६३-६८] प्रथम उद्देशः । शुद्धः, शेषास्त्रयोऽप्यशुद्धाः। 'यद् वा' क्रीतकृत-स्थापितादिकं यत्र वस्त्रे पात्रे वा 'क्रमते' अवतरति तत् तत्र सम्यगुपयुज्य योजनीयम् । अत्र च तननं वितननं चाविशोधिकोटिः पायनं विशोधिकोटिरित्याचार्यस्य मतम् । परस्तु ब्रवीति-पायनमविशोधिकोटिः, कन्दादिजीवोपघातनिष्पन्नत्वात् ; तननं वितननं च विशोधिकोटिः, जीवोपघातस्यादृश्यमानत्वादिति । अत्र सूरिराह-नास्माकं जीवोपघातेनैवाधाकर्म किन्तु श्रमणार्थ वस्त्रादेयत् पर्यायान्तरनयनं तदप्या-5 धाकर्म मन्तव्यम् ॥ १७६५॥ अपि च
अत्तट्ठियतंतूहि, समण ततो अ पाइय वुतो अ । किं सो न होइ कम्मं, फासूण विपजिओं जो उ ॥ १७६६ ॥ जइ पजणं तु कम्मं, इतरमकम्मं स कप्पऊ धोओ।
अह धोओ वि न कप्पर, तणणं विणणं च तो कम्मं ॥ १७६७॥ 10 आत्मार्थिताः-स्वार्थ निष्पादिता ये तन्तवस्तैः श्रमणार्थ यः पटः ततः पायितो व्यूतश्च सः 'प्राशुकेनापि' खार्थमचित्तीकृतेन खलिकाद्रव्यसम्भारेण पायितः सन् किमाधाकर्म न भवति ? त्वदुक्तनीत्या भवतीति भावः ॥ १७६६ ॥
ततो यदि जीवोपघातनिष्पन्नत्वात् पायनमाधाकर्म 'इतरत्' तननं वितननं च 'अकर्म' न आधाकर्मेति तर्हि स पटो धौतः सन् कल्पतां भवतः, अपनीतपायनिकालेपत्वात् । अथ 15 ब्रवीथाः 'धौतोऽप्यसौ न कल्पते' ततस्तननं वितननं चार्थादाधाकर्म संवृत्तमिति सिद्धं नः समीहितम् ॥ १७६७॥ गतं "गच्छसइए अ कप्पे अंबिलभरिए अ ऊसित्ते" (गा० १६५८) इति द्वारम् । अथ “परिहरणा अणुजाणे" ( गा० १६५९)त्ति द्वारं व्याख्यानयति
चोअग जिणकालम्मि, किह परिहरणा जहेव अणुजाणे ।
अइगमणम्मि य पुच्छा, निकारण कारणे लहुगा ॥ १७६८॥ 20 नोदकः प्रश्नयति-यदि शतिकेप्वपि गच्छेषु साम्प्रतमित्थमाधाकर्मादयो दोषा जायन्ते तर्हि जिनः-तीर्थकरस्तस्य काले साहस्रेषु गच्छेषु साधवः कथमाधाकर्मादीनां परिहरणं कृतवन्तः ? इति । सूरिराह-यथैव 'अनुयाने' रथयात्रायां साम्प्रतमपि परिहरन्ति तथा पूर्वमपि परिहृतवन्तः । “अतिगमणम्मि य पुच्छ” ति शिप्यः पृच्छति-किमनुयाने 'अतिगमनं' प्रवेशनं कर्तव्यम् ? उत न ? इति । आचार्यः प्राह----"निकारण कारणे लहुग" ति निष्कारणे 25 यदि गच्छति तदा चत्वारो लघवः, कारणे यदि न गच्छति तदाऽपि चत्वारो लघवः ॥१७६८॥
अथैतदेव भावयति
१ "उभिन्नं उग्गमकोडी, निकोरितं विसोहिकोडी" इति चूर्णी विशेषचूर्णी च वर्तते ॥ ___ २ यदि संयतार्थ जीवोपघातनिष्पन्नत्वात् पायनमविशोधिकोटिरिष्यते तर्हि आत्मार्थिताः-स्वार्थ निष्पादिता ये तन्तवस्तैः श्रमणार्थ यः पटः ततः पायितो व्यूतश्च, कथं पायितः ? इत्याह-'प्राशुकेन' निर्जीवेन खलिकाद्रव्यसम्भारेण पायितः, स किं आधाकर्म न भवति ? भवत्येवेति भावः ॥ १७६६ ॥ तथा यदि पायनमेव तुशब्दस्यैवकारार्थत्वाद् आधाकर्म 'इतरत् भा० ॥