SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ५१८ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १. 'शताग्रशः' शतसङ्ख्यापरिच्छिन्ना अपि भेदा मन्तव्याः ॥ १७५६ ॥ अथाधाकर्मिकभरणं भावयति मूलभरणं तु वीया, तहिं छम्मासा न कप्पए जाव । तिन्नि दिणा कड्डियए, चाउलउदए तहाऽऽयामे ॥ १७५७ ॥ 5 'मूलभरणं नाम' प्राशुकायामम्लिन्यां राजिकादीनि बीजानि संयतार्थं यत् प्रक्षिप्यन्ते तच्चाधाकर्मिकम् । अतस्तत्र यदन्यत् प्राशुकमपि क्षिप्यते तत् पण्मासान् यावन्न कल्पते परतस्तु कल्पते । अथ तस्या रसिन्याः सकाशात् तदाधाकर्मिकमाकर्षितं ततम्तस्मिन्नाकर्षिते 'चाउलोदगं' तन्दुलधावनं तथा 'आयामम्' अवस्रावणं यत् तत्र क्षिप्यते तत् त्रीन् दिनान् न कल्पते पूतिकर्मत्वात् , तत ऊर्दू कल्पते ॥ १७५७ ॥ अथ खगृहमिश्रादिभरणान्यतिदिशन्नाह10 ___ एमेव सघर-पासंडमीस जाव कीय-पूड-अत्तकडे । कय कीयकडे ठविए, तहेव वत्थाइणं गहणं ॥ १७५८ ॥ 'एवमेव' आधार्मिकभरणवत् स्वगृहमिश्रं पाषण्डमिश्रं यावदर्थिकमिश्रं क्रीतकृतं पूतिकर्म आत्मार्थकृतं च भरणं मन्तव्यम् । वस्त्रादिविषयमप्यतिदेशमाह--"कय” इत्यादि पश्चार्द्धम् । 'कृते' संयतार्थ निप्पादिते 'क्रीतकृते' मूल्येन गृहीते 'स्थापिते' साध्वर्थ निक्षिप्ते तथैव' पान15 कवद् वस्त्रादीनां ग्रहणं भावनीयम् । एतच्च पश्चार्द्धमुत्तरत्र भावयिप्यते ॥ १७५८ ।। अथानन्तरोक्तभङ्गकेषु प्रायश्चित्तमाह जेण असुद्धा रसिणी, भरणं वुभयं व तत्थ जाऽऽरुवणा । सुद्धभय लहूसित्ते, कम्ममजीवे वि मुणिभरणे ॥ १७५९ ॥ पूर्वोक्तभङ्गकेषु यत्र 'येन' आधाकर्मादिना दोषेणाशुद्धा रसिनी भरणं वा 'उभयं वा' 20 सौवीरिणी-भरणयुगं यत्र येन दोषेण दूषितं तत्र तदोपनिप्पन्ना या काचित् प्रत्येकं संयोगतो वा आरोपणा सा वक्ष्यमाणनीत्या वक्तव्या । तथा यत्र रसिनी भरणं चोभयमपि शुद्धं परं संयतार्थ १ काढीए, चाउलउदए रसवईए ता० ॥ २ युगलं यत्र भा० ॥ ३ आरोपणा सा सर्वाऽपि वक्तव्या । तत्र-आधाकर्मणि खगृहमिथे पाषण्डमिश्रे च चतुर्गुरु, उपकरणपूतिकर्मणि मासलघु, आहारपूतिकर्मणि मासगुरु, यावदर्थिकमि) क्रीतकृते च चतुर्लघु । तथा "सुद्धभय लहूसित्ते" त्ति यत्र रसिन्यपि शुद्धा [भरणमपि च शुद्ध ] परं संयतार्थ पानकमुत्सितं तत्र लघुमासः । “कम्ममजीवे वि मुणिभरणे" त्ति यदजीवमपि-प्राशुकमपि मुनीनां हेतोर्भरणं क्रियते तदाधाकर्मैव मन्तव्यम् । एवं तावत् तस्य गृहपतेराधाकर्मादिदोषेषु स्वयंकरणमाश्रित्य विधिरुक्तः, अथापरेणाधाकर्मादिदोपान् कारापयत इत्थमेव भङ्गकरचनादिकः सर्वोऽपि विधिः प्रतिपत्तव्य इति ॥ १७५९ ॥ अथासामेवाम्लिनीनां मध्ये का विशोधिकोटिः? का वा अविशोधिकोटिः ? इत्यादिचिन्तां चिकीर्षुराह-संजयकडे० गाथा भा० पुस्तके पाठः । ___ "जेण असुद्धा रसिणी भरणं वुभयं व तत्थ जाऽऽरुवणा तमुवयुजिउं जाणेज्जासि । 'सुद्धभय लहुस्सित्ते' त्ति जत्य रसणी सुद्धा भरणं पि सुद्धं संजतट्टाए उस्सित्तितं तत्थ · । 'कम्ममजीवे वि मुणिभरणे' त्ति फासुगेण वि भरणेणं संजतट्ठाए छूढेणं आधाकम्मियं भरणं विसोधिकोडी पुण, एवं ताव कते गिहिणा। अप्पणा कारविते वि.
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy