________________
भाष्यगाथाः १७५७-६२] प्रथम उद्देशः । पानकमुसिक्तं तत्र लघुमासः । “कम्ममजीवे वि मुणिभरणे" त्ति यदजीवमपि-प्राशुकमपि मुनीनां हेतोर्भरणं क्रियते तदप्याधाकर्म मन्तव्यं परं विशोधिकोटिः ॥ १७५९ ॥ अथाधाकर्मादिभेदेप्वारोपणामाह
तिन्नेव य चउगुरुगा, दो लहुगा गुरुग अंतिमो सुद्धो ।
एमेव य भरणे वी, एक्कक्कीए उ रसिणीए ॥ १७६०॥ आधाकर्मणि स्वगृहमिश्रे पाषण्डमिश्रे च प्रत्येकं चतुर्गुरुकमिति त्रयश्चतुर्गुरवो भवन्ति । 'द्वयोः' यावदर्थिक-क्रीतकृतयोश्चतुर्लघवः । भक्तपानपूतिके गुरुमासः । उपकरणपूतिके लघुमास इत्यनुक्तमपि दृश्यम् । 'अन्तिमः' आत्मार्थकृतलक्षणो भेदः शुद्धः। एवमेकैकस्यां रसिन्यामुक्तम् । भरणेऽप्येकैकस्मिन्नेवमेव मन्तव्यम् ।। १७६० ॥ अथासामेवाम्लिनीनां मध्ये का विशोधिकोटिः ? का वा अविशोधिकोटिः ? इत्यादिचिन्तां चिकीर्षुराह
10 संजयकडे य देसे, अप्फासुग फासुगे य भरिए अ ।
अत्तकडे वि य ठविए, लहुगो आणाइणो चेव ॥ १७६१ ॥ संयतानेव केवलानाश्रित्य कृतं 'संयतकृतम्' आधाकर्म । “देसि" ति 'देशतः' एकदेशेन संयतादीनाश्रित्य कृतं देशकृतम् , स्वगृहमिश्रादिकमित्यर्थः । अप्राशुकेन प्राशुकेन वा संयतार्थ यद् भरणं तदप्याधाकर्म । “अत्तकडे वि य ठविए" त्ति आत्मार्थकृतायामम्लिन्यां यदात्मा) 15 भरणं तदपि यदि श्रमणार्थमुत्सिच्य बहिः स्थापयति तदा स्थापनादोष इति कृत्वा न ग्रहीतव्यम् । यदि गृह्णाति तदा लघुको मास आज्ञादयश्च दोषाः । एषा नियुक्तिगाथा ॥ १७६१॥ . अथैनामेव व्याख्यानयति
देसकडा मज्झपदा, आदिपदं अंतिमं च पत्तेयं । ___ उग्गमकोडी व भवे, विसोहिकोडी व जो देसो ॥ १७६२ ॥ 20 यानि 'मध्यपदानि' स्वगृहमिश्र-पाषण्डमिश्र-यावदर्थिकमिश्र-क्रीतकृत-पूतिकर्मलक्षणानि तानि देशकृतान्युच्यन्ते, देशतः खगृहाथ देशतस्तु साध्वाद्यर्थममीषां क्रियमाणत्वात् । यत् पुनः 'आदिपदम्' आधाकर्म 'अन्तिमपदं च' आत्मार्थकृतं तद् द्वितयमपि 'प्रत्येकं' एकपक्षविषयम् , केवलमेव साधुपक्षं खगृहपक्षं चोद्दिश्य प्रवृत्तत्वात् । अत्र च यः 'देशः' देशकृतः खगृहमिश्रादिको दोषः स उद्गमकोटिर्वा भवेत् , अविशोधिकोटिरित्यर्थः, विशोधिकोटिर्वा । तत्र 25 खगृहमिश्रं पाषण्डमिश्रं च नियमादविशोधिकोटी, पूतिकर्म यावदर्थिकमिश्रं क्रीतकृतं चेति एवं चेव ॥ इदाणिं एतेसिं अंबिलीणं का उग्गमकोडी ? का विसोधिकोडी ? एतं भण्णति--संजतकते य देसे. गाधा ॥” इति चूर्णो विशेषचूर्णी च।
भा० पुस्तके चूर्णौ च “तिन्नेव य चउगुरुगा.” इत्येषा १७६० तभी गाथा “समणे घर पासंडे." १७६४ गाथानन्तरं व्याख्याताऽस्ति । दृश्यतां पत्र ५२० टिप्पणी १। विशेषचूर्णी पुनरियं गाथा " जीवजुयं भरणं." १७६३ गाथानन्तरं व्याख्याता दृश्यते ॥
१ एतट्टीकापाठान्तरे दृश्यतां पत्र ५२० टिप्पणी १ मध्ये ॥ २ एषा पुरातना गाथा भा० का । "संजयकडे य० गाहा पुरातना" इति विशेषचूर्णिकृतः॥