________________
भाप्यगाथाः १८८३-८९] प्रथम उद्देशः ।
५५१ इत्यमुपालभ्य चतुर्गुरुकारोपणां सविस्तरां' परितापनादिप्रायश्चित्तविस्तरयुक्तां तस्य प्रयच्छन्ति ॥ १८८३ ॥ १८८४ ॥ गतमिच्छाकारद्वारम् । अथाशक्तद्वारमाह
किं काहामि वराओ, अहं खु ओमाणकारओ होहं ।। ___ एवं तत्थ भणते, चाउम्मासा भवे गुरुगा ॥ १८८५ ॥ कोऽपि साधुः कुल-गण-सङ्घस्थविरैस्तथैव पृष्टः प्राह-क्षमाश्रमणाः! लोके यः सर्वथा । अशक्तः-पङ्गुप्रायः स वराक उच्यते, सोऽहं वराकस्तादृशस्तत्र गतः किं करिष्यामि ? नवरमहं तत्र प्राप्तोऽवमानकारको भविप्यामि । एवं तत्र स्थविराणां पुरतो भणतस्तस्य चतुर्मासा गुरखो भवन्ति ।। १८८५ ॥ स च स्थविरैरित्थमभिधातव्य:
उव्वत्त-खेल-संथार-जग्गणे पीस-भाणधरणे य ।
तस्स पडिजग्गयाण व, पडिलेहेङ पि सि असत्तो ॥ १८८६ ॥ 10 आर्य ! किं ग्लानस्योद्वर्तनमपि कर्तुं न शक्नोषि ? एवं खेलमल्लकस्य भस्मना भरणं भस्मपरिष्ठापनं वा संस्तारकस्य रचनं जागरणं-रात्री प्रहरकप्रदानं पेषणम्-औषधीनां चूर्णनं भाणधरणं-सपान-भोजनभाजनानां धारणं 'तस्य' ग्लानस्य प्रतिजागरकाणां वा साधूनामुपधिमपि प्रत्युपेक्षितुमशक्तः ? येनेदं ब्रवीषि-किं करिष्यामि वराकोऽहम् ? इति ॥ १८८६ ॥ अथ सुखितद्वारमाह
15 सुहिया मो ति य भणती, अच्छह वीसत्थया सुहं सव्वे ।
‘एवं तत्थ भणंते, पायच्छित्तं भवे तिविहं ॥ १८८७ ॥ एकत्र क्षेत्रे मासकल्पस्थितैः साधुभिः श्रुतम्-अमुकत्र ग्लान इति । तत्र केऽपि साधवो भणन्ति-ग्लानं प्रतिजागरका व्रजामो वयम् । इतरः कोऽपि भणति-सुखितानस्मान् दुःखितान् कुरुत, यूयमपि सर्वे 'विश्वस्ताः' निरुद्विमाः 'सुखं' सुखेन तिष्ठत, किं तत्र गत्वा मुधैव 20 दुःखस्यात्मानं प्रयच्छामः ? किं युष्माकमयं श्लोको न कर्णकोटरमुपागमत् ? । यथा-:
सर्वस्य सर्वकारी, स्वार्थविघाती परस्य हितकारी।
सर्वस्य च विश्वासी, मूर्यो यो नाम विज्ञेयः ॥ एवं तत्र तस्य भणतस्त्रिविधं प्रायश्चित्तं भवति । तद्यथा-यद्याचार्य एवं ब्रवीति ततश्चतुर्गुरु, उपाध्यायो ब्रवीति चतुर्लघु, भिक्षुब्रवीति मासगुरु ॥ १८८७ ॥ अथावमानद्वारमाह- 25
भत्तादिसंकिलेसो, अवस्स अम्हे वि तत्थ न तरामो । काहिंति केत्तियाणं, तेणं चिय तेसु अद्दना ॥ १८८८ ।। अम्हेहिँ तहिं गएहि, ओमाणं उग्गमाइणो दोसा।
एवं तत्थ भणते, चाउम्मासा भवे गुरुगा ।। १८८९ ॥ तथैव ग्लानं श्रुत्वा केचिद् भणन्ति-ब्रजामो ग्लानप्रतिजागरणार्थम् । अपरे ब्रुवते--30 तत्राऽन्येऽपि ग्लानं श्रुत्वा बहवः प्रतिचारकाः समायाता भविष्यन्ति ततो महान् भक्त-पानादि
१°लन्धे यदि प्रत्यावर्तते तदा चतु° भा० ॥ २ °पि जूते-सु° भा० ॥ ३ मूर्यो यो नाम भा० कां० चूर्णौ च विना ॥