Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 334
________________ भाप्यगाथाः १८५७-६५] प्रथम उद्देशः । परः प्राह का भयणा जइ कारणि, जयणाएँ अकप्प किंचि पडिसेवे। तो सुद्धो इहरा पुण, न सुज्झए दप्पओ सेवं ॥ १८६१॥ का पुनः ‘भजना ?' विकल्पना ? । सूरिराह—कारणे यतनया पुरःकर्मादि किश्चिदकल्प्यं यदि प्रतिसेवेत ततः शुद्धः । 'इतरथा पुनः' अयतनया दर्पतो वा सेवमानो न शुध्यति । ॥ १८६१ ॥ अथ पुरःकर्मवर्जने कारणमुपदर्शयति समणुन्नापरिसंकी, अवि य पसंगं गिहीण वारिता । गिण्हंति असढभावा, सुविसुद्धं एसियं समणा ॥ १८६२ ॥ सैमनुज्ञा नाम-पुरःकर्मकृतं गृह्णतामप्कायविराधनानुमतिस्तत्परिशङ्किनः-तद्दोषभीताः पुरःकर्म परिहरन्ति । अपि च यदि पुरःकर्मकृतां भिक्षां ग्रहीप्यामस्ततो गृहिणां भूयः पुरःकर्म-10 करणे प्रसङ्गो भवति अतस्तं 'वारयन्तः' तदग्रहणेनार्थात् प्रतिषेधयन्तोऽशठभावाः सन्तः श्रमणाः सुविशुद्धमेषणीयं गृह्णन्ति ॥ १८६२ ।। अथ हस्तद्वारं विवृणोति किं उवघातो हत्थे, मत्ते दव्वे उदाहु उदगम्मि । - तिनि वि ठाणा सुद्धा, उदगम्मि अणेसणा भणिया ॥ १८६३ ॥ शिष्यः प्रश्नयति-पुरःकर्मणि कृते किं हस्ते 'उपघातः' अनेषणीयता ? उत मात्रके ? 15 आहोश्चिद् द्रव्ये ? उताहो उदके ? । सूरिराह-हस्त-मात्रक-द्रव्याणि त्रीण्यपि स्थानानि 'शुद्धानि' नैतान्यनेषणीयानि, किन्तूदकेऽनेषणीयता भणिता ॥ १८६३ ॥ अत्रैवोपपत्तिमाह जम्हा तु हत्थ-मत्तेहिं कप्पती तेहिं चेव तं दव्वं । अत्तद्विय परिभुत्तं, परिणत तम्हा दगमणेसि ॥ १८६४ ॥ यस्मात् ताभ्यामेव हस्त-मात्रकाभ्यां तदेव द्रव्यमात्मार्थितं सत् परिभुक्तशेष वा परिणतेऽ-20 प्काये कल्पते, तस्मादुदकमेवानेषणीयं न हस्त-मात्रक-द्रव्याणीति ॥ १८६४ ॥ एवमशनादिविषयो विधिरुक्तः । सम्प्रति नियुक्तिगाथया वस्त्रविषयं तमेवाह किं उवघातो धोए, रत्ते चोक्खे सुइम्मि व कयम्मि। अत्तट्ठिय-संकामियगहणं गीयत्थसंविग्गे ॥ १८६५ ॥ 'धोतं' मलिनं सत् प्रक्षालितम् , रक्तं' धातुप्रभृतिभिर्द्रव्यै रक्तीकृतम् , 'चोक्खं' रजकपा - 25 दतीवोज्वलं कारितम् , 'शुचिकम्' अशुच्यादिनोपलिप्तं सत् पवित्रीकृतम् , एतानि साध्वर्थ वस्त्रे कृतानि भवेयुः । ततश्च शिष्यः पृच्छति-किं धौते उपघातः ? उत रक्ते ? उताहो चोक्खे ? आहोश्चित् शुचीकृते ? । अत्रापि तदेव निर्वचनम् , नैतेषां चतुर्णामेकतरस्मिन्नप्युपघातः, किन्तूदक एव । यत एतदपि साधुना प्रतिषिद्धं सद् यद्यात्मार्थितं सामितं वा अन्यस्मै १ कारणे पुरःकर्मादिकमासेवमानः शुध्यति । निष्कारणे अयतनया वा सेवमानो भा० ॥ २ समनुज्ञां परिशङ्कितुं शीलमेषां ते समनुज्ञापरिशकिना, 'मा भूदस्माकं पुरःकर्मकृतं गृह्णतामनुमतिदोपः' इत्याशय परिहरन्तीति भावः । तथा यदि पुरकर्म° भा० ॥ ३°ति वस्त्र मो० ले० विना ॥

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400