________________
५२० सनियुक्ति लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ त्रीणि विशोधिकोटयः, आधाकर्मिकं पुनरेकान्तेनाविशोधिकोटिः, आत्मार्थकृतं तु निरवद्यमेवेति ॥ १७६२ ॥
जं जीवजुयं भरणं, तदफासुं फासुयं तु तदभावा ।
तं पि य हु होइ कम्मं, न केवलं जीवधाएण ॥ १७६३ ॥ । यद् 'जीवयुतं' राजिकादिबीजसहितं भरणं तदप्राशुकम् । 'तदभावात्' राजिकादिीजाभावाद् यद् भरणं तत् प्राशुकम् । तदपि च निर्जीव भरणं 'हु' निश्चितं संयतार्थ क्रियमाणमाधाकर्म भवति, न केवलं 'जीवघातेन' राजिकादिवीजजन्तूपघातेन निष्पन्नमिति ॥ १७६३ ॥
____ अथोत्सिक्तपदं भावयतिउत्सित.
समणे घर पासंडे, जावंतिय अत्तणो य मुत्तूणं । पदस्यार्थः
छट्ठो नत्थि विकप्पो, उस्सिंचणमो जयट्ठाए ॥ १७६४ ॥ काञ्जिकस्य सौवीरिणीतो यद् निष्काशनं तद् उसिक्तम् । तच्च पञ्चधा-श्रमणार्थं साधूनामर्थायेत्यर्थः १ खगृहयतिमिश्रं २ पापण्डिमिश्रं ३ यावदर्थिकमिश्रं ४ आत्मार्थकृतम् ५ । एतान् पञ्च भेदान् मुक्त्वा अपरः षष्ठो विकल्पो नास्ति यदर्थमुत्सेचनं भवेत् । अत्र चात्मार्थ यद् गृहिभिरुत्सितं तदेव ग्रहीतुं कल्पते न शेषाणीति ॥ १७६४ ॥ 15 उक्त आहारविषयो विधिः । अथोपधिविषयं तमेवाह---
तत पाइयं वियं पि य, वत्थं एक्केकगस्स अट्ठाए ।
पाउम्भिन्न निकोरियं च जं जत्थ वा कमइ ॥ १७६५ ॥ वस्त्रमेकैकस्यार्थाय ततं पायितं विततं च वक्तव्यम् । तद्यथा-संयतार्थ ततं संयतार्थ पायितं संयतार्थमेव च विततं १ संयतार्थ ततं संयतार्थ पायितमात्मार्थ विततं २ संयतार्थ ततमात्मार्थ 20 पायितं संयतार्थ विततं ३ संयतार्थ ततमात्मार्थं पायितं आत्मार्थमेव विततम् ४, एवमात्मार्थततेनापि चत्वारो भङ्गा लभ्यन्ते, जाता अष्टौ भङ्गाः । अत्र चाष्टमो भङ्गः शुद्धः, त्रयाणामप्यास्मार्थ कृतत्वात् । एवं स्वगृहमिश्र-पाषण्डमिश्र-यावदर्थिकमिश्रेष्वपि द्रष्टव्यम् , सर्वत्रापि चाष्टमो भङ्गः शुद्धः, शेषास्तु सर्वेऽप्यशुद्धा इति । पात्रमप्युद्भिन्नं निष्कीर्णं चैवमेव वक्तव्यम् ।
तद्यथा-संयतार्थमुद्भिन्नं संयतार्थ चोत्कीर्ण १ संयतार्थमुद्भिन्नमात्मार्थमुत्कीर्ण २ आत्मार्थमु25 द्भिन्नं संयतार्थमुत्कीर्ण ३ आत्मार्थमुद्भिन्नम् आत्मार्थमेव चोत्कीर्णम् ४ । अत्र चतुर्थो भङ्गः
१ एतदनन्तरे भा० पुस्तके-अथ "जेण असुद्धा रसिणी भरणं वुभयं व तत्थ जाऽऽरुवण" (गा० १७५९) त्ति यदतिदेशेन प्रायश्चित्तमुक्तं तदेव व्यक्तीकुर्वन्नाह-इत्यवतरणं विधाय "तिन्नेव य चउगुरुगा.” इति १७६० गाथा तवृत्तिश्च वर्त्तते । वृत्तिश्चैवम्
त्रयश्चतुर्गुरवः त्रिषु आद्यस्थानेषु मन्तव्याः, तद्यथा-आधाकर्मणि खगृहमिश्रे पापण्डमिश्रे च । 'द्वयोः' यावदर्थिक क्रीतकृतयोश्चतुर्लघवः । भक्तपानपूतिकर्मणि गुरुको मासः । उपकरणपूतिकर्मणि तु लघुको मास इत्यनुक्तमपि द्रष्टव्यम् । 'अन्तिमः' आत्मार्थकृतलक्षणो भेदः 'शुद्धः' निरवद्यः । एतच्च सौवीरिणीरधिकृत्योक्तम् । एवमेव च एकैकस्यां रसिन्या यांनि सप्त सप्त आधार्मिकादीनि भरणानि तेष्वप्येतदेव प्रायश्चित्तं मन्तव्यम् ॥ उक्त आहारविषयो विधिः । अथोपधिविषयं तमेवाह-तत पाइयं० गाथा॥ .