________________
10
15
भाष्यगाथाः १८७५-८२] प्रथम उद्देशः ।
५४९ सकलमपि वैयावृत्त्यं कुर्वाणाः स्म इति ॥ १८७७ ॥ १८७८ ॥ __ अथ ते न प्रभवन्ति यदि वाऽसावेवंविधगुणोपेतो वर्तते
'संजोगदिदुपाढी, तेणुवलद्धा व दव्यसंजोगा।
सत्थं व तेणऽधीयं, वेजो वा सो पुरा आसि ॥ १८७९ ॥ संयोगाः-औषधद्रव्यमीलनप्रयोगास्तद्विषयो दृष्टः पाठः-चिकित्साशास्त्रावयवविशेषो येन स संयोगदृष्टपाठः, आर्षत्वाद. गाथायामिन्प्रत्ययः, यदि वा तेन द्रव्यसंयोगाः कुतोऽपि सातिशयज्ञानविशेषादुपलब्धाः, 'शास्त्रं वा' चरक-सुश्रुतादिकं सकलमपि तेनाधीतम् , वैद्यो वा सः 'पुरा' पूर्व गृहाश्रम आसीत् , ततो न विसर्जनीयः ॥ १८७९ ॥
अत्थि य से योगवाही, गेलन्नतिगिच्छणाएँ सो कुसलो ।
सीसे वावारेत्ता, तेगिच्छं तेण कायव्वं ॥ १८८० ॥ यदि 'तस्य' आगन्तुकस्य गच्छे योगवाहिनः सन्ति, स च स्वयं ग्लान्यचिकित्सायां कुशलः, ततः शिष्यान् सूत्रार्थपौरुपीप्रदानादौ व्यापार्य स्वयं तेन ग्लानस्य 'चैकित्स्य चिकित्साकर्म कर्तव्यम् । उपलक्षणमिदम् , तेन कुल-गण-सङ्घप्रयोजनेषु गुरुकार्यप्रेषणे वस्त्र-पात्राद्युत्पादने वा यो यत्र योग्यस्तं तत्र व्यापार्य सर्वप्रयत्नेन खयं ग्लानस्य चिकित्साकर्म कर्त्तव्यम् ॥ १८८० ॥ सूत्रार्थपौरुषीव्यापारणे विधिमाह
दाऊणं वा गच्छइ, सीसेण व वायएहि वा वाए ।
तत्थऽनत्थ व काले, सोहिए सव्वुद्दिसइ हटे ॥ १८८१॥ सूत्रार्थपौरुप्यौ दत्त्वा ग्लानस्य समीपं गच्छति, गत्वा च चिकित्सां करोति । अथ दूरे ग्लानस्य प्रतिश्रयस्ततः सूत्रपौरुषीं दत्त्वा अर्थपौरुषी शिष्येण दापयति । अथ दवीयान् स प्रतिश्रयस्ततो द्वे अपि पौरुष्यौ शिष्येण दापयति । अथात्मीयः शिष्यो वाचनां दातुमशक्तस्ततो 20 येषां वाचकानाम्-आचार्याणां स ग्लानस्तैः सूत्रमर्थ वा खशिष्यान् वाचयति । अथ तेषामपि नास्ति वाचनाप्रदाने शक्तिस्ततो यदि तेऽनागाढयोगवाहिनस्तदा तेषां योगो निक्षिप्यते । (ग्रन्थानम्-२००० । सर्वग्रन्थानम्-१४२२०) अथागाढयोगवाहिनस्ततोऽयं विधिः"तत्थऽन्नत्थ व" इत्यादि । यत्र क्षेत्रे स ग्लानस्तत्रान्यत्र वा क्षेत्रे स्थितास्ते आगाढयोगवाहिन आचार्येण वक्तव्याः, यथा--आर्याः ! कालं शोधयत । ततस्तैर्यथावत् कालग्रहणं कृत्वा यावतो 25. दिवसान् कालः शोधितस्तावतां दिवसानामुद्देशनकालान् सर्वानप्याचार्यो ग्लाने 'हृष्टे' प्रगुणीभूते सति एकदिवसेनैवोद्दिशति, यावन्ति पुनर्दिनानि कालग्रहणे प्रमादः कृतो गृह्यमाणे वा कालो न शुद्धः तेषामुद्देशनकाला न उद्दिश्यन्ते ॥ १८८१ ॥ तत्र क्षेत्रे संस्तरणाभावेऽन्यत्र गच्छतां विधिमाह
निग्गमणे चउभंगो, अद्धा सव्वे वि निंति दोण्हं पि।
भिक्ख-चसहीइ असती, तस्साणुमए ठविजा उ ॥ १८८२ ॥ ततः क्षेत्राद् निर्गमने चतुर्भङ्गी भवति । गाथायां पुंस्त्वनिर्देशः प्राकृतत्वात् । वास्तव्याः, १ गाथेयं चूर्णी विशेषचूर्णौ च "अत्थि य.” गाथानन्तरं वर्तते ॥ २ ग्लानचि° मो० ले० विना ॥
30