________________
10
५१८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ ततोऽनुवर्तना ग्लानस्य उपलक्षणत्वाद् वैद्यस्य च वक्तव्या, ततश्चालना सङ्क्रामणा च ग्लानस्याभिधातव्येति द्वारगाथासमुदायार्थः ॥ १८७४ ॥ अथावयवार्थ प्रतिद्वारं प्रचिकटयिषुः “यथोद्देशं निर्देशः" इति वचनात् प्रथमतः शुद्धद्वारं भावयति. सोऊण ऊ गिलाणं, जो उवयारेण आगओ सुद्धो ।
जो उ उवेहं कुजा, लग्गइ गुरुए सवित्थारे ॥ १८७५ ॥ श्रुत्वा ग्लानं यः' साधुः 'उपचारेण' वक्ष्यमाणलक्षणेन ग्लानसमीपमागतः सः 'शुद्धः' न प्रायश्चित्तभाक् । यस्तूपेक्षां कुर्यात् सः 'लगति' प्राप्नोति चतुरो गुरुकान् 'सविस्तरान्' ग्लानारोपणासंयुक्तान् ॥ १८७५ ॥ उपचारपदं व्याचष्टे
उवचरइ को णतिन्नो, अहवा उवचारमित्तगं एइ ।
उवचरइ व कजत्थी, पच्छित्तं वा विसोहेइ ॥ १८७६ ॥ - यत्र ग्लानो वर्त्तते तत्र गत्वा पृच्छति-"को णऽतिन्नो" ति द्वितीयार्थे प्रथमा, 'नुः' इति प्रश्ने, युष्माकं मध्ये 'अतिन्नं' ग्लानं 'क उपचरति ?' कः प्रतिजागर्ति?; यद्वा धातूनामनेकार्थत्वाद् 'उपचरति' पृच्छति-को नु युप्माकं मध्ये "अतिण्णो ?" ग्लानो येनाहं तं प्रतिजा
गर्मि ? । अथवा 'उपचारमानं' लोकोपचारमेव केवलमनुवर्तयितुं ग्लानसमीपम् 'एति' आगच्छति। 15 यदि वा कार्यार्थी सन्नुपचरति । किमुक्तं भवति ?-कार्य किमपि ज्ञान-दर्शनादिकं तत्स
मीपादीहमानः प्रतिजागर्ति । 'प्रायश्चित्तं वा मे भविष्यति यदि न गमिप्यामि' इति विचिन्त्यागत्य च प्रायश्चित्तं विशोधयति । एष सर्वोऽप्युपचारो द्रष्टव्यः ॥ १८७६ ॥ अथ श्रद्धावानिति द्वारमाह
सोऊण ऊ गिलाणं, तूरंतो आगओ दवदवस्स । संदिसह किं करेमी, कम्मि व अट्टे निउजामि ॥ १८७७ ॥ पडिचरिहामि गिलाणं, गेलने वावडाण वा काहं ।
तित्थाणुसज्जणा खलु, भत्ती य कया हवइ एवं ॥ १८७८ ॥ 'ग्लानं प्रतिजाप्रदहं महतीं निर्जरामासादयिप्यामि' इत्येवंविधया धर्मश्रद्धया युक्तः श्रद्धावानुच्यते । स च श्रुत्वा ग्लानं 'स्वरमाणः' श्रवणानन्तरं शेषकार्याणि विहाय पन्थानं प्रतिपन्नः ॐ सन् “दवदवस" ति द्रुतं द्रुतं गच्छन् झगिति ग्लानसमीपमागतस्ततो ग्लानप्रतिचारकानाचा
र्यान् वा गत्वा भणति—सन्दिशत भगवन्तः ! किं करोम्यहं ? कस्मिन् वा 'अर्थे' ग्लानसम्बन्धिनि प्रयोजने युष्माभिरहं नियोज्ये ?, अहं तावदनेनाभिप्रायेणायातः, यथा-प्रतिजागरिप्यामि ग्लानं ग्लानवैयावृत्त्ये वा व्यापृता ये साधवस्तेषां भक्त-पानप्रदान-विश्रामणादिना वैया
वृत्त्यं करिष्यामि । एवंकुर्वता तीर्थस्यानुसजना-अनुवर्तना कृता भवति, भक्तिश्च भगवतां 30 तीर्थकृतां कृता भवति, “जे गिलाणं पडियरइ से ममं णाणेणं दंसणेणं चरित्तेणं पडिवज्जइ"
(भगवतीसूत्र श० पत्र ) इत्यादिभगवदाज्ञाऽऽराधनात् । इत्थं तेनोक्ते यदि ते खयमेव ग्लानवैयावृत्त्यं कर्तुं प्रभवन्ति ततो ब्रुवते-आर्य ! बजतु यथास्थानं भवान् , वयं ग्लानस्य
१°षुः प्रथ° त. डे० का० ॥ २ °माणेन ग्ला त० डे० कां ॥
90