Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 330
________________ प्रथम उद्देशः । समणेहिं अभणतो, गिरिभणिओ अप्पणो व छंदेणं । मोतु अजाणग मीसे, गिव्हंति उ जाणगा साहू ॥१८४४ ॥ पुरःकर्मकारिणि प्रतिषिद्धे 'श्रमणैः ' साधुभिरभण्यमानो यद्यन्यो दाता गृहिणा केनापि भणित आत्मनो वा 'छन्देन' अभिप्रायेण ददाति तदा मुक्त्वा 'अज्ञान' अगीतार्थान् 'मिश्राँश्च' अगीतार्थमिश्रान् ‘ज्ञायकाः’ गीतार्थास्तद् द्रव्यमात्मार्थितं गृह्णन्ति ॥ १८४४ ॥ अथ किमर्थम- 5 गीतार्थेषु न गृह्यते ? इति सम्बन्धायातं प्रसजनाद्वारं विवृण्वन् तावदगीतार्थाभिप्रायमाहअम्हट्ठसमारद्धे, तद्दव्वऽण किह णु निद्दोसं । सविसन्नाहरणेणं, मुज्झइ एवं अजाणतो ।। १८४५ ।। अस्माकमर्थायाप्काये समारब्धे सति दायकेन यद् द्रव्यं गृहीतं तद् अन्येन दीयमानं कथं नु निर्दोषम् ? सदोषमेवेति भावः । कुतः ? इत्याह – 'सविषान्नाहरणेन ' सविषं यद् अन्नं 10 तद्दृष्टान्तेन । यथा हि वैरिणोऽर्थाय केनचिद् विषयुक्तं भक्तं कृतं तद् अन्येन दीयमानं किं सदोषं न भवति ? एवमस्मदर्थमुदकस्यारम्भं कृत्वा या भिक्षा गृहीता तां यद्यन्यो ददाति तदा किं दोषो न प्रसजति ? इति । एवमजानन्नगीतार्थो मुह्यति, न पुनर्भावयति, यथा--- -तद् अन्येन दीयमानं पुरः कर्मैव न भवति । यत एवमतोऽगीतार्थेषु मिश्रेषु वा परिहर्त्तव्यम् ॥ १८४५ ॥ गीतार्थेषु विधिमाह - 15 एगेण समारद्धे, अन्नो पुण जो तहिं सयं देइ । जइ जाणगा उ साहू, परिभोतुं जे सुहं होइ ॥ १८४६ ॥ एकेन पुरः कर्मणि समारब्धे यद्यन्यः स्वयं ददाति यदि च 'ज्ञायकाः ' गीतार्थाः साधवस्ततः परिभोक्तुं “जे” इति पादपूरणे सुखं भवति, परिभोक्तव्यं तदिति भावः || १८४६ ॥ अथवागीयत्थेसु वि भयणा, अन्नो अन्नं व तेण मत्तेणं । भाष्यगाथाः १८४१-४८] ५४१ 20 विप्परिणयम्मि कप्पर, ससिणिदउल पडिकुट्ठा || १८४७ ॥ गीतार्थेष्वपि भजना कार्या । कथम् ? इत्याह – 'अन्यः' पुरुषोऽन्यद् वा तद् वा द्रव्यं 'तेन' पुरः कर्मकृतेन मात्रकेण यदि ददाति तदा विपरिणतेऽप्काये आत्मार्थिते च सति कल्पते । यदि तु सस्निग्धमुदका वा दायकस्य पाणितलं भवति ततः प्रतिक्रुष्टा सा भिक्षा, न कल्पत इत्यर्थः ॥ १८४७ || अथ कल्पस्थिकाद्वारं व्याख्याति - I 25 तरुणी पिंडियाओ, कंदप्पा जइ करे पुरेकम्मं । पढम - विइयासु मोत्तुं, सेसे आवज चउलहुगा || १८४८ ॥ काश्चित् 'तरुण्यः' युवतयः 'पिण्डिताः ' एकत्र मिलिताः साधुं समायान्तं दृष्ट्वा परस्परं जल्पन्ति —‘एतेषां तावदेतदर्थं धौतेन हस्तेन मात्रकेण वा दीयमानं न कल्पते, अतः पश्यामस्तावदेनम्, अस्माभिः खलीकृतः किमेष करोति ?' इत्येकया तासां मध्यादुत्थाय पुरः कर्म 30 कृतम्, ततः साधुः प्रतिनिवर्त्तितुं लमः; द्वितीया त्रवीति - प्रतीक्षख भगवन् ! अहं ते दास्यामि; ततो भूयोऽप्यागतस्य तस्य तयाऽपि पुरःकर्म कृतम् ; ततः प्रतिनिवर्त्तमानं यदि तृतीया काचि १ र्था गृहन्ति || १८४४ ॥ गतम् " एकेन द्वितीयग्रहणे " इति द्वारम् । अथ किमर्थ भा० ॥

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400