________________
५५०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ संस्तरन्ति नागन्तुकाः १ आगन्तुकाः संस्तरन्ति न वास्तव्याः २ न वास्तव्या न चागन्तुकाः संस्तरन्ति ३ वास्तव्या अप्यागन्तुका अपि संस्तरन्ति ४ । तत्र यत्र द्वयेऽपि संस्तरन्ति तत्र विधिः प्रागेवोक्तः । यत्र तु न संस्तरन्ति तत्रायं विधिः-प्रथमभङ्गे आगन्तुकानां द्वितीयभङ्गे वास्तव्यानामढे वा यावन्तो वा न संस्तरन्ति तावन्तो निर्गच्छन्ति, तृतीयभङ्गे द्वयोरपि वर्गयोराः 5 सर्वे वा ग्लानं सप्रतिचरकं मुक्त्वा निर्गच्छन्ति । एवं भिक्षाया वसतेश्च 'असति' अभावे निर्गमनं द्रष्टव्यम् । के पुनस्तत्र ग्लानसन्निधौ स्थापनीयाः ? इत्याह-'तस्य' ग्लानस्य ये 'अनुमताः' अभिप्रेतास्तान् प्रतिचरकान् ग्लानस्य समीपे स्थापयेत् ॥ १८८२ ॥ गतं श्रद्धावानिति द्वारम् । अथेच्छाकारद्वारमाह
अभणितों कोइ न इच्छइ, पत्ते थेरेहिँ होउवालंभो । दिटुंतों महिड्डीए, सवित्थरारोवणं कुजा ॥ १८८३ ॥ बहुसो पुच्छिजंता, इच्छाकारं न ते मम करिति ।
पेडिमुंडणा य दुक्खं, दुक्खं च सलाहिउं अप्पा ॥ १८८४ ॥ कोऽपि साधुर्वैयावृत्त्यकुशलः, परमन्येन 'अभणितः' 'आर्य ! एहि इच्छाकारेण म्लानस्य वैयावृत्त्यं कुरु' इत्यनुक्तः सन् नेच्छति वैयावृत्त्यं कर्तुम् , स च श्रुत्वाऽपि ग्लानं न तस्य समीप 15 गतः । कुल-गण-सङ्घस्थविराश्च ये कारणभूताः पुरुषाः 'कुत्र सामाचार्यः सीदन्ति ? कुत्र चोत्सपन्ति ?' इति प्रतिचरणाय गच्छान्तरेषु पर्यटन्ति ते तत्र प्राप्ताः, तैश्च स पृष्टः-आर्य ! उत्सर्पन्ति ते ज्ञान-दर्शन-चारित्राणि ? सन्ति वा केचित् प्रत्यासन्नपरिसरे साधवो ग्लानो वा कुत्रापि भवता श्रुतः ? इति । स प्राह-इतः प्रत्यासन्न एव ग्रामे सन्ति साधवः, तेषां चास्त्येको ग्लान इति । ततस्तैस्तस्योपालम्भः प्रदत्तः—यदि तेषां ग्लानो वर्तते ततस्त्वं तस्य प्रतिचरणाय 20 किं न गतः ? । स प्राह--'बहुशः' भूयो भूयः पृच्छ्यमाना अपि ते साधवः कदापि ममेच्छा
कारं न कुर्वन्ति, अन्यच्च अहमनभ्यर्थितस्तत्र गतः, तैश्च प्रतिमुण्डितः-निषिद्धः, यथा--पूर्ण भवता वैयावृत्त्यकरेणेति, एवं प्रतिमुण्डनया महद् मानसं दुःखमुत्पद्यते, 'यादृशं चाहं ग्लानस्य वैयावृत्त्यं करोमि ईदृशमन्यः कोऽपि न वेत्ति' एवमात्मानं श्लाषितुं 'दुःखं' दुष्करं भवति,
अतः कथमनभ्यर्थितस्तत्र गच्छामि ? इति । 25 ततः स्थविरैस्तस्य पुरतो महर्द्धिको राजा तस्य दृष्टान्तः कृतः । यथा___ एगो राया कत्तियपुन्निमाए मरुयाणं दाणं देइ । एगो मरुगो चोद्दसविजाठाणपारगो भोइयाए भणिओ-तुम सबमरुगाहिवो, वच्च रायसमीवं, उत्तमं ते दाणं दाहिइ त्ति । सो मरुओ भणाइ–एगं ताव रायकिविसं गिण्हामि, बिइयं अणिमंतिओ गच्छामि, जइ से पिति-पितामहस्स अणुग्गहेण पओअणं तो मं आगंतुं तत्थ नेहिइ, इह ठियस्स वा मे दाहिइ । भोइयाए 30 भणिओ-तस्स अत्थि बहू मरुगा तुज्झ सरिच्छा अणुग्गहकारिणो, जइ अप्पणो तद्दविणेण
कजं तो गच्छ । जहा सो मरुओ अब्भत्थणं मग्गंतो इहलोइयाणं कामभोगाणं अणाभागी जाओ, एवं तुम पि अब्भत्थणं मग्गंतो निज्जरालाहस्स अणाभागी भविस्ससि ॥ १°म् । ये च 'तस्य' ग्लानस्य 'अनु मो० ले० विना ॥ २ परिगुंडणा ता० ॥