________________
भाष्यगाथाः १८६६-७४] प्रथम उद्देशः ।
५४७ वा प्रक्षालयति । ततो द्वितीयादिषु समेषु भङ्गेषु पश्चात्कर्मसम्भवान्न कल्पते, प्रथमादिषु तु भङ्गेषु तदसम्भवात् कल्पते ग्रहीतुमिति । यदि चैतेष्वपि यद् 'अलेपकृतं' सक्तु-मण्डकादि यच्च 'शुष्कं' गुडपिण्डकादि तयोर्निरवशेषयोरपि ग्रहणं कल्पते ॥ १८६९ ॥ उक्तं सप्रसङ्गं पुरःकर्मद्वारम् । अथ ग्लान्यद्वारं बिभावयिषुराह-- सग्गामे सउवसए, सग्गामे परउवस्सए चेव ।
ग्लान्यखेत्तंतों अन्नगामे, खेत्तबहि सगच्छ परगच्छे ॥१८७० ॥
द्वारम् सोऊण ऊ गिलाणं, उम्मग्गं गच्छ पडिवहं वा वि।
मग्गाओ वा मग्गं, संकमई आणमाईणि ॥ १८७१ ॥ खग्रामे खोपाश्रये तिष्ठता श्रुतम् , यथा--अमुकत्र ग्लान इति, खग्रामे वा परेषां-साधनामुपाश्रये कुतोऽपि प्रयोजनादायातेन, यद्वा क्षेत्रान्तः' क्षेत्राभ्यन्तरे अन्यनामे भिक्षार्चर्या गतेन, यदि 10 वा क्षेत्रबहिरन्यग्रामे पथि वा वर्तमानेन एतेषु स्थानेषु खगच्छे वा परगच्छे वा ग्लानः श्रुतो भवेत् , श्रुत्वा च ग्लानं यः 'उन्मार्गम्' अटवीगामिनं पन्थानं 'प्रतिपथं वा' येन पथा आयातस्तमेव पन्थानं गच्छति ‘मार्गाद्वा' विवक्षितपथादन्यमार्ग सङ्क्रामति स प्राप्नोति आज्ञादीनि दोषपदानि, आदिशब्दादनवस्था-मिथ्यात्व-विराधनापरिग्रहः । एवंकुर्वाणस्य चास्य यद ग्लानोऽप्रतिजागरितः परितापनादिकं प्रामोति तन्निष्पन्नं प्रायश्चित्तम् ॥ १८७० ॥ १८७१ ॥ 18 अत एवाह
सोऊण ऊ गिलाणं, पंथे गामे य भिक्खवेलाए।
जइ तुरियं नागच्छइ, लग्गइ गरुए स चउमासे ॥ १८७२ ।। श्रुत्वा ग्लानं पथि वा गच्छन् ग्रामे वा प्रविष्टो भिक्षायां वा पर्यटन् यदि त्वरितं' तत्क्षणादेव नागच्छति ततः 'लगति' प्राप्नोति स चतुरो मासान् गुरुकान् ॥१८७२॥ यत एवमतः-- 20
जह भमर-महुयरिगणा, निवतंती कुसुमियम्मि चूयवणे ।
ईय होइ निवइअव्वं, गेलने कइयवजढेणं ॥ १८७३॥ यथा भ्रमर-मधुकरीगणाः 'कुसुमिते' मुकुरिते 'चूतवने' सहकारवनखण्डे मकरन्दपानलोलुपतया निपतन्ति 'इति' अमुनैव प्रकारेण भगवदाज्ञामनुवर्तमानेन कर्मनिर्जरालाभलिप्सया ग्लान्ये समुत्पन्ने 'कैतवजन' मायाविप्रमुक्तेन त्वरितं 'निपतितव्यम्' आगन्तव्यं भवति । एवं- 25 कुर्वता साधर्मिकवात्सल्यं कृतं भवति, आत्मा च निर्जराद्वारे नियोजितो भवति ॥ १८७३ ॥ तस्य च ग्लानत्वस्य प्रतिबद्धामिमां द्वारगाथामाह
सुद्धे सड्डी इच्छकारे, असत्त सुहिय ओमाण लुद्धे य ।
अणुअत्तणा गिलाणे, चालण संकामणा तत्तो ॥ १८७४ ॥ प्रथमतः शुद्ध इति द्वारं वक्तव्यम् । ततः 'श्रद्धी' श्रद्धावानिति द्वारम् , तत इच्छाकार- 30 द्वारम् , तदनन्तरमशक्तद्वारम् , ततः सुखितद्वारम् , तदनु अपमानद्वारम् , ततोऽपि लुब्धद्वारम् ,
१ उक्तं पुरः मो० ले विना ॥ २ °चर्यागते. भा० ॥ ३ मो० ले. कां. विनाऽन्यत्र°क्षां वा त• डे० । 'क्षावेलायां वा भा० ॥ ४ तह हो ता० ॥