Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 340
________________ भाप्यगाथाः १८८३-८९] प्रथम उद्देशः । ५५१ इत्यमुपालभ्य चतुर्गुरुकारोपणां सविस्तरां' परितापनादिप्रायश्चित्तविस्तरयुक्तां तस्य प्रयच्छन्ति ॥ १८८३ ॥ १८८४ ॥ गतमिच्छाकारद्वारम् । अथाशक्तद्वारमाह किं काहामि वराओ, अहं खु ओमाणकारओ होहं ।। ___ एवं तत्थ भणते, चाउम्मासा भवे गुरुगा ॥ १८८५ ॥ कोऽपि साधुः कुल-गण-सङ्घस्थविरैस्तथैव पृष्टः प्राह-क्षमाश्रमणाः! लोके यः सर्वथा । अशक्तः-पङ्गुप्रायः स वराक उच्यते, सोऽहं वराकस्तादृशस्तत्र गतः किं करिष्यामि ? नवरमहं तत्र प्राप्तोऽवमानकारको भविप्यामि । एवं तत्र स्थविराणां पुरतो भणतस्तस्य चतुर्मासा गुरखो भवन्ति ।। १८८५ ॥ स च स्थविरैरित्थमभिधातव्य: उव्वत्त-खेल-संथार-जग्गणे पीस-भाणधरणे य । तस्स पडिजग्गयाण व, पडिलेहेङ पि सि असत्तो ॥ १८८६ ॥ 10 आर्य ! किं ग्लानस्योद्वर्तनमपि कर्तुं न शक्नोषि ? एवं खेलमल्लकस्य भस्मना भरणं भस्मपरिष्ठापनं वा संस्तारकस्य रचनं जागरणं-रात्री प्रहरकप्रदानं पेषणम्-औषधीनां चूर्णनं भाणधरणं-सपान-भोजनभाजनानां धारणं 'तस्य' ग्लानस्य प्रतिजागरकाणां वा साधूनामुपधिमपि प्रत्युपेक्षितुमशक्तः ? येनेदं ब्रवीषि-किं करिष्यामि वराकोऽहम् ? इति ॥ १८८६ ॥ अथ सुखितद्वारमाह 15 सुहिया मो ति य भणती, अच्छह वीसत्थया सुहं सव्वे । ‘एवं तत्थ भणंते, पायच्छित्तं भवे तिविहं ॥ १८८७ ॥ एकत्र क्षेत्रे मासकल्पस्थितैः साधुभिः श्रुतम्-अमुकत्र ग्लान इति । तत्र केऽपि साधवो भणन्ति-ग्लानं प्रतिजागरका व्रजामो वयम् । इतरः कोऽपि भणति-सुखितानस्मान् दुःखितान् कुरुत, यूयमपि सर्वे 'विश्वस्ताः' निरुद्विमाः 'सुखं' सुखेन तिष्ठत, किं तत्र गत्वा मुधैव 20 दुःखस्यात्मानं प्रयच्छामः ? किं युष्माकमयं श्लोको न कर्णकोटरमुपागमत् ? । यथा-: सर्वस्य सर्वकारी, स्वार्थविघाती परस्य हितकारी। सर्वस्य च विश्वासी, मूर्यो यो नाम विज्ञेयः ॥ एवं तत्र तस्य भणतस्त्रिविधं प्रायश्चित्तं भवति । तद्यथा-यद्याचार्य एवं ब्रवीति ततश्चतुर्गुरु, उपाध्यायो ब्रवीति चतुर्लघु, भिक्षुब्रवीति मासगुरु ॥ १८८७ ॥ अथावमानद्वारमाह- 25 भत्तादिसंकिलेसो, अवस्स अम्हे वि तत्थ न तरामो । काहिंति केत्तियाणं, तेणं चिय तेसु अद्दना ॥ १८८८ ।। अम्हेहिँ तहिं गएहि, ओमाणं उग्गमाइणो दोसा। एवं तत्थ भणते, चाउम्मासा भवे गुरुगा ।। १८८९ ॥ तथैव ग्लानं श्रुत्वा केचिद् भणन्ति-ब्रजामो ग्लानप्रतिजागरणार्थम् । अपरे ब्रुवते--30 तत्राऽन्येऽपि ग्लानं श्रुत्वा बहवः प्रतिचारकाः समायाता भविष्यन्ति ततो महान् भक्त-पानादि १°लन्धे यदि प्रत्यावर्तते तदा चतु° भा० ॥ २ °पि जूते-सु° भा० ॥ ३ मूर्यो यो नाम भा० कां० चूर्णौ च विना ॥

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400