________________
प्रथम उद्देशः ।
५१७
भाष्यगाथाः १७५०-५६ ] इत्थं प्रत्येकं निर्ग्रन्थानेवाश्रित्याभिधीयमाने प्रतिषेधः कार्यः 'न कल्पते साधूनामित्थं विधीयमानम्' || १७५२ ॥ एवं प्रतिषिद्धेऽपि कोऽपि सप्त सौवीरिणीः स्थापयेत्, ताश्चैताः - आहाकम्मिय १ सघर२पासंडमीसए३ जाव४ की ५ पूई ६ अत्तकडे७ । एकेकम्मिय सत्त उ, कए य काराविए चैव ॥ १७५३ ॥ ‘आधाकर्मिका' साधूनामेवार्थाय कारिता १ 'स्वगृहयतिमिश्रा' गृहस्य साधूनां चार्थाय 5 निर्माता २ 'गृहपाण्डमिश्रा' गृहस्य पाषण्डिनां चार्थाय कारिता ३ 'यावदर्थिक मिश्रा तु' यावन्तः केचनागारिणः पाषण्डिनश्चागमिष्यन्ति तान् स्वगृहं चोद्दिश्य कृता ४ ' क्रीतकृता' साध्वर्थं मूल्येन गृहीता ५ ' पूतिकर्मिका' आधाकर्मिकमुधादिना पूरितच्छिद्रा ६ 'आत्मार्थकृता' स्वगृहार्थमेव स्थापिता ७ । एतासां सप्तानां सौवीरिणीनामेकैकस्यां सप्त सप्त भरणानि भवन्ति । सप्त च सप्तभिस्ताडिता एकोनपञ्चाशद् भवति । एषा च प्रत्येकं कृते कारापिते च 10 सम्भवति । ततो द्वाभ्यां गुण्यते जाता भेदानामष्टानवतिरिति ॥ १७५३ ॥
अथ सप्त भरणानि दर्शयति
सप्त सौवीरिण्यः तद्भेदाच
कम्म घरे पासंडे, जावंतिय कीय- पूइ - अतकडे |
भरणं सत्तविकप्पं, एक्केक्कीए उ रसिणीए ।। १७५४ ॥
आधाकर्मिकं १ स्वगृहयतिमिश्रं २ स्वगृहपाषण्डिमिश्रं ३ यावदर्थिकमिश्रं ४ क्रीतकृतं ५15 पूतिकर्मिकम् ६ आत्मार्थकृतं चेति ७ 'सप्तविकल्पं ' सप्तप्रकारं भरणमेकैकस्यां ' रसिन्यां' सौवीरिण्यां भवति ॥ १७५४ ॥ अथ किं सप्तैवाम्लिन्यो भवन्ति नाधिकाः ? इत्युच्यतेसत्तत्ति नवरि नेम्मं, उग्गमदोसा हवंति अन्ने वि ।
संजोगा कायव्वा, सत्तहि भरणेहिं रसिणीणं ॥ १७५५ ।।
सप्तेति यदुक्तं तद् 'नवरं' केवलं " नेम्मं" चिह्नम् - उपलक्षणं द्रष्टव्यम्, तेन 'उद्गमदोषाः ' 20 औद्देशिकादयः ‘अन्येऽपि’ यथासम्भवमत्र मन्तव्याः यैः प्रक्षिप्तैरभ्यधिका अप्यम्लिन्यो भवन्ति । अत्र च 'संयोगाः' भङ्गकाः कर्त्तव्याः सप्तभिर्भरणैः सप्तानामेव रसिनीनाम् । तद्यथा-आधाकर्मिका सौवीरिणी भरणमपि तस्यामाधाकर्मिकम् १ आधाकर्मिका सौवीरिणी भरणं खगृहयतिमिश्रम् २ एवं सौवीरिणी सैव भरणं तु पाषण्डिमिश्रं ३ यावदर्थिकमिश्र ४ क्रीतकृतं ५ पूर्ति - कर्मिकम् ६ आत्मार्थकृतम् ७ । एवं स्वगृहयति मिश्रादिष्वपि सौवीरणीषु प्रत्येकं सप्त सप्त 25 भरणानि योजनीयानि ॥ १७५५ ॥ ततश्च कियन्तो भङ्गका उत्तिष्ठन्ते ? इत्याह
जावया रसिणीओ, तावड़या चेव होंति भरणा वि ।
अउणापन्नं भेया, सयग्गसो यावि णेयव्वा ।। १७५६ ॥
‘यावत्यः' यावत्सङ्ख्याका रसिन्यः 'तावन्त्येव' तावत्सख्याकान्येव भवन्ति भरणानि । ततश्च यदा सप्ताम्लिन्यः सप्त च भरणानि गृह्यन्ते तदा एकोनपञ्चाशद् 'भेदा: ' भङ्गका भवन्ति । 30 अथान्यानप्युद्गमदोषान् प्रक्षिप्य बहुतराः सौवीरिण्यो बहुतराणि च भरणानि विवक्ष्यन्ते ततः
१ अत्र विशेषचूर्णिकृता " स्यान्मतिः - जहा अंबिलीओ सत्तण्ह वि परेण अत्थि किमेवं भरणं पि न ? इत्युच्यते" इत्यवतीर्य "समणे घर पासंडे ० " इति गाथा १७६४ व्याख्याताऽस्ति ॥